Wednesday, June 12, 2024

A Study of Ratnaprabha-Part-11 रत्नप्रभाविमर्श: (ख्यातिवादविमर्श: ) Dr. Ch. Durgaprasada Rao

A Study of Ratnaprabha-Part-11 रत्नप्रभाविमर्शे तृतीयोsध्याय: {Ratnaprabhaa vimarsha} ख्यातिवादविमर्श: Dr. Ch. DurgaprasadaRao गताङ्कादग्रे... अध्यासस्वरुपनिरुपणे भगवत्पादै: अनिर्वचनीयख्याति: अङ्गीकृता || अनिर्वचनीयत्वं नाम सत्त्वाsसत्वाभ्यां वक्तुमशक्यत्वम् || प्रपञ्च: सद्रूप: चेत् ब्रह्म वदबाध्येत नित्य एव स्यात् इत्यर्थ; || असद्रूप: चेत् वन्ध्यापुत्रादिवदनुपलभ्येत || सदसदत्मकत्वन्तु विरुद्धम् || अतोsनिर्वचनीय: इत्युच्यते || शुक्तिरजतस्थले भ्रान्तिदृष्ट्या दृश्यमानं शुक्तिरजतं शुक्तिज्ञानेन बाध्यं भवति, शुक्तिज्ञानाभावदशायां भासते च || अत: सद्रूपं न भवति , असद्रूपं न भवति , सदसद्रूपञ्च न भवतीत्यनिर्वचनीयमेव || अत्र प्रधानतया ख्यातिपञ्चकं तान्त्रिकैरभ्युपगम्यते || 1. आत्मख्याति: 2. असत्ख्याति: 3. अख्याति: 4 अन्यथाख्याति: 5. अनिर्वचनीयख्याति: इति ख्यातय: || 1. योगाचारा: 2. माध्यमिका: 3. मीमांसका: 4. नैयायिका: 5. अद्वैतिन: - इति तत्प्रवक्तारश्च || अत्र प्रथमत: “अत्र केचिदन्यत्राsन्यधर्माध्यास:” इति अन्यथा ख्यातिवादिनामात्मख्यातिवादिनाञ्च मतं भगवत्पादै: प्रदर्शितम् || ख्याति: नाम प्रतीति: || अन्यथाख्याति: नाम अन्यस्य अन्यरूपेण प्रतीति: || अत्र केचित् = अन्यथाख्यातिवादिन: अन्यत्र = शुक्त्यादौ अन्यधर्मस्य = स्वावयवधर्मस्य देशान्तरस्थराजतादे: अध्यास: इति वदन्तीति रत्नप्रभाविवरणम् {14}|| अन्यथाख्यातिवादिनां तार्किकाणां , भाट्टमीमांसकानां च अयमाशय: यत् शुक्त्यादे: नैगनिग्येन कारणेन देशान्तर स्थरजतस्य शुक्तौ रजताकारेण प्रतीयमानत्वादन्यथाख्याति: || ततो भगवत्पादै: तं केचिदन्यत्रान्यधर्माध्यास: इत्यनेनैव वाक्येन आत्मख्यातिवादिनामपि मतं प्रदर्शितम् || अत्र रत्नप्रभा || अन्यत्र = बाह्ये शुक्त्यादौ अन्यधर्मस्य = बुद्धिरुपात्मन: धर्मस्य (रजतस्य) अध्यास: = अवभास: (इति) || बौद्धैकदेशिन: योगाचारा: आलयविज्ञानस्यात्मन: एव ख्याति: रजतादिरूपेण प्रतीतिरिति वदन्ति || तथा च बाह्ये शुक्तिशकले बुद्धिरुपात्मन: धर्मस्य रजताध्यास: अर्थात् आन्तरस्य रजतस्य बहिर्वदवभास: इति वदन्ति || अत्र आत्मन: बुद्धे: ख्याति: विषयरूपेण प्रतिभास: ते आत्मख्यातिवादिन: || प्राभाकरगुरुमतावलम्बिन: मीमांसका: विभ्रमज्ञानमनङ्गीकृत्याsख्यातिवादमातिष्ठन्ते || तेषाञ्च मतं “ केचत् यत्र यदध्यास: तद्विवेकाग्रहनिबन्ध्नो भ्रम:” इति भगवत्पादैरनूदितम् || अत्र रत्नप्रभाकारा: || यत्र = यदध्यासो लोकसिद्ध: तयो: = तद्धियोश्च भेदाsग्रहे सति तन्मूलो भ्रम: इदं रुप्यमिति विशिष्टव्यवहार: इति (16) || प्राभाकराणामयमाशय: यत् कुत्राsपि भ्रान्ति: नास्त्येव || सर्वविज्ञानं यथार्थमेव || एवमेव शुक्ताविदं रजतमित्यत्राsपि भ्रान्तिर्नास्त्येव || तत्र ज्ञानद्वयमङ्गीक्रियते || इदमित्याकारकम् अनुभवात्मक ज्ञानमेकं, रजतमित्याकारकं स्मरणात्मकज्ञानमपरम् || किन्तु तत्र इदमाकाररजताकारज्ञानयो: भेदज्ञानाभावेन राजतार्थी तत्र प्रवर्तते इति तेषां मतं प्रदर्शितं भगवत्पादै: || शून्यवादिनो बौद्धा: असत्ख्यातिवादमभ्युपगच्छन्ति || असत: शून्यतातत्त्वस्यैव ख्याति: राजतात्मना प्रतीति: असत्ख्यातिरित्यर्थ: || भाष्ये तु “ यत्र यदध्यास: तस्यैव विपरीत धर्मत्व कल्पनामाचक्षन्ते ” इति तेषां मतं प्रदर्शितं भगवत्पादै: || अत्र रत्नप्रभाकारा: || अन्ये = शून्यवादिनो बौद्धा: तस्यैव = अधिष्ठानस्य शुक्त्यादे: विपरीत = विरुद्ध: धर्मो यस्य तद्भाव: तस्य धर्मत्वकल्पनां = रजतादे: अत्यन्तासत: कल्पनामाचक्षन्ते इति || बुद्धशिष्यास्तु चत्वार: वैभाषिका: , योगाचारा: , सौत्रान्तिका:, माध्यमिकाश्च || तेषु वैभाषिकाणां मते बाह्यं वस्तु सत् तत्प्रत्यक्षम् || सौत्रान्तिकानां मते बाह्यं वस्तु सदपि न प्रत्यक्षम् || योगाचाराणां मते विज्ञानस्यैव सत्त्वं तदतिरिक्तस्य सर्वस्याsसत्वम् || तथा च त्रयाणामपि मते विज्ञानधर्मस्य रजतस्य शुक्तिकायां समारोप: इति त्रयस्ते आत्मख्यातिवादिन: एव || शून्यवादी माध्यमिकस्तु शून्यतातत्वमेव सर्वं शून्यतातत्त्वमेव सदिवावभासते इत्यभ्युपगच्छति || अत्र शून्यतातत्त्वमेव राजताकारेण प्रतीयमान त्वादियमसत्ख्याति: || .... अनुवर्तते ....(To be continued)

Sunday, June 9, 2024

A Study of Ratnaprabha-Part-10 रत्नप्रभाविमर्शे तृतीयोsध्याय: अध्यास:(superimposition) Dr. Ch. DurgaprasadaRao

A Study of Ratnaprabha-Part-10 रत्नप्रभाविमर्शे तृतीयोsध्याय: {Ratnaprabhaa vimarsha} अध्यास:(superimposition) Dr. Ch. DurgaprasadaRao गताङ्कादग्रे... अत्रायमभिप्राय: || यत्र यद्वस्त्वस्तीति भासते तत्रैव तद्वस्तु नाsस्तीत्युच्यते || लोके हि “घटवद्भूतलम्” इत्यत्र यस्मिन् भूतले घटोsस्तीति प्रतीयते तस्मिन्नेव घटाधिकरणे घटो नास्तीति प्रतीति: न भवति, अनुभवविरुद्धत्वात् || अत्राध्यासस्थले तु “इदं रजतम्” इति रजतत्वेन प्रतीयमाने शुक्तिशकले सहस्रजनानुभवविषयत्वेsपि परमार्थत: तत्र रजतस्याsभावात् स्वाsत्यन्ताभाववत्यव भास्यत्वमस्त्येव || एवञ्च एकावच्छेदेन = आत्मत्वावच्छेदेन ; स्वाsत्यन्ताभाववति = जीवत्वेश्वरत्व जगदात्मक – दृश्यात्यन्ताभाववति; आत्मनि (ब्रह्मणि ) वस्तुत: स्वात्यन्ताभाववति = पारमार्थिकत्वावच्छिन्नप्रतियोगिताक दृश्यात्यन्ताभाववति, अवभास्यत्वं = जीवत्वेश्वरत्वजगदात्मकदृश्ये लक्ष्यमाणत्वाल्लक्षणसमन्वय: || एवं ‘स्वयमहम्’ इत्यत्र स्वयन्त्वावच्छेदेन प्रत्यगात्मनि कूटस्थेsहङ्कारादे: संसर्गकाले तदत्यन्ताभावस्य सत्वात् कूटस्थकल्पिताहङ्कारार्थरुपाध्यासे लक्ष्ये लक्षणसमन्वय: || नैयायिकास्तु कपिसंयोगी वृक्ष: मूले न इति प्रतीत्या अग्रदेशे कपिसंयोग: वर्तते मूलदेशे नास्तीति कपिसंयोगाधिकारणाभावे वृक्षे कपिसंयोगस्य सत्त्वमङ्गीकुर्वन्ति || किञ्च घटापसरणानन्तरं घटो नास्तीति घटाधिकरणे एव प्रतीतिमभ्युपगच्छन्ति || वेदान्तिनस्तु न तथा || यस्मिन् काले यदवच्छेदेन यद्यस्मिन् प्रतीयते तस्मिन् काले तदवच्छेदेन तत्तत्र नास्तीत्येवेति सर्वथा तत्र परमार्थत: असत्वमेवाभ्युपगच्छन्ति || अत्र भावाभावयोरेकत्र सत्वाङ्गीकारे अनुभव विरोध: इति पूर्वपक्षे प्राप्ते मिथ्यात्ववादिनामेतादृशविरोधस्त्वलंकार एवेति समाधनमुक्तम् (10) || तथा च सर्वलक्षणविलक्षणमेव एतदध्यास लक्षणमित्यवश्यमभ्युपगन्तव्यम् || एतदध्यासनिष्कृष्टलक्षणम व्याप्त्यतिव्याप्त्यसंभवदोषनिवृत्तिपूर्वकं पुर्णानन्दीये विस्तरेण निरुपितम् || भगवत्पादै: अध्यासनिरुपणे “अहमिदम्”, “ममेदम्” इति उदाहरणद्वयं प्रदर्शितम् || अध्यात्मिककार्याध्यासेषु अहमिति प्रथमोsध्यास: || अत्र अहमित्यनेन मनुष्योsहम् इति तादात्म्याध्यासो दर्शित: || ममेदम् इत्यत्र ममेदं शरीरमिति संसर्गाध्यास: इति रत्नप्रभाकारा: (11) || अत्र तादात्म्यसंसर्गयो: को भेद: इत्याशंकायां सतैक्ये सति मिथो भेद: तादात्म्यम् इति तादात्म्यस्वरुप: प्रदर्शित: रत्नप्रभायाम् || तथा चाद्वैतेsवश्यं ज्ञातव्यमेतद्यत्तादात्म्याध्यास इत्युक्तौ द्वयोर्वस्तुनो: सतो: एकस्मिन् वस्तुनि अपरवस्त्वात्मना ग्रहणम् इति न वक्तव्यम् || तथा चेत् अद्वैतव्याघात:|| शुक्तिरजताध्यासे शुक्तिरजतयो: सतो: शुक्तिशकले रजताध्यास: इति न वक्तव्यम् || परन्तु शुक्तिशकलमेव तूलाsज्ञानेनावृतं सत् राजतात्मना भासते इति वक्तव्यम् || तथा भानमेव तादात्म्याध्यास: इत्युच्यते || अत एव भगवत्पादै: ‘शुक्तिका हि रजतवदवभासते, एकश्चन्द्र: सद्वितीयवत् ’ इति अध्यास द्वयं दृष्टान्तत्वेनाsभिहितम् (12)|| तत्र शुक्तिशकलं राजतात्मना भासते इति अन्यस्य वस्तुन: अन्यवस्त्वात्मना भाने दृष्टान्त: || एकस्य वस्तुन: अनेक वस्त्वात्मना भाने तु ‘एकश्चन्द्र: सद्वितीयवत्’ इति दृष्टान्त: || प्रकृते अत्माधिष्ठानभ्रमाध्यासे दृ ष्टान्तद्वयमनुकूलमेव || मूलाज्ञानेनावृतं परमात्मतत्त्वं जीवेश्वरजगदात्मना भासते , अन्यवस्त्वात्मना भासते , अनेकवस्त्वात्मना भासते || तथा च सर्वैरपि ज्ञानिभि: अज्ञानिभिश्च ब्रह्मतत्त्वमेव दृश्यते || ज्ञानिभिस्तु सर्वं ब्रह्मात्मना दृश्यते, अज्ञानिभिस्तु जीवेश्वरजगदात्मना दृश्यते || अत्र नित्यजीवने अनुभवसिद्धा: केचन अध्यासा: प्रदर्श्यन्ते || 1. शुक्तौ रजताध्यास: 2. रज्ज्व्यां सर्पाध्यास: 3. स्थाणौ पुरुषाध्यास: 4. सर्पे रज्ज्वध्यास: 5. पुरुषे स्थाण्वध्यास: 6. समुद्रतरङ्गे नीलशिलात्वाध्यास: 7. गुञ्जापुञ्जे मर्कटादीनामग्नित्वाध्यास: 8. नीरूपे आकाशे नीलत्वाध्यास: , कटाहाकाराध्यासश्च 9. नयनारश्मिषु केशोण्ड्रकाध्यास: 10. काविलादिदोषेण शुक्ले शंखे पीतत्वाध्यास: 11. मण्डूकवसाञ्जनादिदोषेण वेणुदण्डेषु सर्पत्वाध्यास: 12. जपाकुसुमसन्निधौ शुद्धे स्फटिके लोहितत्वाध्यास: 13. कर्तरिसंस्कारसंस्कृते पटे पुण्डरीक मुकुलत्वाध्यास: 14. जले नीलत्वाध्यास: || इत्येवमादय: दृष्टान्ता: प्रदर्शनीया: भवन्ति || <><><> ....अनुवर्तते....

Friday, June 7, 2024

A Study of Ratnaprabha-Part-9 . अध्यास: (superimposition) Dr. Ch. DurgaprasadaRao.

A Study of Ratnaprabha-Part-9 रत्नप्रभाविमर्शे तृतीयोsध्याय: {Ratnaprabhaa vimarsha} अध्यास:(superimposition) Dr. Ch. DurgaprasadaRao. अत्र लक्षणपरभाष्यं, संभावनापरभाष्यं, प्रमाणपरभाष्यं चेत्यध्यासभाष्यं त्रिधा विभक्तम् || तथा हि:- आह कोsयमध्यासो नाम एत्यारभ्य “एवमविरुद्ध: प्रत्यगात्मन्यनात्माध्यास:” इत्यन्तं संभावनापरभाष्यं , तमेतमविद्याख्यम् इत्यारभ्य सर्वलोकप्रत्यक्ष: इत्यन्तं प्रमाणपरभाष्यं चेति विज्ञेयम् || तत्रादौ पूर्वपक्षी “कोsयमध्यासो नाम?” इति वाक्येनाध्यासलक्षणं किमिति पृच्छति || अस्य शास्त्रस्य तत्त्वनिर्णयप्रधानत्वेन वादकथात्वद्योतनार्थमाहेति परोक्ति: इति रत्नप्रभाकारा: ( रत्नप्रभा- page- 40) सिद्धान्ते तु भगवत्पादै: “ स्मृतिरूप: परत्र पूर्वदृष्टावभास:” इत्यध्यासलक्षणं प्रदर्शितम् (ब्र.सू.शां.भा-p. 45) || एतद्व्याख्यानावसरे रत्नप्रभाकारै: “ अत्र परत्र अवभास:” इत्येव लक्षणम्, शिष्टं पदद्वयं ददुपपादनार्थमित्युक्तम् (7) तत्र परत्र = शुक्तिशकलादौ, अवभास: = परस्य रजतस्यावभास: || एकस्मिन् वस्तुनि अन्यवस्त्वात्मकवृत्तिरेवाध्यास: इत्युक्तं भवति || दृष्टं = दर्शनं , पूर्वानुभव:, पूर्वानुभवजन्य: संस्कारजन्य: इत्युक्तं भवति || तथा च पूर्वदर्शनादवभास्यते इति पूर्वदृष्टावभास: || स्मृतिरुप: इत्यत्र स्मर्यते इति स्मृति: (सत्यरजतादि) स्मृते: रुपमिव रूपं यस्य स: स्मृतिरूप: इत्यर्थस्वीकारेण स्मर्यमाणसदृश: इत्यर्थ; फलति || सिद्धान्ते तु भगवत्पादै: स्मृतिरूप: परत्र पूर्व दृष्टावभास: इत्यध्यासलक्षणं प्रदर्शितम् || (ब्रह्मसूत्रशांकरभाष्यम्-page-45) एतद्व्याख्यानावसरे रत्नप्रभाकारै: अत्र परत्र अवभास: इत्येव लक्षणं शिष्टं पदद्वयं तदुपपादनर्थमित्युक्तम् ( रत्नप्रभा-page – 41)|| तत्र परत्र = शुक्तिशकलादौ अवभास: = परस्य रजतस्यावभास:|| एकस्मिन् वस्तुनि अन्यवस्त्वात्मकवृत्तिरेवाध्यास: इत्युक्तं भवति || दृष्टं दर्शनं पूर्वानुभव: , पूर्वानुभवजन्य: संस्कारजन्य: इत्युक्त: भवति || तथा च पूर्वदर्शनादवभास्यते इति पूर्व दृष्टावभास: || स्मृतिरूप: इत्यत्र स्मर्यते इति स्मृति: (सत्यरजतादि:) || स्मृते: रुपमिव रूपं यस्य स: इत्यर्थस्वीकारेण स्मर्यमाणसदृश: इत्यर्थ: फलति || एवञ्च प्रपञ्चभ्रमोsपि पूर्वप्रपाञ्चानुभव जन्यसंस्काराधीन: पूर्वप्रपञ्चसदृश: सततं प्रवाहरुपेणानुवर्तते इति विवृतम् || अयमध्यास: साद्यनादिभेदेन द्विविध: || अत्र सादित्वं जन्यत्वमनादित्वमजन्यत्वाम् || अहङ्काराध्यास: सादि: , अविद्याचितो रध्यासोsनादि: || अत्र द्वितीयस्यानादित्वे “जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा अविद्या तच्चितोर्योग: षडस्माकमनादय:” इत्यभियुक्तोक्ति: प्रमाणम् || अत्र साद्यनाद्यध्याससाधारणलक्षणन्त्वेवमुक्तं रत्नप्रभाकारै: || “एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ता भाववत्यवभास्यत्वमध्यस्तत्वम्” इति (8)|| अस्य लक्षणस्य समन्वयप्रकारश्चेत्थमुक्तम् || तथा हि :- राजताध्यासे एकावच्छेदेन = इदन्त्वावच्छेदेन , स्वसंसृज्यमाने = अत्र स्वपदम् अध्यासर्वेनाभिहितवस्तुपरं, तच्च रजतं, आरोपरजतेन स्वसंसृज्यमाने शुक्ति शकले , वस्तुत: स्वाsत्यन्ताभाववति = पारमार्थिकावच्छिन्नप्रतियोगिताकराजताs भाववति अवभास्यत्वम् इदं रजतम् इति भासमानत्वं राजतेsस्तीति लक्षण समन्वय: || .....अनुवर्तते......

Saturday, May 18, 2024

శ్రీ నూతులపాటి రాఘవరావు గారి శత వసంత దినోత్సవ వేడుకల సందర్భంగా వారిగురించి నా మనసులోని నాలుగు మాటలు .

శ్రీ నూతులపాటి రాఘవరావు గారి శతవసంత దినోత్సవవేడుకల సందర్భంగా వారిగురించి నా మనసులోని  నాలుగు మాటలు .

        ఉత్తమ అధ్యాపకులు, అత్యుత్తమ సాహితీవేత్త శ్రీ రాఘవరావు గారి తో నాకు గల అనుబంధం అమూల్యం, పురాకృత సుకృత ఫలం . కుర్వన్నేవేహ కర్మాణి జిజీవిషేచ్ఛతం సమా: అన్న ఉపనిషద్వాక్యానికి ఆయన ఉదాహరణ .   

        ఇక నేను 1-2- 85 లో అక్కినేని నాగేశ్వరరావు కళాశాలలో సంస్కృత అధ్యాపకునిగా చేరాను.  కళాశాల ప్రిన్సిపాల్ డాక్టర్ యెర్నేని వేంకటేశ్వరరావు గారు పిల్లలకు నన్ను పరిచయం చేయమని వీరిని కోరినప్పుడు వీరు నన్ను వెంటబెట్టుకుని తరగతిగదికి తీసుకెళ్లారు. నేను వారి పాదాలకు నమస్కారం చేసి  నా మొదటి పాఠం మొదలు పెట్టాను.  వారి ఆశీర్వాద బలంతోనే  నా విధినిర్వహణ ఫలవంతమైందని నా ప్రగాఢ విశ్వాసం. శ్రీ రాఘవరావుగారిని  ఎవరైనా కదిపితే సాహిత్యం, వారు స్వయంగా పెదవి  కదిపితే సాహిత్యం, ఇక వారి చుట్టూ చేరేవారికి సాహిత్య సంబంధమైన ఇంపులు సొంపులు , గుబాళింపులు తప్ప వేరేమీ కనిపించవు.

      ఒక మనిషి వ్యక్తిత్వానికి ‘వకార పంచకం’ ముఖ్యమని పెద్దల చెబుతారు .

వస్త్రేణ వపుషా వాచా విద్యాయా వినయేన వా  వస్త్రం, రూపం, మాట తీరు, విద్య, వినయం. అనే  ఈ ఐదు అంశాల్లోను  రాఘవరావు గారు తెలుగు దనం ఉట్టిపడేలా ఉంటారు . వారి వస్త్ర ధారణ, రూపం,  మాట తీరు,  విద్య, వినయ సంపద  అందరికీ ఆదర్శప్రాయం.

