Sunday, October 5, 2025

A Study of Ratnaprabha-Part-19

 

A Study of Ratnaprabha-Part-19

रत्नप्रभाविमर्शे चतुर्थोsध्याय:

{Ratnaprabhaa vimarsha}

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO,

Bhasha praveena , Vedanta vidya Praveena,

M A (Sanskrit), M A (Telugu), M A (Philosophy)

 & Ph D  (Sanskrit)

                         -: जिज्ञासधिकरणम् :-         

        जिज्ञासाशब्दघटितं , जिज्ञासाप्रतिज्ञापरं वा अधिकरणं जिज्ञासाधिकरणम् ||

भगवता बादरायणेन “ अथातो ब्रह्म जिज्ञासा  इति सूत्रेण वेदान्तशास्त्रमारब्धम् ||

साधनचतुष्टयसंपत्त्यनन्तरं ब्रह्मज्ञानाय वेदान्तवाक्यविचार: कर्तव्य: इति सूत्र स्यापाततोsर्थ: || “तद्विजिज्ञासस्व” (तैत्तिरियोपनिशद 3/1/)

“आत्मा वा अरे द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्य:” (बृ*उ-2-4-5)

इत्याद्या: सूत्रस्यास्य भूलभूता: श्रुतय: ||

आत्मब्रह्मणोरैक्यं तु “अयमात्मा ब्रह्म ” (बृ*उ-2-2-19) इत्यादि श्रुतिमूलकम् || तथा चात्मज्ञानमेव ब्रह्मज्ञानं तदेवानर्थनिबर्हणम्  ऋते ज्ञानान्न मुक्ति: इति श्रुते: || अत: नित्यफलेच्छुना ब्रह्मजिज्ञासा कर्तव्या इत्यर्थ: ||

अत्र जिज्ञासासूत्रमूलभूतश्रोतव्यश्रुतौ “ श्रोतव्य ” इत्यत्र विधिरस्ति वा न वा? विधिपक्षेsपि स किं स्वरुप: ? इति विषये शास्त्रकाराणां भिन्नाभिप्राया: वर्तन्ते इति तान् यथाशक्ति प्रदर्शयाम:||

श्रवणविधिनिरुपणम्

श्रोतव्य: इत्यत्र श्रु धातु: , विध्यर्थको तव्यप्रत्यय: ||

तथा च श्रोतव्यश्रुतौ आत्मदर्शनमुद्दिश्य श्रवणादिकं विधीयते || श्रवणं नाम वेदान्तानाम् अद्वितीये ब्रह्मणि तात्पर्यावधारणानुकूला मानसी क्रिया ( वेदान्तपञ्चदशी-page 160) ||

मीमांसकमते विधि: त्रिविध: || 1. अपूर्वविधि: 2. नियमविधि 3. परिसंख्याविधिश्चेति ||

तदुक्तम् :-

विधिरत्यन्तमप्राप्तो नियम: पाक्षिके सति

तत्र चान्यत्र च प्राप्तो परिसंख्येति गीयते || इति  (तन्त्रवार्तिकम् -1-2-4)

तत्र प्रकटार्थविवरणकारा: अनुभूतिस्वरुपाचार्या: “श्रोतव्य” इत्यत्र अपूर्वविधिं कलयन्ति || 

यस्य यदर्थत्वं प्रमाणान्तरेनाप्राप्तं तस्य तदर्थत्वेन यो विधि: सोsपूर्वविधि: || यथा यजेत स्वर्गकाम: || अत्र स्वर्गाय यागो विधीयते इत्यर्थ: || अत्र यागस्य स्वर्गार्थत्वं न प्रमाणान्तरेण प्राप्तं किन्त्वनेनैवेति अयमपूर्वविधि:  (मीमांसान्यायप्रकाश: page-२०२)||

अत्र वेदान्ते तं त्वौपनिषदं पुरुषं पृच्छामि (बृ*उ-3-9-26) “नाsवेदविन्मनुते तं बृहन्तम्”  (तै*ब्रा-3-12-9) इत्यादिभि: वेदैकवेद्यत्वं परब्रह्मण: सिद्धम् || अतो मानान्तरावेद्यत्वस्या sपूर्वाख्य लिङ्गौचित्यबलाच्च श्रोतव्य: इत्यत्र अपूर्वविधिरङ्गीकार्य: इति तेषां मतम् ||

श्रोतव्य: इत्यत्र श्रवणविधिं परिसंख्या विधिरिति केचन मन्यन्ते ||

एकस्मिन् शेषिणि उभयोश्शेषयो: कर्तव्यत्वेन प्राप्तौ सत्यां शेषान्तरान्निवृत्तिफलको विधि: परिसंख्याविधि: || अथवा द्वयो: शेषिणो: एकस्य शेषस्य कर्तव्यत्वेन प्राप्तौ सत्यां शेष्यन्तरान्निवृत्तिफलको विधि: परिसंख्या विधि: || यथा अग्निचयने इमामगृभ्णन् रशनामृतस्य ((तै.स-5-12-1) || अत्र  इमामगृभ्णन् रशनामृतस्य इति मन्त्र: रशनाप्रकाशनसामर्थ्यरूपलिङ्गात् गर्दभरशना ग्रहणे अश्वरशनाग्रहणे च पठितव्यत्वेन  प्राप्नोति || किन्तु इत्यश्वाभिधानीमाधत्ते इति विधिस्तु गर्दभरशनाग्रहणं निवर्तयति  अर्थात् गर्दभरशनाग्रहणकाले अयं मन्त्र: न वक्तव्य: इत्यर्थ: ||

अयञ्चाsपूर्वविधि न भवति प्राप्तत्वात् || नाsपि नियमविधि: रचनाप्रकाशनसामर्थ्यलिङ्ग वशात् उभयोरपि अश्वरसनागर्दभरसनाग्रहाणयो: मन्त्रस्य कर्तव्यत्वेन  प्राप्तत्वात् अप्राप्तांशपरिपूरणफलासंभवाच्च || परन्तु इतरनिवृत्तिफलकत्वेन परिसंख्याविधिरेव ||

           अत्र वेदान्ते “ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम् ”(मु.उ -1-2-12) इति श्रुतिबलेन ब्रह्मज्ञानार्थत्वेन श्रवणस्य प्राप्तत्वान्न तत्प्राप्ति फलक: || अत्र अप्राप्तांशपरिपूरणरूपस्य फलाभावाच्च नाsयमपूर्वविधि:, नाsपि नियम विधि: || परन्तु बह्मज्ञानार्थत्वेन भाषाप्रबन्धादीनां द्वैतशास्त्रस्य च साधनत्वेन प्राप्तौ तन्निवृत्तिफलक: ||           

केचन ‘श्रोतव्य’ इत्यत्र नियमविधिमभ्युप गच्छन्ति || यथा:- ‘व्रीहीनवहन्ति’ इत्यत्र तण्डुलनिष्पत्तिसाधनत्वेन नखाविदलनस्यापि     

प्राप्तवापि अवहननस्यैव विधानात् , अवहननेनैव तण्डुलो निष्पातव्य: इत्यर्थो लभ्यते || अत्राsस्य विधे: नखविदलनेन निवृत्तिर्वा अप्राप्तांशपरिपूरणं वा फलमिति संशये अप्राप्तांशपरिपूरणस्य विधेयावहनननिष्ठत्वेन  नखाविदलननिवृत्ते:

अविधेय नखाविदलनगतत्वेन संनिकृष्टत्वात् अप्राप्तांशपरिपूरणमेवास्य विधे: फलमिति तत्र सिद्धान्त: ||  अनुवर्तते ...     

 

No comments: