Wednesday, June 12, 2024

A Study of Ratnaprabha-Part-11 रत्नप्रभाविमर्श: (ख्यातिवादविमर्श: ) Dr. Ch. Durgaprasada Rao

A Study of Ratnaprabha-Part-11 रत्नप्रभाविमर्शे तृतीयोsध्याय: {Ratnaprabhaa vimarsha} ख्यातिवादविमर्श: Dr. Ch. DurgaprasadaRao गताङ्कादग्रे... अध्यासस्वरुपनिरुपणे भगवत्पादै: अनिर्वचनीयख्याति: अङ्गीकृता || अनिर्वचनीयत्वं नाम सत्त्वाsसत्वाभ्यां वक्तुमशक्यत्वम् || प्रपञ्च: सद्रूप: चेत् ब्रह्म वदबाध्येत नित्य एव स्यात् इत्यर्थ; || असद्रूप: चेत् वन्ध्यापुत्रादिवदनुपलभ्येत || सदसदत्मकत्वन्तु विरुद्धम् || अतोsनिर्वचनीय: इत्युच्यते || शुक्तिरजतस्थले भ्रान्तिदृष्ट्या दृश्यमानं शुक्तिरजतं शुक्तिज्ञानेन बाध्यं भवति, शुक्तिज्ञानाभावदशायां भासते च || अत: सद्रूपं न भवति , असद्रूपं न भवति , सदसद्रूपञ्च न भवतीत्यनिर्वचनीयमेव || अत्र प्रधानतया ख्यातिपञ्चकं तान्त्रिकैरभ्युपगम्यते || 1. आत्मख्याति: 2. असत्ख्याति: 3. अख्याति: 4 अन्यथाख्याति: 5. अनिर्वचनीयख्याति: इति ख्यातय: || 1. योगाचारा: 2. माध्यमिका: 3. मीमांसका: 4. नैयायिका: 5. अद्वैतिन: - इति तत्प्रवक्तारश्च || अत्र प्रथमत: “अत्र केचिदन्यत्राsन्यधर्माध्यास:” इति अन्यथा ख्यातिवादिनामात्मख्यातिवादिनाञ्च मतं भगवत्पादै: प्रदर्शितम् || ख्याति: नाम प्रतीति: || अन्यथाख्याति: नाम अन्यस्य अन्यरूपेण प्रतीति: || अत्र केचित् = अन्यथाख्यातिवादिन: अन्यत्र = शुक्त्यादौ अन्यधर्मस्य = स्वावयवधर्मस्य देशान्तरस्थराजतादे: अध्यास: इति वदन्तीति रत्नप्रभाविवरणम् {14}|| अन्यथाख्यातिवादिनां तार्किकाणां , भाट्टमीमांसकानां च अयमाशय: यत् शुक्त्यादे: नैगनिग्येन कारणेन देशान्तर स्थरजतस्य शुक्तौ रजताकारेण प्रतीयमानत्वादन्यथाख्याति: || ततो भगवत्पादै: तं केचिदन्यत्रान्यधर्माध्यास: इत्यनेनैव वाक्येन आत्मख्यातिवादिनामपि मतं प्रदर्शितम् || अत्र रत्नप्रभा || अन्यत्र = बाह्ये शुक्त्यादौ अन्यधर्मस्य = बुद्धिरुपात्मन: धर्मस्य (रजतस्य) अध्यास: = अवभास: (इति) || बौद्धैकदेशिन: योगाचारा: आलयविज्ञानस्यात्मन: एव ख्याति: रजतादिरूपेण प्रतीतिरिति वदन्ति || तथा च बाह्ये शुक्तिशकले बुद्धिरुपात्मन: धर्मस्य रजताध्यास: अर्थात् आन्तरस्य रजतस्य बहिर्वदवभास: इति वदन्ति || अत्र आत्मन: बुद्धे: ख्याति: विषयरूपेण प्रतिभास: ते आत्मख्यातिवादिन: || प्राभाकरगुरुमतावलम्बिन: मीमांसका: विभ्रमज्ञानमनङ्गीकृत्याsख्यातिवादमातिष्ठन्ते || तेषाञ्च मतं “ केचत् यत्र यदध्यास: तद्विवेकाग्रहनिबन्ध्नो भ्रम:” इति भगवत्पादैरनूदितम् || अत्र रत्नप्रभाकारा: || यत्र = यदध्यासो लोकसिद्ध: तयो: = तद्धियोश्च भेदाsग्रहे सति तन्मूलो भ्रम: इदं रुप्यमिति विशिष्टव्यवहार: इति (16) || प्राभाकराणामयमाशय: यत् कुत्राsपि भ्रान्ति: नास्त्येव || सर्वविज्ञानं यथार्थमेव || एवमेव शुक्ताविदं रजतमित्यत्राsपि भ्रान्तिर्नास्त्येव || तत्र ज्ञानद्वयमङ्गीक्रियते || इदमित्याकारकम् अनुभवात्मक ज्ञानमेकं, रजतमित्याकारकं स्मरणात्मकज्ञानमपरम् || किन्तु तत्र इदमाकाररजताकारज्ञानयो: भेदज्ञानाभावेन राजतार्थी तत्र प्रवर्तते इति तेषां मतं प्रदर्शितं भगवत्पादै: || शून्यवादिनो बौद्धा: असत्ख्यातिवादमभ्युपगच्छन्ति || असत: शून्यतातत्त्वस्यैव ख्याति: राजतात्मना प्रतीति: असत्ख्यातिरित्यर्थ: || भाष्ये तु “ यत्र यदध्यास: तस्यैव विपरीत धर्मत्व कल्पनामाचक्षन्ते ” इति तेषां मतं प्रदर्शितं भगवत्पादै: || अत्र रत्नप्रभाकारा: || अन्ये = शून्यवादिनो बौद्धा: तस्यैव = अधिष्ठानस्य शुक्त्यादे: विपरीत = विरुद्ध: धर्मो यस्य तद्भाव: तस्य धर्मत्वकल्पनां = रजतादे: अत्यन्तासत: कल्पनामाचक्षन्ते इति || बुद्धशिष्यास्तु चत्वार: वैभाषिका: , योगाचारा: , सौत्रान्तिका:, माध्यमिकाश्च || तेषु वैभाषिकाणां मते बाह्यं वस्तु सत् तत्प्रत्यक्षम् || सौत्रान्तिकानां मते बाह्यं वस्तु सदपि न प्रत्यक्षम् || योगाचाराणां मते विज्ञानस्यैव सत्त्वं तदतिरिक्तस्य सर्वस्याsसत्वम् || तथा च त्रयाणामपि मते विज्ञानधर्मस्य रजतस्य शुक्तिकायां समारोप: इति त्रयस्ते आत्मख्यातिवादिन: एव || शून्यवादी माध्यमिकस्तु शून्यतातत्वमेव सर्वं शून्यतातत्त्वमेव सदिवावभासते इत्यभ्युपगच्छति || अत्र शून्यतातत्त्वमेव राजताकारेण प्रतीयमान त्वादियमसत्ख्याति: || .... अनुवर्तते ....(To be continued)

No comments: