Tuesday, October 28, 2025

A Study of Ratnaprabha –33

 

 A Study of Ratnaprabha –33

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

...गताङ्कादग्रे...

सूत्राद्बहिरेव पूर्वपक्षमाकलय्य  सिद्धान्त प्रदर्शनार्थमेतत्सूत्रमिति वाक्तव्यं तत्तु समन्वयादिति || अत्र विवृतं भाष्यकारै: - तु शब्द:  पूर्वपक्षव्यावृत्त्यर्थ: ||  

 

तद् ब्रह्म सर्वज्ञं, सर्वशक्ति, जगदुत्पत्तिस्थितिलयकारणम्  इति वेदान्तशास्त्रादेवावगम्यते || कथम् ? समन्वयात् इत्यादि || अत्र भाष्यगतसमन्वयशब्द: एवं व्याख्यात: रत्नप्रभाकारै: || तथा हि:- सम्यगन्वय: समन्वय: || अन्वयो नाम तात्पर्यविषयत्वम् || तात्पर्यस्य सम्यक्त्वं नाम अखण्डार्थविषयकत्वम् इत्यादि || (ब्रह्मसूत्रशांकरभाष्य रत्नप्रभा - page -130) || तथा च उपक्रमोपसंहारादिषड्विधै: तात्पर्यनिर्णायकै: लिङ्गै: अखण्डमेव ब्रह्म बोध्यते इति षड्विधलिङ्गोपेत तात्पर्यविषयत्वादखण्डं ब्रह्म वेदान्तविषय: इत्यर्थ: सिद्ध्यति|| एवञ्च वेदान्तानामखण्डार्थ बोधकत्वमुपक्रमोपसंहारादिषड्विधलिङ्गै: निरूपितं रत्नप्रभायाम् || तथा हि :-

“ उपक्रमोपसंहारावभ्यासोsपूर्वता फलम्

अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये “  इति च   षड्विधलिङ्गानि ||

अत्र   उपक्रमोपसंहारावेकं लिङ्गम्  || ताभ्यां   विचार्यमाणवाक्यस्य, आद्यन्तभागयोरेकार्थपर्यवसानं लभ्यते || तदुक्तम् :- “प्रकरणप्रतिपाद्यस्य, तदाद्यन्तयोरुपपादनमुपक्रमोपसंहारौ” इति  ( वेदान्तसार: * page-105) ||

अत्र “ सदेव सोम्य” इत्युपक्रम:  ऐतदात्म्यमिदं सर्वम्

  इत्युपसंहार: || तथा हि:- छान्दोग्ये उद्दालक: पुत्रमुवाच || “ हे सौम्य ! प्रियनन्दन ! इदं सर्वं जगत् अग्रे सृष्टे: प्राक्  , (उत्पत्ते: प्राक्काले) सदबाधितं ब्रह्मैवाssसीत्” इति ||

अत्र ‘एव’ कारेण जगत: पृथक् सत्ता निषिध्यते || सत: सजातीय, विजातीय, स्वागतभेदनिरासार्थं “एकमेवाद्वितीयम्“ इति पदत्रयम् || एवमद्वितीयं ब्रह्मोपक्रम्य,       ऐतदात्म्यमिदं सर्वम्’ (छा.उ* 6-8.7.16)  इत्युपसंहरति || इदमुपक्रमोपसंहारैकरुप्यं तात्पर्यलिङ्गम् || तात्पर्यविषयत्वेन संदिग्धानां बहूनां मध्ये यस्मिन्नेवाद्यन्तभागयो: पर्यवसानं तस्मिन्नेव तात्पर्य निर्णय: इति विज्ञेयम्  ||

 

अभ्यासो नामाsनन्यपरं पुन: श्रवणम् || उक्तं च “ प्रकरणप्रतिपाद्यस्य वस्तुन: तन्मध्ये पौन:पुन्येन प्रतिपादनमभ्यास: इति || वेदान्ते  आदरज्ञापनद्वारा तस्य तात्पर्यज्ञापकत्वम् || तदुक्तं वाचस्पतिमिश्रै: ” अभ्यासे  हि भूयस्त्वमर्थस्य भवति यथा अहो! दर्शनीया अहो! दर्शनीया इति ( भामती -page-6)||

प्रकृते अद्वितीयवस्तुनि प्रतिपाद्यमाने मध्ये “तत्त्वमसि” इति (छा .उ* 6-8-7-16) नवकृत्वप्रतिपादनमभ्यास: ||

