Tuesday, April 12, 2016

Read n laugh if you wish-2

Read n laugh if you wish-2

L L L
कश्चनपुरुष: रैलयाने प्रथमश्रेण्याम् उपविश्य प्रयाणं   कुर्वन् आसीत् || T.T.E आगत्य ticket दर्शयतु इति तं पृष्टवान् ||  मया ticket स्वीकृतंम् इति समाधानमुक्तं तेन ||
एवं वा ! भवान् ticket स्वीकृतवान्  तथापि प्रथमश्रेण्याम् उपविश्य  प्रयाणं करोति कियत् धैर्यं ते ? इति पृष्टवान् T.T.E महोदय: ||
 यदि Ticket स्वीकृतं चेत् कतमा श्रेणी इति प्रश्न: तन्नास्ति चेत् श्रेणीविषय: प्रश्न: कुत:?” इति समाधानं दत्तं तेन ||
L L L
उपाध्याय: -- श्रीकृष्ण: किमर्थं गोपिकानां वस्त्राणि अपहृतवान् ?
विद्यार्थी   : -- क्षम्यतां गुरुवर्य ! अहं  जानामि ||
उपाध्याय: :-- रे मूर्ख ! अहं जानामि इति वक्तव्यम् || यत्किमपि  आलोच्य वदतु ||
विद्यार्थी  :-- किञ्चित् कालम् आलोच्य बहुश: द्रौपद्या: वस्त्रापहरणसमये मानसंरक्षणार्थं तस्यै दातुम् भवेत् ||
L L L

कश्चन पुरुषचाय (tea) पानार्थम्   एकम्  अट्टशूलं (hotel) गतवान् ||
एकं चायम् आनयतु इति सेवकं सूचितवान् ||
तदा एक: सेवक: स्वकीयाम्  अङ्गुलीं चायचषके (tea cup) निक्षिपन्  चायम् आनीतवान् ||
तत् दृष्ट्वा : पुरुष: तीव्रकोपेन सेवकमुद्दिश्य  भो ! किमर्थम् अङ्गुलीं चायमध्ये निक्षिप्तवान् भवान् ? भवतां बुद्धि: नास्ति किम् ? इति निन्दितवान् || तदा सेवक: शान्तस्वरेण  आर्य ! मम अङ्गुल्यां: अग्रभागे व्रण: (a swelling) अस्ति || : व्रण: अतीव मां बाधते ||  तस्य बाधोपशमनार्थं कवोष्णे चायद्रवे  (lukewarm) अङ्गुळीमेवं निक्षिप्तवान् अहम् ||  तदर्थं क्षमा याच्यते इत्युक्तवान् || 
तत् श्रुत्वा : “ “ रे मूर्ख! नासिकायां स्थापयतु तत्रापि कवोष्णं भवति इति सूचनां कृतवान् ||
तदा सेवक: उक्तवान् यद् आर्य ! एतावत्पर्यन्तं  ममाङ्गुली तत्रैव निक्षिप्ता || इदमिदानीमेव अत्र चायचषके स्थापिता अस्ति इति ||




No comments: