A
Study of Ratnaprabha-Part-20
रत्नप्रभाविमर्शे चतुर्थोsध्याय:
{Ratnaprabhaa
vimarsha}
Author:
DR.
CHILAKAMARTHI DURGA PRASADA RAO
गताङ्कादग्रे...
वेदान्ते
– “जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक:” (मु.उ :-3-1-2)
इत्यत्र
अन्यमिति विद्यमानत्वात् भिन्नात्मज्ञानात् परमात्मा भिन्न: इति ज्ञानादपि मुक्तिरिति भ्रम: संभवतीति
भिन्नात्मशास्त्रस्य श्रवणेsपि मुमुक्षो:
प्रवृत्ति: संभवेत् || अत: तत्परिहरणांशनियमविधिरेव || अद्वैतात्मपरवेदान्तविचार
एव कर्तव्य: अर्थात् तत्र इतरनिवृत्त्यो: फलस्य संभवेन अप्राप्तांशपरिपूरणमेवास्य विधे:
फलमित्याशय: || अत: सर्वथा अद्वैतपरवेदान्तश्रवणेनैव ब्रह्मसाक्षात्कार: संपाद्य: इति
नियमविधिपक्षाs वलम्बिनामाशय:||
किञ्च
गुरुमुखाधीनवेदान्तश्रवणादिव प्रज्ञासम्पन्नस्य, स्वयमेव गुरुनैरपेक्ष्येण
वेदान्तविचारसंभवात् , तादृश ब्रह्मविचारादपि ब्रह्मज्ञानसंभवेन गुरुमुखाधीनवेदान्तश्रवण
प्रवृत्ति: पाक्षिकी स्यादित्याशङ्का स्यात् तत: वेदान्तश्रवणं विधीयते ||
गुरुमुखाधीनवेदान्त श्रवणे क्रियमाणे नियमादृष्टं किंचिज्जायते || तेन ज्ञानोत्पत्तिप्रतिबन्धकनिवृत्तिर्भवति
|| प्रतिबन्धके निवर्त्यमाने ज्ञानोत्पत्ति: सुकरा, ततश्च मुक्ति: सुलभा ||
प्रज्ञावतां गुरुनैरपेक्ष्येण क्रियमाणवेदान्तविचारात्
सत्तानिश्चयरूपब्रह्मज्ञानसंभवेsपि, अविद्यानिवर्तकब्रह्मसाक्षात्कारोत्पत्तिप्रतिबन्धक दुरितविशेषनिवर्तकाभावात्
तत्र प्रतिबद्धं परोक्षज्ञानकल्पमवतिष्ठते इति नियमविधि वादिनामभिप्राय: ||
अत्र यद्यपि “ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्
समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम्”
इत्युक्त्या
गुरुपसदनविधिनैव गुरुरहितविचार निवृत्तिसंभवात्, अर्थात् गुरुमुखत एव
वेदान्तविचार: कर्तव्य: इत्यर्थलाभात् ‘श्रोतव्य: ’ इति नियमविधि: व्यर्थ: इत्याशङ्का
न युक्ता || गुरुपसदनास्य श्रवणाङ्गतया विधीयमानत्वेन श्रवण विध्यभावे गुरुपसदनविधिरेव
न संभवतीति गुरुपसदनविधिना श्रवणविधे: न वैफल्य शङ्कावकाश: || अथवा अद्वैतात्मपरान्ध्र
भाषामयगीर्वाणभाषामयग्रन्थश्रवणे ब्रह्मसाक्षात्कारसाधनत्वभ्रान्त्या प्रवृत्तिसंभवेन
उपनिशद्वाक्यश्रवणे प्रवृत्ति: पक्षिकी स्यादिति श्रोतव्य इति नियमविधि: स्वीक्रियते
||
तत:
अद्वितीयात्मपरोपनिषद्वाक्येनैव श्रवणं कर्तव्यं नाsन्यभाषाप्रबन्धादिभि: इति लभ्यते ||
आत्मा
श्रोतव्य: इति मननादिवत् आत्मविषयकत्वेन निबध्यमानं श्रवणं
आगमाचार्योपदेशजन्यात्मविज्ञानमेव न तात्पर्यविचाररुपम् || तथा च श्रवणस्य
ज्ञानरुपत्वेन कर्तव्यत्वाsसंभवात् तत्र न कोsपि विधिरिति वाचस्पतिमिश्रा:, तदनुयायिनश्च || अत एव
समन्वयाधिकरणे भाष्यकारै: आत्मज्ञाने विधिर्नास्तीति प्रतिपाद्य
“ किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्य:
इत्यादीनि विधिच्छायानि वचनानि” इत्याशङ्क्य “स्वाभाविकप्रवृत्ति
विषयविमुखीकरणानीति ब्रूम: ” इति समाधितम् || अतश्च भाष्यकाराणामपि
विध्यभावपक्ष: एव सम्मत: इति तेषामाशय:||
रत्नप्रभाकारैस्तु
“श्रोतव्य:” इत्यत्र नियम विधिरेवाsङ्गीकृत: || तथा च “ स्वाध्यायोsध्येतव्य: (शतपथ.ब्रा.11.5.7) इति
नित्याध्ययनविधिनाsधीतसाङ्गस्वाध्याये
मुख्याधिकारिणि “ सोsन्वेष्टव्य: ( छा.उ -8-7-1) इत्यादि श्रवणविधि:
स्पष्टमुपलभ्यते ||
तत्र
मुमुक्षुणा अद्वैतात्मपरवेदान्तविचार: कर्तव्य: इत्यर्थो लभ्यते || अनेन
नियमविधिना अर्थादेव भिन्नात्मशास्त्रप्रवृत्ति:, वैदिकानां पुराणादि प्राधान्यं
वा निरस्यते इत्युक्तं रत्नप्रभायाम् || अतस्तेषां नियमविधावेव तात्पर्यमिति ,
अर्थादित्युक्तत्वा दितरनिवृत्तिरार्थिकफलमिति च ज्ञायते || एवमेव तत्र
रत्नप्रभाकारै: “ येषां मते श्रवणे विधिर्णास्ति, तेषामविहितश्रवणेsधिकार्यादि
निर्णयानपेक्षनात् सूत्रं व्यर्थमित्यापततीति दूषणप्रदर्शनेन विध्यभावपक्ष: तेषां
सुतरामसम्मत: इति प्रतिभाति ||
अत्र
रत्नप्रभां व्याकुर्वता पूर्णानन्देन एवं विवृतम् || तथाहि:- अमृतत्व कामेनाsद्वैतात्मविचार एव वेदान्तवाक्यै:
कर्तव्य: इति रत्नप्रभावाक्ये एवकारस्यो भयत्रान्वय: || तथा च अमृतत्त्वकामेन,
अद्वैतात्मविचार एव वेदान्तवाक्यैरेव कर्तव्य: || एवं च वेदान्तवाक्यैरेव विचार:
इत्यनेन स्त्रीशूद्रादीनां पुराणादिश्रवणेन परोक्षमेव ज्ञानं जायते || तेन
जन्मान्तरे वेदान्तश्रवने अधिकार: || अद्वैतात्मविचार एवेत्यनेन द्वैत
शास्त्रविचारो निरस्यते || वेदान्तवाक्यैरेवेत्यनेन वैदिकानां पुराणादि प्राधान्यं
निरस्यते (पूर्णानन्दीयम्- page-5)
||
रत्नप्रभां व्याकुर्वता अच्युतकृष्णानन्देन – यद्यपि अधिकारिण: पुराणादीनां
प्राधान्यं निरस्तं तथापि सर्वात्मना तेषां विचारव्यावृत्ति: न कृता || “इतिहासपुराणाभ्यां
वेदं समुपबृंहयेत्” इति न्यायेन
वेदान्तार्थज्ञानदार्ढ्याय आत्मतत्त्वपरमोक्ष धर्मभगवद्गीतादिविचारस्यावश्यकत्वादित्युक्तं
तेन ( भागदीपिका -page-3)
|| स्यादेतत् ||
अनुवर्तते
........
No comments:
Post a Comment