     ఆ రోజుల్లో తెలుగు, సంస్కృత, హిందీ శాఖలు మూడు త్రివేణీ సంగమంలా ఒకచోట కలిసి ఉండేవి.   భాషలు వేరైనా ఒకే విషయం పైన సాహిత్య గోష్ఠి జరుగుతూ ఉండేది . వివిధ శాఖలకు చెందిన  సభ్యులు కూడ వచ్చి పాల్గొంటూ ఉండేవారు. రాఘవరావు గారు అన్ని అంశాలను సమన్వయ పరిచే వారు . అభిప్రాయ భేదాలొస్తే  వాటిని సమాధాన పరుస్తూ  సమన్వయ కర్తగా   పరిష్కారం ముద్ర  వేసేవారు. అసలు సిసలైన కొసమెరుపులతో సమావేశం ముగిసేది. నేను, ఆయన కలిసి కొన్ని వందల సాహిత్యసభల్లో పాల్గొన్నాం.  కొన్ని వారితో కలసి,  మరికొన్ని ఆయన ఆధ్వర్యవం లోనివి . ఒక్క మాటలో చెప్పాలంటే ఆ రోజుల్లో వారు లేకుండ  ఏ సాహిత్య సభ జరిగేది కాదు.  ఇక ఏ విషయం, ఎక్కడ, ఎంతవరకు, ఎలా మాట్లాడాలో  అలా ప్రసంగించే సంయమనం వారి సొత్తు. ఇక సభా నిర్వహణ వారికి వెన్నతో పెట్టిన విద్య. వారి ప్రసంగాలు ఆచార్య నిడదవోలు వేంకటరావు వంటి సాహిత్య విమర్శకులను, విశ్వనాథ , తుమ్మల వంటి మహాకవులను అలరింప చేశాయంటే ఎంత సభా రంజకంగా ఉండేవో ప్రత్యేకంగా చెప్పనవసరం లేదు. గుడివాడ భారతీ సమితిలో వారు ప్రసంగించని సాహిత్యాంశం  లేదంటే అతిశయోక్తి కాదు.

        ఇక శ్రీ రాఘవరావుగారిని కలుసుకున్నా,  వారి పేరు తలుచుకున్నా నా మనస్సులో రెండు పద్యాలు స్పురిస్తాయి. విశ్వనాథ వారు తమ గురువులైన చెళ్ళపిళ్ళ వారిని స్తుతిస్తూ ఇలా అంటారు.    

“తన యెద యెల్ల మెత్తన కృత ప్రతిపద్యము నంతకంటే మె

త్తన తన  శిష్యులన్న యెడదం గల ప్రేముడి చెప్పలేని మె

త్తనయగు  శత్రు పర్వత శతారము శ్రీ గురు చెళ్ళపిళ్ళ వేం

కన గురువంచు చెప్పుకొనగా నది గొప్ప తెలుంగు నాడునన్” .

రాఘవరావుగారి హృదయం చాల సున్నితం. మాట అంతకంటే మృదువైనది. శిష్య వాత్సల్యం చెప్పలేనంత మెత్తినది . ఆయన శిష్యకోటి నేటికి దేశవిదేశాల్లో సగర్వంగా తలెత్తుకు తిరుగుతూ సాహిత్యసౌరభాలు వెదజల్లుతున్నారు.  

మరో పద్యం .  

 “పుడమిని పెక్కు సత్కవులు పుట్టరె!  మెట్టరె ! సత్కవిత్వపుం

దొడిమలు చెళ్ళపిళ్ళకవితో  తులతూగెడువారె! వానలో

తడియని వారు మద్గురు వధానకవిత్వ మరందధారలో

కడుగనివారు నాకెచట కానగరారిల తెల్గు నాడునన్ .

 అన్నట్లుగా శ్రీ రాఘవరావుగారి ఉపన్యాస ధారలో మునిగి పునీతులు కాని వారు

తెలుగు నేలలో ఎవరు కనిపించరనే చెప్పాలి. ఇంత గొప్ప వ్యక్తిత్వం గల వీరు అతి సామాన్యంగా ఉండడం గమనిస్తే  ‘ కొండ అద్దమందు కొంచెమై ఉండదా’ అన్న వేమన సూక్తి అక్షరాలా నిజమనిపిస్తుంది.

వీరు మరెన్నో వసంతాలు ఆయురారోగ్యై శ్వర్యాలతో జీవిస్తూ సాహిత్యసేవ చేస్తూ భావితరాలకు ఆదర్శ ప్రాయంగా నిలవాలని కోరుకుంటూ....

                                                                        విధేయుడు,

డాక్టర్ . చిలకమర్తి దుర్గాప్రసాదరావు.

 

గుడివాడ ,                                     9897959425

19-5-2024                       dr.cdprao@gmail.com

                                                          <><><>