Sunday, June 9, 2024

A Study of Ratnaprabha-Part-10 रत्नप्रभाविमर्शे तृतीयोsध्याय: अध्यास:(superimposition) Dr. Ch. DurgaprasadaRao

A Study of Ratnaprabha-Part-10 रत्नप्रभाविमर्शे तृतीयोsध्याय: {Ratnaprabhaa vimarsha} अध्यास:(superimposition) Dr. Ch. DurgaprasadaRao गताङ्कादग्रे... अत्रायमभिप्राय: || यत्र यद्वस्त्वस्तीति भासते तत्रैव तद्वस्तु नाsस्तीत्युच्यते || लोके हि “घटवद्भूतलम्” इत्यत्र यस्मिन् भूतले घटोsस्तीति प्रतीयते तस्मिन्नेव घटाधिकरणे घटो नास्तीति प्रतीति: न भवति, अनुभवविरुद्धत्वात् || अत्राध्यासस्थले तु “इदं रजतम्” इति रजतत्वेन प्रतीयमाने शुक्तिशकले सहस्रजनानुभवविषयत्वेsपि परमार्थत: तत्र रजतस्याsभावात् स्वाsत्यन्ताभाववत्यव भास्यत्वमस्त्येव || एवञ्च एकावच्छेदेन = आत्मत्वावच्छेदेन ; स्वाsत्यन्ताभाववति = जीवत्वेश्वरत्व जगदात्मक – दृश्यात्यन्ताभाववति; आत्मनि (ब्रह्मणि ) वस्तुत: स्वात्यन्ताभाववति = पारमार्थिकत्वावच्छिन्नप्रतियोगिताक दृश्यात्यन्ताभाववति, अवभास्यत्वं = जीवत्वेश्वरत्वजगदात्मकदृश्ये लक्ष्यमाणत्वाल्लक्षणसमन्वय: || एवं ‘स्वयमहम्’ इत्यत्र स्वयन्त्वावच्छेदेन प्रत्यगात्मनि कूटस्थेsहङ्कारादे: संसर्गकाले तदत्यन्ताभावस्य सत्वात् कूटस्थकल्पिताहङ्कारार्थरुपाध्यासे लक्ष्ये लक्षणसमन्वय: || नैयायिकास्तु कपिसंयोगी वृक्ष: मूले न इति प्रतीत्या अग्रदेशे कपिसंयोग: वर्तते मूलदेशे नास्तीति कपिसंयोगाधिकारणाभावे वृक्षे कपिसंयोगस्य सत्त्वमङ्गीकुर्वन्ति || किञ्च घटापसरणानन्तरं घटो नास्तीति घटाधिकरणे एव प्रतीतिमभ्युपगच्छन्ति || वेदान्तिनस्तु न तथा || यस्मिन् काले यदवच्छेदेन यद्यस्मिन् प्रतीयते तस्मिन् काले तदवच्छेदेन तत्तत्र नास्तीत्येवेति सर्वथा तत्र परमार्थत: असत्वमेवाभ्युपगच्छन्ति || अत्र भावाभावयोरेकत्र सत्वाङ्गीकारे अनुभव विरोध: इति पूर्वपक्षे प्राप्ते मिथ्यात्ववादिनामेतादृशविरोधस्त्वलंकार एवेति समाधनमुक्तम् (10) || तथा च सर्वलक्षणविलक्षणमेव एतदध्यास लक्षणमित्यवश्यमभ्युपगन्तव्यम् || एतदध्यासनिष्कृष्टलक्षणम व्याप्त्यतिव्याप्त्यसंभवदोषनिवृत्तिपूर्वकं पुर्णानन्दीये विस्तरेण निरुपितम् || भगवत्पादै: अध्यासनिरुपणे “अहमिदम्”, “ममेदम्” इति उदाहरणद्वयं प्रदर्शितम् || अध्यात्मिककार्याध्यासेषु अहमिति प्रथमोsध्यास: || अत्र अहमित्यनेन मनुष्योsहम् इति तादात्म्याध्यासो दर्शित: || ममेदम् इत्यत्र ममेदं शरीरमिति संसर्गाध्यास: इति रत्नप्रभाकारा: (11) || अत्र तादात्म्यसंसर्गयो: को भेद: इत्याशंकायां सतैक्ये सति मिथो भेद: तादात्म्यम् इति तादात्म्यस्वरुप: प्रदर्शित: रत्नप्रभायाम् || तथा चाद्वैतेsवश्यं ज्ञातव्यमेतद्यत्तादात्म्याध्यास इत्युक्तौ द्वयोर्वस्तुनो: सतो: एकस्मिन् वस्तुनि अपरवस्त्वात्मना ग्रहणम् इति न वक्तव्यम् || तथा चेत् अद्वैतव्याघात:|| शुक्तिरजताध्यासे शुक्तिरजतयो: सतो: शुक्तिशकले रजताध्यास: इति न वक्तव्यम् || परन्तु शुक्तिशकलमेव तूलाsज्ञानेनावृतं सत् राजतात्मना भासते इति वक्तव्यम् || तथा भानमेव तादात्म्याध्यास: इत्युच्यते || अत एव भगवत्पादै: ‘शुक्तिका हि रजतवदवभासते, एकश्चन्द्र: सद्वितीयवत् ’ इति अध्यास द्वयं दृष्टान्तत्वेनाsभिहितम् (12)|| तत्र शुक्तिशकलं राजतात्मना भासते इति अन्यस्य वस्तुन: अन्यवस्त्वात्मना भाने दृष्टान्त: || एकस्य वस्तुन: अनेक वस्त्वात्मना भाने तु ‘एकश्चन्द्र: सद्वितीयवत्’ इति दृष्टान्त: || प्रकृते अत्माधिष्ठानभ्रमाध्यासे दृ ष्टान्तद्वयमनुकूलमेव || मूलाज्ञानेनावृतं परमात्मतत्त्वं जीवेश्वरजगदात्मना भासते , अन्यवस्त्वात्मना भासते , अनेकवस्त्वात्मना भासते || तथा च सर्वैरपि ज्ञानिभि: अज्ञानिभिश्च ब्रह्मतत्त्वमेव दृश्यते || ज्ञानिभिस्तु सर्वं ब्रह्मात्मना दृश्यते, अज्ञानिभिस्तु जीवेश्वरजगदात्मना दृश्यते || अत्र नित्यजीवने अनुभवसिद्धा: केचन अध्यासा: प्रदर्श्यन्ते || 1. शुक्तौ रजताध्यास: 2. रज्ज्व्यां सर्पाध्यास: 3. स्थाणौ पुरुषाध्यास: 4. सर्पे रज्ज्वध्यास: 5. पुरुषे स्थाण्वध्यास: 6. समुद्रतरङ्गे नीलशिलात्वाध्यास: 7. गुञ्जापुञ्जे मर्कटादीनामग्नित्वाध्यास: 8. नीरूपे आकाशे नीलत्वाध्यास: , कटाहाकाराध्यासश्च 9. नयनारश्मिषु केशोण्ड्रकाध्यास: 10. काविलादिदोषेण शुक्ले शंखे पीतत्वाध्यास: 11. मण्डूकवसाञ्जनादिदोषेण वेणुदण्डेषु सर्पत्वाध्यास: 12. जपाकुसुमसन्निधौ शुद्धे स्फटिके लोहितत्वाध्यास: 13. कर्तरिसंस्कारसंस्कृते पटे पुण्डरीक मुकुलत्वाध्यास: 14. जले नीलत्वाध्यास: || इत्येवमादय: दृष्टान्ता: प्रदर्शनीया: भवन्ति || <><><> ....अनुवर्तते....

No comments: