A
Study of Ratnaprabha-Part-22
रत्नप्रभाविमर्शे चतुर्थोsध्याय:
{Ratnaprabhaa
vimarsha}
Author:
DR. CHILAKAMARTHI DURGA PRASADA RAO.
-: जिज्ञासधिकरणम् :-
गताङ्कादग्रे......
‘अथाsतो ब्रह्मजिज्ञासा’ इति
सूत्रे अत: इति शब्दस्य विचार: |
अत्र
भाष्यकारै: उक्तं “ ‘अत:’शब्द: हेत्वर्थ:” इति || तथा ब्रह्मजिज्ञासायां हेतु: प्रदर्शित: || अत्र पूर्वपक्षिण:
इयमाशङ्का || यद्यपि साधनचतुष्टयसंपत्ति:
ब्रह्मजिज्ञासायां हेतु: तथापि तन्न संभवति || तथा हि:- अक्षय्यं ह वै चातुर्मास्ययाजिन:
सुकृतिम्” इत्यादि श्रुतिभि: कर्मफलस्याsपि नित्यत्वश्रवणेन कर्मफलं
सर्वम् अनित्यं, मोक्षरूप: आत्मा एक
एव नित्य: इत्येवं रूप:
नित्याsनित्यवस्तु विवेको न सिध्यति || तत: कर्मफलबलात्
सर्वस्माद्वैराग्य: न सिध्यति , तदसिद्धौ च कर्मत्यागलक्षणोपरतिसहितं शमादिषट्कमपि
न संभवति || अपि च “अहं कर्ता” “अहं भोक्ता” इत्यादिप्रात्यक्षिकप्रमाणविरुद्धत्वात्,
जीवस्य ब्रह्माभिन्नत्वं नोपपद्यते || अतो जीवस्य ब्रह्मात्वैकत्वरूपमोक्षाय प्रवृत्ति:
न भवतीति न तस्य लेशतोsपि मोक्षप्रवृत्ति: ||
, अतीन्द्रियार्थे श्रुतिरेव प्रमाणमिति नियमाच्च ब्रह्मण: जीवाsभिन्नत्वमुपपद्यते एव || तत: अविद्यावशात्परिच्छिन्नजीवभावं गतस्य आत्मन: ब्रह्मत्वकामना उपपद्यते इति मुमुक्षुत्वं तस्योपपन्नमेव || एतावता साधनचतुष्टयसंपत्त्यनन्तरं कर्मफलस्य, अनित्यत्वात् ज्ञानफलस्य मोक्षस्य नित्यत्वाच्च नित्यफलेच्छुना ब्रह्म जिज्ञासा कर्तव्य: इत्यर्थ: सिध्यति ||
....
अनुवर्तते .....
No comments:
Post a Comment