अत्र तत्पदेन सर्वज्ञाविशिष्टचैतन्यं परमेश्वरो वाच्य: || ‘त्वम्’ पदेन किञ्चिज्ञविशिष्टचैतन्यो जीव: वाच्य: || तत्रोभयो: सामानाधिकरण्याsभावात् तत्साधनार्थं जहदजहल्लक्षणा आश्रयणीया भवति || तथा च अत्र सर्वज्ञत्वकिञ्चिज्ञत्वांsशे  जहल्लक्षणा, चैतन्यांsशे अजहल्लक्षणा चेति तयो: सामानाधिकरण्यसिद्धि: || एतदभिप्रेत्योक्तं     विद्यारण्यश्रीचरणै: || तथा हि :-

तत्त्वमस्यादिवाक्येषु  लक्षणा भागलक्षणा

सोsयमित्यादिवाक्यस्थपदयोरिव नाsपरा  (पञ्चदशी -VII-74) इति ||

अपूर्वता नाम  “प्रकरणप्रतिपाद्यस्य अद्वितीयवस्तुन: प्रमाणान्तराsविषयीकरणम्” (वे.सा * page-१०६) ||

अत्र वेदान्ते रूपादिहीनाsद्वितीयब्रह्मण: अन्यप्रमाणगोचरत्वाsभावात् केवलेनोपनिषत्प्रमाणेन गोचरत्वाच्चाsपूर्वत्वम् ||

                        फलं नाम प्रकरणप्रतिपाद्यस्याssत्मज्ञानस्य, तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणप्रयोजनम् (वे.सा * page-१०६) ||

वेदान्ते   “अत्र वा व किल तत्सौम्य न निभालयसे”  इत्यादि ||

संघाते स्थितं  प्रत्यग् ब्रह्म न जानासीत्यथ: || तस्य तावदेव चिरं  यावन्न विमोक्ष्ये अथ संपत्स्ये “ ( छा .उ *6.14.2) इति ब्रह्मज्ञानात्  मोक्षस्य फलमुक्तं विदुष: || तत्रेदं रत्नप्रभाविवरणम् || तथा हि :- तस्य यावत्कालं देहो न विमोक्ष्यते तावदेव देहपातपर्यन्तो विलम्ब: || अथ देहपातानन्तरं विद्वान् ब्रह्म संपत्स्यते विदेह कैवल्यमनुभवतीत्येतदेवात्र फलम्  (रत्नप्रभा-page -133) || 

अर्थवादो नाम प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनम् (वेदान्तसार:- page -107) || अत्र वेदान्ते प्रकरण प्रतिपाद्यस्य ब्रह्मण:  प्रतिपादनं पुन:  “ अनेन जीवेनात्मनाsनुप्रविश्य” इत्यादिषु स्थलेषु कृतमित्यर्थवाद: || अत्र ब्रह्मण: अद्वितीयप्रतिपादकत्वमर्थ वादप्रयोजनम् ||

उपपत्तिर्नाम  उक्तधीविषयस्याबाधितत्वम् || अत्रोक्तं वेदान्तसारे “प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणयुक्तिरुपपत्ति: || प्रकरणेsस्मिन् “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” (छा.उ*6-1-4) इत्यादिमृदादिदृष्टान्तै: प्रकृत्यतिरेकेण विकारो नास्तीत्युपपत्तिरुक्ता ||

                       एवमेव आत्मा वा इदमेक एव अग्र आसीत् (ऐत.उ*2-1-1-1) “तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्” “अयमात्मा ब्रह्म सर्वाsनुभू:”(बृ.उ*2-2-11) इत्यादि वाक्येष्वपीत्यवगन्तव्यम् || अत्र ऐतरेय - बृहदारण्यक-छान्दोग्य - मुण्डकोपनिषद:      क्रमेण ऋग्यजुस्सामाधर्वणान्तर्गता: इति अखण्डमेव ब्रह्म प्रतिवेदान्तं समर्प्यते इति ज्ञातव्यम् || एवञ्च वेदान्तानां षड्विधतात्पर्यलिङ्गै: अखण्डमेव ब्रह्म बोध्यते इति न युक्तं तेषां कार्यार्थत्वं कल्पयितुं यस्मिन् शब्दस्य तात्पर्यं स एव शब्दार्थ: यत्पर: शब्द: स: शब्दार्थ: इति न्यायादित्युक्तं रत्नप्रभाकारै: ||

 

    ...अनुवर्तते......

        

 

                                            

No comments: