Thursday, November 13, 2025

A Study of Ratnaprabha – 37

 

A Study of Ratnaprabha – 37

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

 Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 गताङ्कादग्रे

1.    ब्रह्मामैकत्वविज्ञानस्य संपदादिरूप निराकरणम्

 अत्रैक्यज्ञानस्यापि अप्रमात्वं साधयितुं पूर्वपक्षी एवमाशङ्कते || तथाहि:- ब्रह्मात्मै कत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, संपदादि रूपत्वेन भ्रान्तित्वादिति || एवं च वेदान्तानां

संपदादिरूपविशेषोपासनापरत्वं स्यादिति तस्याशय: ||

सिद्धान्ते भगवत्पादै: ब्रह्मात्मैकत्वविज्ञानस्य संपदादिरूपत्वं निषिध्यते न चेदमित्यादि वाक्यै: || अत्र “ अल्पालंबन तिरस्कारेणोत्कृष्टवस्त्वभेदज्ञानं संपत् ” इति रत्नप्रभाकारा: (रत्नप्रभा -156) || यथा मन: स्ववृत्त्यानन्त्यादानन्त्यं, तत: उत्कृष्टा: विश्वेदेवा: अप्यनन्ता: इत्यानन्त्यत्वसाम्यात् विश्वेदेवा: एव मन: इति संपत् , तथा चानन्तफलप्राप्ति: भवति || तथा च  श्रुति: “ अनन्तं वै मनोsनन्ता: विश्वेदेवा: अनन्तमेव स तेन लोकं (बृ.उ*3-1-9) इत्यादि || प्रकृतेsपि चेतनत्वसाम्याज्जीवे ब्रह्माsभेद: संपत् इति||

  यदि ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपं स्यात्  तर्हि “तत्त्वमसि” “अहं ब्रह्माsस्मि” “अयमात्मा    ब्रह्म  इत्यादि श्रुतीनां  ब्रह्मात्मैकत्ववस्तु प्रतिपादनपर: पदसमन्वय: पीड्येत || अत: न सम्पद्रूपं ब्रह्मात्मैकत्वविज्ञानम् ||

 2.     ब्रह्मात्मैकत्वविज्ञानस्याध्यासरूपनिराकरणम् :

ब्रह्मात्मैकत्वविज्ञानमध्यासरूपमपि न भवति || अत्राsलम्बनस्य प्राधान्येन ध्यानं प्रतीकोपास्तिरध्यास: इति रत्नप्रभा ( page-157) || 

यथा “ मनो ब्रह्मेत्युपासीत”( छा.उ-318-1) “आदित्यो ब्रह्मेत्यादेश:” ( छा.उ-3-19-1) इति मन आदित्यादिषु ब्रह्मदृष्ट्याsध्यास: || तथा च मन आदित्यादिषु ब्रह्मबुद्धि: एवमेव जीवेsपि ब्रह्मत्वमारोप्य अहं ब्रह्मेति व्यवहार: इति || अत्राsरोप्यप्रधाना संपत् , अधिष्ठान प्रधानोsध्यास: इति तयोर्भेद: (रत्नप्रभानुवाद: यतिवर बोलेबाबाविरचित: -page175) || यदि ब्रह्मात्मैकत्वविज्ञानमध्यासरूपं स्यात्तर्हि तत्त्वमस्यादिवाक्यानां पदसमन्वाय: पीड्येत||  अतो नेदं ब्रह्मात्मैकत्व विज्ञानमध्यासरूपम् ||

3.     विशिष्टक्रियायोगनिमित्तम्:

किं च ब्रह्मात्मैकत्वविज्ञानं वायुर्वाव संवर्ग: प्राणो वा व संवर्ग:  (छा.उ.4-3-1) इतिवत्

विशिष्टक्रियायोगनिमित्तमपि न भवति || तथा हि:- यथा प्रलयकाले वायु: अग्न्यादीन् संवृणोति  संहरतीति संवर्ग: || स्वापकाले प्राणो वागादीन् संहरतीति संहार क्रियायोगात् संवर्ग: इति ध्यानं छान्दोग्ये विहितम् || एवमेव वृद्धिक्रियायोगात्  जीवो ब्रह्मेति ज्ञानमिति || नैतत्समीचीनम् ||  विशिष्टक्रियायोगनिमित्ते  ब्रह्मात्मैकत्वविज्ञाने s भ्युपगम्यमाने “ भिद्यते हृ दयाग्रन्थि: छिद्यन्ते सर्वसंशया: क्षीयन्ते चाsस्य कर्माणि

तस्मिन् दृष्टे पराsवरे (मु.उ -2-2-8) इत्येवमादीनि अविद्यानिवृत्तिफलश्रवणान्युपरु ध्येरन् || अत:   विशिष्टक्रियायोगनिमित्तं   ब्रह्मात्मैकत्वविज्ञानम् ||

4.    ब्रह्मात्मैकत्वविज्ञानं न संस्काररूपम् :    

एवमेव  ब्रह्मात्मैकत्वविज्ञानम् आज्यावेक्षणादिकर्मवत्कर्मङ्गत्वसंस्कार रूपमपि न भवति || तथा हि :- यथा पत्न्यावेक्षितमाज्यं भवतीति उपांशु यागाद्यंगस्याssज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्माणि कर्तृत्वेनाङ्गस्यात्मन: संस्कारार्थं ब्रह्मज्ञानं विहितमिति || तन्न समी चीनम् ||   आज्यावेक्षणादिकर्मवत्कर्मङ्गत्वसंस्काररूपे

 ब्रह्मात्मैकत्वविज्ञाने sभ्युपगम्यमाने

ब्रह्म वेद ब्रह्मैव भवति” (मु.उ.2/3/9) इतादि तद्भावापत्ति वचनानि न सामञ्जस्येनो पपद्येरन् || अतो न कर्माङ्गत्वसंस्काररूपं ब्रह्मात्मैकत्वविज्ञानम्  ||

....अनुवर्तते ...

No comments: