A
Study of Ratnaprabha – 40
रत्नप्रभाविमर्श:
सप्तमोऽध्यायः
समन्वयाधिकरणम्
Author:
DR.
CHILAKAMARTHI DURGA PRASADA RAO
....गताङ्कादग्रे....
-: प्राभाकरमतखण्डनम्
:-
अत्र भगवत्पादा: “औपनिषदस्य पुरुषस्य अनन्यशेषत्वात्” इत्यादिवाक्यै:
स्वसिद्धान्तं प्रदर्शयन्ति (ब्रह्मसूत्रशांकरभाष्यम्-172)|| अत्र रत्नप्रभाकार:||
तथाहि:- अज्ञातस्य फलस्वरूपस्यात्मन: उपनिषदेकवेद्यस्या कार्यशेषत्वात् कृत्स्नवेदस्य
कार्यपरत्वमसिद्दम् (ब्रह्मसूत्रशांकरभाष्यरत्नप्रभा-172) इत्यादि || अत्र सिद्धान्तसारांशस्तावदयम् || तथा हि:-लिङ्गाद्यध्याहारं
विनाsपि “ सप्तद्वीपा वसुमती” “राजाsसौ गच्छति” “ पुत्रस्ते जात:” “ कन्या ते गर्भिणी
जाता” “ रज्जुरियं नाsयं सर्प:” इत्यादिवाक्येभ्योsपि लिङ्गाद्यर्थ विषयकोपस्थितरहितस्याsपि पुरुषस्या
sर्थाsवबोधो जायते,
तेन हर्षविषादा: लोके सर्वे sनुभवन्तीति सर्वेषामनुभवसिद्ध: एव || एवं
सर्वानुभवसिद्धमपलप्य सर्वत्राsपि कार्यपरत्वमेवेति वदतां प्राभाकराणां मतं निरुपपत्तिकं प्रतिभाति || क्रियाप्रयोजन
साधनत्वमात्रेण क्रियापरत्वमेव, क्रियापरत्वमेवेति
वचनं न सार्वत्रिकं भवितुमर्हति || रज्जुपिण्डे सर्पभ्रान्तिमत: भयकंपादिकं चाsनुभवत: पुरुषस्य
“नाsयं सर्प: किन्तु रज्जुरेव” इति आप्तेन रज्जुस्वरूपे उच्यमाने तत: रज्जुस्वरूपं
ज्ञात्वा सर्पभ्रान्तिं जहाति तत्परयुक्त: भयकंपादिकञ्च जहातीति लोकेsनुभवसिद्धमेव ||
तत्र लिङ्आद्य नुसन्धानं वा तदर्थकोपस्थितिर्वा नैवापेक्यते || एवं
नित्यशुद्धबुद्धमुक्तस्वभावे, निर्विशेषे, नित्यस्वप्रकाशानन्दब्रह्मणि तत्त्वमसी त्युपदिश्यमाने
अनाद्यविद्या तद्वासनाकर्मकरणादिप्रयुक्तं ब्रह्माsपरनाम्नि परमात्मनि परिकल्पितां
जीवभ्रान्तिं तत्त्वमसीतिमहावाक्योपदेशजन्यसाक्षात्कारेण जहाति || तन्मूलभूताsविद्यासहितां च जहाति
|| एवं च तत्र लिङ्ङ्आदीनामपेक्षा न जन्म शतेनाsपि कल्पयितुं
शक्या || अपि च कर्माsन्यत् ज्ञानमन्यत् तयो: सर्वधा समुच्चय: न संभवत्येव || स्थितिगत्यो:
विरुद्धत्वात्, ‘नाsहं कर्ता’ ‘नाsहं भोक्ता
किन्तु सच्चिदानन्दस्वरूप’ एवेति ज्ञानं, अहं कर्ता अहं भोक्ता एतत्कर्म मया कर्तव्यम् एतत्फलं च मया
भोक्तव्यम् इत्यादि आभिमानिकज्ञानं चैकस्यैकदा न संभवत: ||
एवञ्च सर्वानर्थनिवृत्तिरूपे महति प्रयोजनेsवगम्यमाने वेदान्तानां
कार्यपरत्वेनैव प्रामाण्यं न सिद्धपरत्वेनेति वचनं साहसमात्रम् ||
किञ्च कृत्स्नस्य वेदस्य कार्यपरत्वं वदतां प्राभाकरमतम् एवं पूर्वपक्षीक्रियते
रत्नप्रभाकरै: || तथा हि :- ब्रह्मण: नास्तित्वादेव कृत्स्नवेदस्य कार्यपरत्वं ,
अत्र वेदान्तेषु तस्याभानात् अथवा कार्यशेषत्वात्
किं वा लोकसिद्धत्वात् आहोस्वित् मानान्तर विरोधात् इत्यादि ||
तत्राद्य: न घटते || तथाहि:- ब्रह्मात्मनो: अभिन्नत्वात् , आत्मन:
प्रत्याख्यातुमशक्यत्वात् , ब्रह्मण: नास्तित्वं नोपपद्यते || किञ्च आत्मन: निराकरणमसाध्यमेव
|| तदुक्तं भगवत्पादै: “य एव हि निराकर्ता तस्यैवाsत्मत्वात्” इत्यादि ||
अपि च सर्वा: उपनिषद: मुक्तकण्ठं ब्रह्मैव प्रतिपादयन्ति वेदान्तेषु तस्याsभानादिति द्वितीयोऽपि
परास्तो भवति ||
तथैव उत्पाद्यादि चतुर्विधद्रव्यविलक्षणत्वात् ब्रह्मण: , तस्य कार्यशेषत्वमपि
नोपपद्यते ||
तथैव , यं तीर्थकारा: अपि न जानन्ति तस्य अलौकिकत्वं किमु वाच्यमिति ब्रह्मण:
लोक सिद्धताsपि निराक्रियते ||
एवमेव, ब्रह्मण: केषाञ्चिद्वादिनां प्रमाणेन युक्त्या वा अगम्यत्वान्न
मानान्तर विरोधित्वं तस्य || तथा च सर्वाभिरुपनिषद्भि:
नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावस्यात्मन: प्रतिपाद्यमानत्वात् भूतवस्तुपरो वेदभागो
नाsस्तीति
प्राभाकरोक्तं वचनं साहस मात्रमेवेति भगवत्पादानामाशयो व्याख्यात: रत्नप्रभाकारै: ||
किञ्च यद्यपि “ दृष्टो हि तस्यार्थ: कर्माsव बोधनम्” इत्यादीनि प्रवृत्ति-निवृत्ति-परत्वेनैव वेदस्य
सार्थक्यं ब्रुवन्ति तथाsपि तद् धर्मजिज्ञासाविषयत्वम् || किन्तु
ब्रह्म मीमांसाशास्त्रे तत्परवेदान्तानां कार्यपरत्वं वक्तुं न शक्यते || अत एव
वेदान्तप्रकरणघटितोपासनावाक्यानामपि उपासनाद्वारा अन्त:करणशुद्धिं संपाद्य आत्मज्ञानं
संपादनीयमित्यत्रैव तात्पर्यम् || अत्र “सत्यं ज्ञाननमनन्तं ब्रह्म ”
इत्यवान्तर वाक्यानां “तत्त्वमसि” इत्यादि
महावाक्यानां च निर्गुणब्रह्मपरत्वमेव नत्वन्यपरत्वम् || अवान्तरवाक्यानां
तात्पर्यमवान्तर तात्पर्यमिति महावाक्यानां तात्पर्यं महा तात्पर्यमिति तद्वदुपवर्ण्य
“ अहमीश्वरो वा” “अहमात्मा न वा ” “नाsहमीश्वर:” इत्यादि भेदभ्रमसंशयनिवर्तकत्वं महावाक्य
ज्ञानस्यैव न तु सत्यं ज्ञानमनन्तमित्यवान्तर वाक्यजयज्ञानस्य इति विवरणे
प्रतिपादितम् || एवं “तरति शोकमात्मवित्” (छा.उ *7.1.3) इत्यादौ आत्मज्ञाननिवर्त्यत्वं
शोकशब्दवाच्यस्य बन्धस्य प्रतीयमानत्वात् ज्ञानैकसाध्या बन्धनिवृत्ति: न
कर्मसाध्या,
बन्धस्याज्ञानविलसितत्वात् | एवं च बन्धनिवृत्ते: ज्ञानैकसाध्यत्वेन, ज्ञानस्य
वस्तुतन्त्रत्वेन च ब्रह्मज्ञाने जाते निखिल संसारनिवृत्तिर्भवति ||
.....अनुवर्तते .....