A
Study of Ratnaprabha – 41
रत्नप्रभाविमर्श:
सप्तमोऽध्यायः
समन्वयाधिकरणम्
Author:
DR.
CHILAKAMARTHI DURGA PRASADA RAO
....गताङ्कादग्रे...
-: अशरीरत्वरूपमोक्षस्थितिनिरूपणम्
:-
अत्र श्रुतब्रह्मणोऽपि संसारित्वमिति शङ्कायाम् – नाsवगतब्रह्मात्मभावस्य
यथापूर्वं संसारित्वं शक्यते दर्शयितुं वेदप्रमाणजनित ब्रह्मात्मभावविरोधात् || न हि
शरीराद्यभिमानिन: दु:खभयादिमत्वं दृष्टमिति तस्यैव वेदप्रमाणजनितब्रह्मात्वावगमे तदभिमाननिवृत्तौ
तदेव मिथ्याज्ञाननिमित्तं दु:खभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् || न हि धनिनो
गृहस्थस्य धनाभिमानिन: धनापहारनिमित्तं दु:खं
दृष्टमिति तयैव पव्रजितस्य धनाभिमानरहितस्य तदेव
धनापहारनिमित्तं दु:खं भवतीति दृष्टान्तै:
तन्निराकृतम् || तदुक्तं श्रुतौ “ अशरीरं
वा वसन्तं न प्रियाप्रिये स्पृशत:” ( छा.उ* 8.12.1) इति || अत्र शरीरे पतिते अशरीरत्वं स्यात् न जीवत: इति पूर्वपक्षे
प्राप्ते भगवत्पादै: सशरीरस्य मिथ्याज्ञान कल्पितत्वात् जीवतोऽपि पुरुषस्याsशरीरत्वं कल्पयितुं
शक्यते इत्यादि ||
एवं चैतै: दृष्टान्तै: जीवन्मुक्ताsवस्था वर्णिता भगवत्पादै: || अत्राsयं दृष्टान्तोsपि प्रदर्शित: भगवत्पादै: || “ तद्यथाsहिनिर्व्लयनी वल्मीके
मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते अथाsयमशरीरोsमृत: प्राणो ब्रह्मैव तेज रव (बृ.उ*4-4-7) इति ||
तस्य रत्नप्रभा व्याख्यानम् :- तथाहि अहिनिर्व्लयनी
(सर्पत्वक्)वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता
सर्पेण त्यक्ताsभिमाना वर्तते एवमेवेदं विदुषा त्यक्ताsभिमानं शरीरं तिष्ठति अथ तथा त्वचा निर्मुक्तसर्पवदेव
अयं देहस्थोप्यशरीर: ||
विदुषा देहे सर्पस्य त्वचावभिमानभावात् ,
अशरीरत्वात् अमृत: प्रणितीति प्राणो जीवन्नऽपि ब्रह्मैवेति || अपि च “स
चक्षुरचक्षुरिव सकर्णोsकर्ण इव सवागवागिव सामना अमना इव सप्रानोsप्राण इव” “ स्थित प्रज्ञस्य का भाषा” (भ.गी*2.54)
इत्यादि श्रुतिस्मृतिभि: जीवन्मुक्तस्य लक्षणान्यभिवर्ण्यन्ते || अपि च “ भिद्यन्ते
हृ दयग्रन्थि: छिद्यन्ते सर्वसंशया: क्षीयन्ते चाsस्य कर्माणि तस्मिन्
दृष्टे पराsवरे” (मु.उ *2.2.8)
इति जीवन्मुक्तावस्थां स्पष्टं दर्शयति श्रुति: || तस्मान्नावगतब्रह्मात्मभावस्य
यथापूर्वं संसारित्वम् || यस्य तु यथापूर्वं संसारित्वं नाsसावधिगतब्रह्मात्मभाव:
इति स्पष्टमवोचि भाष्यकारै: ||
अत्र पुन: श्रवणात्पराचीनयो: मनननिदि ध्यासनयो: दर्शनात् विधिशेषत्वं ब्रह्मण:
न स्वरूपपर्यवसायित्वमिति पूर्वपक्षे प्राप्ते “ न श्रवणवत् अवगत्यर्थत्वामनननिदि
ध्यासनयो:” इत्यादि सिद्धान्तितं भगवत्पादै: || तत्र रत्नप्रभाकारा: || तथाहि:- यदि
ज्ञाने विधिमङ्गीकृत्य वेदान्तैरवगतं ब्रह्म विधेयज्ञाने कर्मकारत्वेन विनियुज्येत
तदा विधिशेषत्वं स्यात् , न त्ववगतस्य विनियुक्तत्वं प्राप्तावगत्या फललाभे
विध्ययोगात् ||
एवं च ज्ञानेनैव मोक्षस्य फले लाभात् येन फलार्थं ज्ञातस्य ब्रह्मण: विधेयज्ञाने
विनियुक्तत्वं स्यात् तस्मान्न विधिशेषत्वं ब्रह्मण: इति भाव: || तथा चाsत्र ब्रह्मण:
विधि शेषत्वं निराकृत्य स्वस्वरुपपर्यवसायित्वं ज्ञानैकसाध्यत्वं च प्रतिपादितमित्ययमेव
समन्वयाधिकरणसारांश: इत्यलमति विस्तरेण ||
<><><>
No comments:
Post a Comment