A Study of Ratnaprabha-Part-16
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
DR.
CHILAKAMARTHI DURGA PRASADA RAO,
Bhasha praveena , Vedanta vidya Praveena,
M A (Sanskrit), M A (Telugu), M A
(Philosophy)
& Ph D
(Sanskrit)
गताङ्कादग्रे.....
अध्यास्य परोक्षत्वापरोक्षत्वनिरुपणम्
अध्यास: परोक्षो वा अपरोक्षो वा इति मुख्यं विवेचनीयम् || यदि राजताध्यास; अपरोक्षो भवति शुक्तिविषयकापरोक्षज्ञानेनैव तस्य निवृत्ति: नाsन्येन || यथा रज्ज्व्यां
सर्पभ्रमवत: पुरुषस्य “ अयं सर्प: इति ज्ञाने धावत: “ नाsयं सर्प: किन्तु राज्जु: एव ” इति उच्यमानेsपि तादृशभ्रान्ति: सर्वात्मना न
निवर्तते , भयकम्पदिकञ्च न निवर्तते || रज्जुं हस्तेन गृहीत्वा अन्य: कश्चिद्दर्शयति
“ रज्जुरेवेयं नाsयं सर्प: ” इति तदा निश्शेषं भ्रान्ति: निवर्तते , भयकंपादिकञ्च निवर्तते ||
तथा च अपरोक्षभ्रमनिवर्तकत्वं परोक्षज्ञानस्य न संभवति || अपरोक्षज्ञानस्यैवाsपरोक्ष भ्रमनिवर्तकत्वमिति वक्तव्यम्
|| तथा च अपरोक्षब्रह्मसाक्षात्कारस्यैव जीवत्वेश्वरत्व जगद्विषयकभ्रमनिवर्तकत्वं ,
न परोक्षज्ञानस्य इत्यायातम् ||
अत्रेयमाशङ्का ||
यद् ज्ञानं वर्तते तदज्ञान निवर्तकमेव || ज्ञानस्याsज्ञानाsनिवर्तकत्वे तस्य ज्ञानत्वमेव न संभवति || यथा दीपस्यान्धकारानिवर्तकत्वे
प्रकाशत्वमेव न संभवति तद्वत् || यथा च अपरोक्षज्ञानस्य अध्यासमूलभूतज्ञाननिवर्तकत्वं
न संभवतीति कथं वक्तुं शक्यते? यदि परोक्ष
ज्ञानस्य अज्ञान निवर्तकत्वं संभवति तर्हि तत एव बन्धनिवृत्तिसंभवे अपरोक्ष
ज्ञानस्य वैयर्थ्यं च स्यात् || अत: तत्र कथं समर्थनीयमित्याशङ्कायामुच्यते ||
अज्ञानं द्विविधम् || असत्वावरणप्रधानमभावावरणप्रधानं च || परोक्षज्ञानेना s सत्वावरणप्रधानम् अज्ञानं निवर्तते
, अभानावरणमज्ञानन्तु यथाभूतं वर्तते एव || यथा दूरे मकापरिमाणे वृक्षे
अल्पपरिमाणत्वभ्रान्ति: कस्यचित् जाता || तत: तादृशवृक्षसमीपादागतेन पुरुषेण “ अयं
वृक्ष; अत्यधिकपरिमाण: नाsल्पपरिमाण: भूशाखाशिंशुपादिसहित:
इत्युक्ते अल्पपरिमानत्वभ्रान्तिमत: पुरुषस्य यदज्ञानमासीत् तच्चाsज्ञानं अधिकपरिणामोपदेशजन्यज्ञानेन
नष्टं वा न वा ? नष्टमेव || किन्त्वत्रासत्वावरणमेव नष्टम् || अभानावरणन्तु न
नष्टम् || अन्यै: शतधा उक्तमपि प्रत्यक्षं अल्पपरिमाणमेव दृश्यते, नाsधिकपरिमाणम् || तत्कुत इत्युक्तौ,
अभानावरणस्य यथापूर्वं विद्यमानत्वात् || तादृशाsभानावरणस्य निवृत्तिस्तु व्रुक्शसमीपं गत्वा तादृ शाsधिकपरिणामविशिष्टं वृक्षं यदा
पश्यति तदा भवति || तच्च ज्ञानमपरोक्षज्ञानमेव || तादृशाsपरोक्षज्ञानमेवाsभानावरणनिवर्तकं भवति ||
अत एव लोके वेदान्तश्रवणं क्रियमणमपि तत: परोक्षज्ञानं जायमानमपि तत् नाsपरोक्षाध्यासनिवर्तकं भवति || तथाहि
:- वेदान्तश्रवणेन जीवत्वं पारमार्थिकं न भवति ब्रह्मैक्यमेव
जीवस्य जीवस्य पारमार्थिकं स्वरूपमिति ज्ञानं जातमेव ||
तच्च ज्ञानम् असत्वावरणं निवर्तयति,
अभानावरणनिवर्तकं न भवति || यदा मनन निदिध्यासनादिभि: अपरोक्ष ब्रह्म साक्षात्कारो
भवति तदैव मूलाज्ञाननिवृत्ति: भवति || अत एव भगवत्पादैरुक्तं “ श्रुत ब्रह्मणोsपि यथापूर्वं
संसारित्वभ्रान्ति:” इति: (ब्रह्मसूत्रभाष्यम् – प् -144) ||
अनुवर्तते
...
No comments:
Post a Comment