A Study of Ratnaprabha-Part- 14
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
DR.
CHILAKAMARTHI DURGA PRASADA RAO,
Bhasha praveena , Vedanta vidya Praveena,
M A (Sanskrit), M A (Telugu), M
A (Philosophy)
& Ph D (Sanskrit)
गताङ्कादग्रे......
सत्तात्रैविद्ध्यम्
सर्वेष्वप्यध्यासेषु अज्ञानमेव मूल कारणमिति वक्तव्यम् || एवं सर्वेप्यध्यासा: अनात्माधिष्ठानकाध्यासा: एव || आत्माधिष्ठानकाध्यासस्तु स्वप्नाध्यास: || तथा प्रपञ्चाध्यास: सर्वोऽपि आत्माधिष्ठानक एव ||
तत्राध्यासो द्विविध: प्रातिभासिको व्यावहारिकश्चेति || प्रातिभासिकाध्यासस्तु
शुक्तिरजताध्यास: , रज्जुसर्पाध्यासश्च ||
प्रातिभासिकत्वं नाम प्रतिभासासमयवर्तित्वम् || यावद्रजताकार वृत्तित्वं तावदेव
रजतस्य स्थितिरित्यर्थ: ||
अत एव तत्प्रातिभासिकमुच्यते ||
प्रातिभासिकत्वस्य अन्यं लक्षणमाप्यस्ति ||
ब्रह्मज्ञानेतरबाध्यत्वं प्रातिभासिकत्वमिति ||
ब्रह्मज्ञानेतरेण शुक्तिज्ञानेन रजतं बाध्यते , राजताध्यासो निवर्तते || एवं ब्रह्मज्ञानेतरेण
प्रबोधेन स्वप्नाध्यासो निवर्तते || एवमेव ब्रह्मज्ञानेतरेण रज्जुज्ञानेन
सर्पाध्यासो निवर्तते च ||
आगन्तुकदोषजन्यत्वं प्रातिभासिक त्वमित्यप्याचक्षते || आगन्तुकदोषो नाम “ अनादिमूलाज्ञानभिन्नदोष:
” इत्युच्यते || स च काचादि दोष: || नेत्रगतकाचादि दोषवशाच्छुक्तौ राजतादिभ्रमो
जायते || आगन्तुकनिद्रादोषवशादात्मनि स्वप्नाध्यासो जायते || एवं
प्रातिभासिकाध्यासो विवक्षनीयो भवति ||
व्यावहारिकाध्यासो नाम मूलाज्ञानजन्योsध्यास: ||
व्यावहारिकत्वं नाम ब्रह्मज्ञानमात्रबाध्यत्वम् || व्यावहारिकप्रपञ्चभ्रमस्तु ब्रह्मज्ञानेतरेण
केनचन नैव निवर्तते || किन्तु ब्रह्मज्ञानेनैव निवर्तते || अत: ब्रह्मज्ञानमात्रबाध्यत्वं
व्यावहारिकत्वमित्युपपन्नं भवति || अनादि दोषजन्यत्वमपि व्यावहारिकत्व प्रयोजनम् ||
व्यावहारिकाध्यासे मूलाविद्यैव दोषत्वेन हेतु: || अत: अनादिदोषजन्यत्वं प्रपञ्चाध्यासे
उपपन्नं भवति || एतादृश मनुभवमनुसृत्यैव
सत्यत्वं त्रिविधमित्यु क्तम् ||
1.
प्रातिभासिकसत्यत्वम्
2.
व्यावहारिक
सत्यत्वम्
3 पारमार्थिक सत्यत्वम्
अत्र पारमार्थिकसत्यत्वं ब्रह्मण: , व्यावहारिकसत्यत्वं व्यावहारिकप्रपञ्चास्य
प्रातिभासिकसत्यत्वं शुक्तिरजत, स्वप्नादीनाम् इति सत्त्तात्रैविध्य पक्षमाश्रित्य
व्यवस्था कृता अद्वैते कैश्चित् || ... अनुवर्तते....
No comments:
Post a Comment