A Study of Ratnaprabha-Part- 15
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
Author:
DR. CHILAKAMARTHI DURGA PRASADA RAO,
Bhasha praveena , Vedanta vidya Praveena,
M A (Sanskrit), M A (Telugu), M A
(Philosophy)
& Ph D (Sanskrit)
गताङ्कादग्रे.....
सत्तात्रैविध्यनिरुपणे
आवश्यकता
अत्रेयमाशङ्का || तथाहि:- अध्यासो नाम भ्रम: || भ्रमस्तु एकवस्तुनि
अन्यवस्त्वात्मना ग्रहणमित्युक्तम् || तच्च ग्रहणं तु भ्रान्तस्य पुरुषस्य मनोवृत्तिरूपमिति
वक्तव्यम् || यदा भ्रान्त: पुरुष: एकं वस्त्वन्यवस्त्वात्मना गृह्णाति , तादृशं
ग्रहणमेव भ्रम इत्युच्यते || तादृशं भ्रमविषयीभूतं वस्तु भ्रान्तस्य मनोवृत्ति: यावत्पर्यन्तं
तावत्पर्यन्तमेवेति वक्तव्यम् ||
वृत्तिविनिगमनकालावच्छेदेन, अथात् वृत्ति नाशानन्तरं वृत्तिविषयीभूतं
वस्तु अस्तीति विषयं निर्युक्तिकमेव || यथा शुक्तौ रजतमिति भ्रान्तिमत: पुरुषस्य रजताकारवृत्ति:
निवार्यते तदा रजतमपि निवार्यते एव || तत्रैव यदि रङ्गाकारवृत्तिर्जायते तदा राजताकारवृत्ति: निवर्तते रजतमपि निवर्तते इति
वक्तव्यं रजतस्य रजतवृत्तिसमकालत्वात् ||
एवं स्वप्नाध्यासस्थालेsपि यावत्स्वप्नपदार्थविषयवृत्ति:
सुप्तपुरुषस्य वर्तते तावदेव स्वाप्निकपदार्था: सन्तीति वक्तव्यम् || एवं चाssत्मनि प्रपञ्चाध्यासस्यापि
भ्रान्तपुरुषस्य मनो वृत्तिरेव मूलमिति वक्तव्यम् ||
यदा तु भ्रान्तपुरुषस्य जगदाकारवृत्ति: निवर्तते तदा जगदपि निवर्तते,
युक्तेस्तुल्यत्वात् || प्रपञ्चविषयकवृत्ति नाशानन्तरं प्रपञ्चोsस्तीत्युक्ति: निर्युक्तिका
|| तथा च केषाञ्चित्पदार्थानां व्यावहारिकत्वं
स्थायित्वं केषाञ्चित्पदार्थानां प्रातिभासिकत्वं स्थायित्वमिति च व्यवस्था कथं स्वीकर्तुं शक्यते
इत्याशङ्का || अत्र समाधाम् || सत्यमेव || उत्तमाधिकारिणान्तु एतत्सर्वं
प्रातिभासिक मिति दृष्टिसृष्टिमनुसृत्य कथ्यमाने जगन्मिथ्यात्वबोधकं ब्रह्मप्रबोधं
भवति || ततो जगन्मिथ्यात्वनिश्चय प्रबोधकोsद्वैतनिश्चय: भवति || केचन मन्दाधिकारिणोsपि वर्तन्ते ||
तेषां सर्वं प्रातिभासिकमित्युच्यमाने सहसा विश्वास: न भवतीति (अध्यारोप)
सत्तात्रैविध्यपक्ष: आश्रित न तु
सत्तात्रैविध्ये तात्पर्यम् || भगवत्पादानामपि व्यावहारिकाध्यासप्रतिपत्तये संप्रतिपन्न शुक्तिरजताध्यासप्रदर्शनमपि एतदभिप्रायक मूलमेवेति वक्तुं
शक्यते ||
तत्र शुक्तिज्ञाने राजताध्यासनिवृत्ति: द्विधा निवृत्ति रूपा , बाधारूपा च ||
निवृत्तिरुपस्तु सत्युपादाने कार्यस्य नाश: यथा मृद्घटनिपातनेन घटस्य नाश:
मृच्छकलानां सत्वेsपि घटस्य नष्टत्वात् || एतादृशनाश: निवृत्ति: इत्युच्यते || शुक्तिज्ञाने जाते
राजताध्यासमूलभूत शुक्त्यवच्छिन्नचैतन्यावरकमूलाज्ञानस्य नष्टत्वात् || तत्रैव यदि
रङ्गज्ञानं जायते तदाsपि राजताध्यासो निवर्तते || तदा उपादानस्यानष्टत्वात्, शुक्तिज्ञानस्य नष्ट
त्वात् निवृत्तिरुपनाश एवेति भवति || मूलाज्ञाननाशश्च ब्रह्मसाक्षात्कारे एव भवति
|| ज्ञानाsज्ञानयो: बाध्यबाधकभावे समानविषयत्वस्य प्रयोजकत्वात् || ब्रह्म विषयकाज्ञानं
ब्रह्मविषायकसाक्षात्कारेणैव निवर्तते नाsन्येन || यथा
शुक्तिं न जानामीत्यनुभूयमानमज्ञानं शुक्तिज्ञानेनैव निवर्तते नाsन्येन ||
अनुवर्तते .........
No comments:
Post a Comment