अद्वैते मोक्ष:
DR.CHILAKAMARTI DURGAPRASADA RAO
3/106,
Premnagar, Dayalbagh,AGRA
.
+919897959425
धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु
मोक्षस्यैव परमपुरुषार्थत्वमुच्यते निरतिशयसुखरूपत्वात्तस्य | “न स पुनरावर्तते (छा.उ-8/15/1) ” इत्यादि
श्रुत्या मोक्षस्यात्यन्तिकपुरुषार्थत्वमुपपन्नमेव| धर्माद्यपेक्षया
मोक्षस्याभ्यर्हितत्वात्तद्विषयेsत्यन्तासक्ति: प्रदर्शिता भारतीयै: दार्शनिकै:||
मूलाज्ञाननाशात्स्वस्वरूपप्राप्ति:
अर्थात् आत्मसाक्षात्कार एव मोक्ष इति वेदान्तिनामाशय:| श्रीशङ्करभगवत्पादा: “ अविद्यानिवृत्तौ स्वात्मन्यस्थानं परप्राप्ति: “ इति मोक्षस्वरूपं प्रतिपादयामासु:|
ब्रह्मसूत्रभाष्यव्याख्यात्रा
रामानन्देन स्वरत्नप्रभायां “कर्तृत्वाद्यनर्थहेतो: अध्यासस्य समूलस्यात्यन्तिकनाशो
मोक्ष इति मोक्षस्य स्वरुपमुक्तम् | अत्राध्यासस्यानर्थहेतुत्वं
रत्नप्रभाव्याख्यानानुसारेनैवं प्रतिपाद्यते |
ब्रह्मसूत्राणां
शारीरकमीमांसाभाष्यं विरचितवद्भि: श्रीशङ्करभगवत्पादै: आदावुपोद्घातरुपेणाध्यासभाष्यमभाषि | तत्र “स्मृतिरूप: पूर्वदृष्टावभास:” इति अध्यासलक्षणं प्रदर्शितम् | एतद्व्याख्यानावसरे रत्नप्रभाकारै: अत्र “परत्र अवभास:” इत्येव लक्षणं शिष्टं पदद्वयं तदुपपादनार्थमित्युक्तम्
|
परत्र =शुक्तिशकलादौ
अवभास: =
परस्य रजतस्य अवभास: ||
तथा च ‘ एकस्मिन्वस्तुनि अन्यवस्त्वात्मकवृत्तिरेवाध्यास:’ इत्युक्तम् | दृष्टं दर्शनं पूर्वानुभव: पूर्वानुभवजन्य:
संस्कारजन्य: इत्युक्तं भवति | तथा च पूर्वदर्शनादवभास्यत इति पूर्वदृष्टावभास: | स्मृतिरूप:
इत्यत्र स्मर्यते इति स्मृति: सत्यरजतादि:
| स्मृते: रुपमिव रूपं यस्य स: स्मृतिरूप: इत्यर्थस्वीकारेण स्मर्यमाणसदृश:
इत्यर्थ: फलति | एवञ्च प्रपञ्चभ्रमोsपि पूर्वप्रपञ्चानुभवजन्यसंस्काराधीन:
पूर्वप्रपञ्चसदृश: सन्ततं प्रवाहरुपेणानुवर्तत इत्युक्तम् |
अयमध्यास: साद्यनादिभेदेन
द्विविध:| अत्र सादित्वं जन्यत्वमनादित्वमजन्यत्वम् | अहंकाराध्यास: सादि:
अविद्याचितोरध्यासोsनादि: | अत्र रत्नप्रभाकारै: साद्यनाद्यध्यास-साधारणलक्षणन्त्वेवमुक्तम्
|
“एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववत्यवभास्यत्वमध्यस्तत्वम्” इति | अस्य लक्षणस्य समन्वय: एवं क्रियते |
रजताध्यासे – एकावच्छेदेन = इदन्त्वावच्छेदेन
स्वसंसृज्यमाने इत्यत्र स्वपदं अध्यस्तत्वेनाभिहित वस्तुपरं तच्च
रजतम् | आरोपरजतेन स्वसंसृज्यमाने शुक्तिशकले वस्तुत:
स्वात्यन्ताभाववति = पारमार्थिकत्वावच्छिन्नप्रतियोगिताक
राजताभाववति
अवभास्यत्वम् = इदं रजतमिति भासमानत्वं
राजतेsस्तीति लक्षणसमन्वय:|
अत्रायमभिप्राय: | यत्र यद्वस्त्वस्तीति भासते तत्र
तद्वस्तु नास्तीत्युच्यते | लोके हि
घटवद्भूतलमित्यत्र यस्मिन् भूतले
घटोsस्तीति प्रतीयते तस्मिन्नेव घटाधिकरणे
घटो नास्तीति प्रतीतिर्न भवति अनुभवविरुद्धत्वात् | अत्राध्यासस्थले तु “ इदं रजतम् ” इति रजतत्वेन प्रतीयमाने शुक्तिशकले
सहस्रजनानुभवविषयत्वेsपि परमार्थतस्तत्र
रजतस्याभावात् स्वात्यन्ताभाववत्यवभास्यत्वमस्त्येव |
एवञ्च- एकावच्छेदेन= आत्मत्वावच्छेदेन
स्वात्यन्ताभाववति= जीवत्वेश्वरत्वजगदात्मक–दृश्यात्यन्ताभाववति
अवभास्यत्वम्
= जीवेश्वरजगदात्मकदृश्ये लक्ष्यमाणत्वाल्लक्षणसमन्वय: |
नैय्यायिकास्तु “ कपि - संयोगी- वृक्ष: ” इत्यत्र ‘अग्रे वृक्ष: कपिसंयोगी मूले न’ इति प्रतीत्या अग्रदेशे कपिसंयोगो वर्तते मूलदेशे स:
नास्तीति कपिसंयोगाधिकरणाभावे वृक्षे कपिसंयोगस्य सत्यत्वमङ्गीकुर्वन्ति |
किञ्च घटापसरणानन्तरं घटो नास्तीति
घटाधिकरणे एव घटप्रतीतिमभ्युपगच्छन्ति | वेदान्तिनस्तु न तथा | यस्मिन् काले यदवच्छेदेन यद्यस्मिन् प्रतीयते तस्मिन् काले तदवच्छेदेन तत्तत्र नास्त्येवेति सर्वथा तत्र परमार्थत:
असत्त्वमेवाभ्युपगच्छन्ति|
श्रीशङ्करभगवत्पादै: “ शुक्तिका हि रजतवदवभासते” “ एक: चन्द्र: सद्वितीयवत् ” इति अध्यासद्वयं दृष्टान्तत्वेनाभिहितम् | अत्र शुक्तिशकलं
राजतात्मना भासत इति अन्यस्य वस्तुन: अन्यवस्त्वात्मना भाने दृष्टान्त:|
एकस्य
वस्तुन: अनेकवस्त्वात्मना भाने तु ‘ एक: चन्द्र: सद्वितीयवत्’ इति
दृष्टान्त: | प्रकृते आत्माधिष्ठान–भ्रमरुपाध्यासे
दृष्टान्तद्वयमप्यनुकूलमेव | मूलाज्ञानेनावृतं परमात्मतत्त्वं जीवेश्वरजगदात्मना
भासते | अनेकवस्त्वात्मना च भासते | तथा च
सर्वैरपि ज्ञानिभिरज्ञानिभिश्च ब्रह्मतत्त्वमेव दृश्यते | ज्ञानिभिस्तु सर्वं
ब्रह्मात्मना दृश्यते | अज्ञानिभिस्तु जीवेश्वरजगदात्मना दृश्यते |
सर्वेष्वप्यध्यासेषु अविद्याया: कारणत्वं संभाव्यते | तथा च अध्यास:
कार्यरूप: अविद्या कारणरुपा चेति विज्ञेयम् | उक्तञ्च भगवत्पादै: “तमेवं लक्षणमध्यासं पण्डिता: अविद्येति मन्यन्ते “ इति |
अविद्या नाम सत्वरजस्तमोगुणोपेता
आवरणविक्षेपशक्तियुक्ता प्रकृति:| तादृश्यविद्वैव कारणाध्यास: इत्युच्यते | “ इदं रजतम् ” इत्यत्र मूलाविद्यापरतन्त्रतूलाविद्या रजताकारेण रजतज्ञानाकारेण
च परिणमते, यदि शुक्ति रजतादीनामविद्यापरिणामित्वमङ्गीकुर्वन्ति | अत एव मूलाविद्याया:
परिणाम्युपादानत्वं ब्रह्मणस्तु विवर्तोपादानत्वमिति वेदान्तिनामशय:|
तत्त्वतोsन्यथाभाव: परिणाम: यथा क्षीरस्य दधिरूपेण परिणाम:| अतत्त्वतोsन्यथाभाव:
विवर्त:| यथा रज्जो: सर्परूपेण अवभास: | सर्वस्याप्यविद्यापरिणामित्वादेव
सुषुप्त्यवस्थायामविद्यायां लय: प्रबोधे च पुन: तत एवाविर्भाव इति वेदान्तिनामाशय: |
एवञ्च सर्वेष्वप्यध्यासेषु अज्ञानमेव मूलमिति वक्तव्यम्| अज्ञानं द्विविधम् असत्वावरणप्रधानमभानावरणप्रधानञ्च | परोक्षज्ञानेन असत्वावरणप्रधानमज्ञानं निवर्तते | अभानावरणप्रधानन्तु यथापूर्वं वर्तत एव
| यथा दूरे महापरिमाणे वृक्षे अल्पपरिमाणत्वाभ्रान्ति: कस्य चिज्जाता | तत: तादृशवृक्षसमीपादागतेन पुरुषेण
‘अयं वृक्ष: अत्यधिकपरिमाण:
नाsल्पपरिमाण: भूशाखाशिंशुपादिसहित:’ इत्युक्ते अल्पपरिमाणभ्रान्तिमत: पुरुषस्य यदज्ञानमासीत् तच्चाज्ञानम्
अधिकपरिमाणोपदेशजन्य ज्ञानेन नष्टं वा न वा? नष्टमेव | किन्त्वत्रासत्वावणमेव नष्टम् | अभानावरणन्तु न नष्टम् | अन्यै: शतधा उक्तमपि प्रत्यक्षमल्पपरिणाममेव दृश्यते ना sधिकपरिमाणम्| तत् कुत इत्युक्तौ अभानावरणस्य यथापूर्वं विद्यमानत्वात् | तादृश अभानावरणस्य निवृत्ति: वृक्षसमीपं गत्वा तादृशम् अधिकपरिमाणं वृक्षं यदा पश्यति तदा भवति| तच्च ज्ञानमपरोक्षज्ञानमेव | तादृशापरोक्षज्ञानमेवाभानावरणस्य निवर्तकं
भवति | अत एव लोके वेदान्तश्रवणं क्रियमाणमपि तत: परोक्षज्ञानं जायमानमपि तत् अपरोक्षाध्यासनिवर्तकं न भवति|
तथा हि:- वेदान्तश्रवणेन जीवत्वं पारमार्थिकं न भवति|
ब्रह्मैक्यमेव जीवस्य पारमार्थिकं स्वरूपमिति ज्ञानं जातमेव | तच्च ज्ञानं
असत्वावरणं निवर्तयति | अभानावरणनिवर्तकं न भवति | यदा
मनन-निदिध्यासनादिभि:अपरोक्षब्रह्मसाक्षात्कारो भवति तदैव मूला ज्ञाननिवृत्ति:
भवति अपरोक्षाध्यासोsपि निवर्तते |
श्रीशङ्करभगवत्पादा: अध्यासलक्षणं तत्संभावनादिकञ्च
निरूप्य लौकिका: वैदिकाश्च सर्वे प्रमाणप्रमेयव्यवहारा: अध्यासवशेनैवेति
प्रतिपादयामासु: | एवञ्च अस्याध्यासस्याविद्याकल्पितकर्तृत्वभोक्तृत्वादिबन्धहेतुत्वात्
ब्रहमात्मैकत्वविज्ञानेन बन्धनिवृत्तिर्भवति | स एव मोक्ष: |
मुक्ति: ब्रह्मणोsन्या चेत् ब्रह्मैकं मुक्तिरेकेति द्वैतमेवापद्येत |
तच्च नाsभीष्टम् | ब्रह्मैव जिज्ञासाविषय: ब्रह्मैव फलम् | अत्राज्ञातत्वेन
ब्रह्मण: जिज्ञासाविषयत्वं ज्ञातत्वेन फलत्वमिति विज्ञेयम् | ब्रह्मज्ञानं तु
भग्नावरणचिद्रूपं ब्रह्मैव मुक्ति: |
अत्रेयमाशंका | मुक्ति: यदि ब्रह्मरुपा तर्हि ब्रह्म
सिद्धमेवेति सिद्धस्य साधनाय श्रवणात्मकब्रह्मविचार: व्यर्थ: स्यात् | यद्यविद्यानिवृत्ति:
ब्रह्मज्ञानसाध्या सैव मुक्तिश्चेत् अविद्यानिवृत्ते:
अभावरुपत्वेन आनन्दस्वरुपत्वं न स्यात् |
यदि ब्रह्म अविद्यानिवृत्तेरन्यत् तर्हि अद्वैतहानि:|
अविद्यानिवृत्तिविशिष्टं ब्रह्म चेन्मुक्ति: विशेषणांशस्य मिथ्यात्वेन
विशिष्टस्यापि मिथ्यात्वापत्त्या पारमार्थिकत्वानुपपत्ति: | अत:
अविद्यानिवृत्युपलक्षितचैतन्यं मोक्ष इति सिद्धान्त: | तथा च अविद्यानिवृत्तेरुपलक्षणविधया
निवेशेन विशिष्टत्वासंभवात् मुक्ते: चैतन्य- रुपत्वेन स्वप्रकाशानन्दरुपत्वमपि
सिध्यतीति न कोsपि दोष: | सा च सच्चिदानन्दाद्वैतब्रह्मस्वरुपा | सा न साध्या
परन्तु सिद्धैव | सिद्धायामप्यसिद्धत्वभ्रान्त्या तद्भ्रान्तिमूलाविद्यानिवृत्तये
श्रवणादौ प्रवर्तन्ते मुमुक्षव: |
एवं स्वस्वरुपावस्थानमुक्तिस्तु सर्वेषां समाना तारतम्यवर्जिता च | उक्तं च भगवता व्यासेन “ एतेन मुक्तिफलाsनियम: तदवस्था तद्वते: तदवस्था
तद्वते: “ | तथा हि :- मुक्तिफले नियमो
नास्ति | तारतम्यं नास्ति | कालनियमो वा देशनियमो वा तारतम्यं वा नास्तीत्यर्थ: |
एवञ्च सर्वेषां समानरूपा मुक्ति: स्वस्वरूपावस्थानमेव | एतदेवाभिप्रेत्योक्तं
रत्नप्रभाकारै: रामानन्दसरस्वतीश्रीचरणै: " अविद्यानिवृत्युपलक्षित ब्रह्मभावो मोक्ष:” इत्यलमतिविस्तरेण |
***
No comments:
Post a Comment