Wednesday, October 29, 2025

A Study of Ratnaprabha –34

 

A Study of Ratnaprabha –34

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

...गताङ्कादग्रे...

-: कर्मब्रह्ममीमांसयो: व्यत्यासनिरुपणम् :-

अपि च यद्यपि  आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् इति “विधिनात्वेकवाक्यत्वात्” इत्यादिसूत्राणि प्रवृत्तिनिवृत्तिपरत्वेन वेदस्य सार्थक्यं ब्रुवन्ति , प्रामाण्यञ्च संपादयन्ति तथापि तत् धर्म जिज्ञासाविषयम् || “अथाsतो धर्मजिज्ञासा” इत्यादि कर्तव्यधर्मा: तत्र प्रतिपादिता: सन्ति || धर्मस्तु कृतिसाध्यो भवति || कृतिसाध्यस्य विधेयत्वं युज्यते एव || तथा च ये ये धर्मा: अधिकारिभि: कर्तव्यत्वेन विहिता: वर्तन्ते ते सर्वेऽपि विधेया: भवितुमर्हन्ति || तत: तद्बोधकवाक्यानां प्रवृत्तिपरं चाप्युपपद्यते || अत: कर्ममीमांसाशास्त्रस्य प्रवृत्तिपरत्वमस्माभि: न निषिध्यते || कर्तुमकर्तुमन्यथा वा कर्तुं शक्यते लौकिकं वैदिकञ्च कर्म || यथा :-

अश्वेन गच्छति पद्भ्यामन्यथा वा न वा गच्छति || तथा:- “अतिरात्रे षोडशिनं गृह्णाति”               

“नाsतिरात्रे षोडशिनं गृह्णाति” “उदिते जुहोति” “अनुदिते जुहोति” इति भाष्ये भगवत्पादै: कृति साध्यत्वं प्रदर्शितम् || ब्रह्ममीमांसाशास्त्रे तु तत्परवेदान्तानां कर्मपरत्वं वक्तुं न शक्यते || कुत इत्युक्तौ सिद्धे वस्तुनि विकल्पो न संभवति || तथा हि :- एकस्मिन् घटे अयं घटो वा घट: स्याद्वा पट: स्याद्वा इति विकल्प: न संभवति || तथा विधिरपि न संभवति || ‘घटमान्य’ ‘घटं नय” “मा नय” इति घटकर्मकानयने विधिर्वा निषेधो वा स्यात्  || किन्तु घटे घटं कुर्यात् , घटं मा कुर्यात्  इति विधिनिषेधा: न संभवन्त्येव || तथा नित्य-शुद्ध-बुद्ध-मुक्त स्वभावे आत्मन्यपि || अस्यार्थ:   नित्य: नाशरहित:,  शुद्ध: अज्ञानादिमलरहित:, बुद्ध: चैतन्यस्वरूप: मुक्त: बन्धकालेsपि बन्धरहित: || ईदृशे ब्रह्मणि विकल्प,विधि,निषेधा: न संभवन्ति || अत: सिद्धबोधिवेदान्तानां  कार्यपरत्वेन प्रामाण्यं  न संभवतीति वयमपि ब्रूम: || तथा च कथं प्रामाण्यमित्युक्तौ प्रयोजनवदर्थपरत्वं प्रामाण्यम् , अज्ञातार्थज्ञापकत्वं वा प्रमाणमिति वक्तव्यम्  ||

अत्र प्रयोजनञ्च महत् दृश्यते || “तरति शोकमात्मवित्”(छा.उ.7.1.3), “ब्रह्मवेद ब्रह्मैव भवति”(मु.उ-2-2-9), “सोsश्नुते सर्वान् कामान्”(तै.उ.2-1-1) इत्यादौ जन्ममरणादि बन्धप्रयुक्तशोकनिवृत्तिरुक्ता भवति ||

ब्रह्मविदाप्नोति परम्” इत्यत्र ब्रह्मवित्  सर्वान् कामान् प्राप्नोति, “सोsश्नुते सर्वान् कामान्” इत्युक्तौ ब्रह्मलोके यावानानन्दो वर्तते  , वैकुण्ठे यावानानन्दो वार्तते,  कैलासादौ यावानानन्दो वार्तते तान् सर्वान् अनन्दान्  सहैव युगपदेव प्राप्नोतीति दर्शयति श्रुति: || एवं “रसो वै स: रसं ह्येवाsयं लभ्ध्वाsनन्दी भवति” (तै.उ *2-7) इत्यादौ परमानन्दलाभं ब्रह्मविद: दर्शयन्ति ||

मानुषानन्दमारभ्य ब्रह्मानन्द पर्यन्तमान्तरिकानन्दानां तारतम्यमभिधाय (तै.उ*2-8) “ स यश्चायं पुरुषे, यश्चासावादित्ये, स एक:स य एवं वित् (तै.उ *2.8 ) इत्यादिना सर्वानन्दानां  स्वरूपमुक्तं ब्रह्मेति प्रतिपादितं दृश्यते || एतादृशस्य महाप्रयोजनस्य श्रुतिषु उपलभ्यमानत्वात् अर्थबोधकत्वं प्रामाण्यं निर्विवादं सिध्यति || एवामेवाsज्ञात बोधकत्वमपि  सिध्यत्येव  ||  ब्रह्म च प्रत्यक्षादिप्रमाणैरनवगतम् || तथा च प्रमाणान्तराsनवगतब्रह्मबोधकत्वेन सिद्धबोधि वेदान्तानां  प्रामाण्ये संभवति सति कर्ममीमांसासूत्राण्युदाहृत्य प्रवृत्तिपरत्वा sभावादप्रामाण्यमिति प्रतिपादनमत्यन्तं निर्युक्तिकम् || यद्युभयो: पूवोत्तरमीमांसयो: एकशास्त्रत्वमभ्युपगम्य सिद्धबोधकत्वेन वेदान्तानां प्रामाण्यं न संभवति कार्यपरत्वेनैव प्रामाण्यमवश्यं वर्णनीयमित्युच्येत तर्हि “अथाsतो ब्रह्मजिज्ञासा” इति बादरायणसूत्रस्य “अथाsतो धर्मजिज्ञासा” इति जैमिनी प्रणीत सूत्रस्य च एकवक्यत्वप्रतिपादनमत्यन्तदुष्करम् ||

यद्येकमेव स्यात्छास्त्रं तथा “अथाsतो धर्मजिज्ञासा” इत्युक्त्वा “ अथाsतो परिशिष्टजिज्ञासा” इति ब्रूयात् || किन्तु तथा नोक्तम् || तथा च द्वयोरपि मीमांसयो: एकवाक्यत्वमभ्युपगम्य विधिवाक्यैकवाक्यत्वे नैव प्रामाण्यमभ्युपगन्तव्यं न सिद्धबोधकत्वेनेति यत्प्रतिपादनं तदत्यन्तनिर्युक्तिकमेव ||

अत्र वेदान्तस्य पूर्वमीमांसायामनन्तर्भावत्वं स्पष्टं प्रतिपादयन्ति रत्नप्रभाकारा: || तथा हि:- यदि विधिरेव वेदार्थ: स्यात् तदा सर्वज्ञो बादरायण: ब्रह्मजिज्ञासां न ब्रूयात् ब्रह्मणि मानाsभवात् || अतो ब्रह्मण: जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणाsनवगतब्रह्मपरवेदान्तविचार: आरम्भणीय: ||

एतावत्पर्यन्तं ब्रह्मैव नास्ति धर्म एव मुक्ति साधनमिति वदतां मीमांसकानां मतं संक्षेपेण निराकृत्य , सिद्धबोधिवेदान्तानां प्रामाण्यं साधितम् || इत: परं ब्रह्मबोधकत्वेन वेदान्तानां प्रामाण्यमस्त्येव तथाsपि विधिशेषत्वेनैव ब्रह्म समर्प्यते न तु प्राधान्येन (अनन्यषेशत्वेन) इति वदतां वृत्तिकाराणां मतं भाष्यकारोक्त दिशा विव्रियते ||

...अनुवर्तते ....                               

   

 

 

No comments: