ते नेत्रे
डा. चिलकमर्ति दुर्गाप्रसादरावु
यावत् अहं विदयालयत: प्रत्यागता तावता कश्चन युवक: गृहे उपस्थित: दृष्ट: मया | स: मया इत: पूर्वं
दृष्टपूर्व: तु न | स: मां निर्निमेषं पश्यति स्म |
मया यदा विचारितं तदा माता सङ्क्षेपेण उक्तवती-
“ स: अस्मद्बन्धुतुल्य:| मुम्बय्याम् उद्योगं
करोति ” इति | “ स: अस्माकं सर्वेषां कृते प्रीत्या वस्तूनि आनीतवान् अस्ति | मया धृता एषा
शाटिका तेन आनीता एव || भवत्या: अग्रजाय उरुकं, भ्रातृजायायै कङ्कणानि च आनीतवान् अस्ति स: ||
भवत्यै तेन एषा घटी आनीता ” इति वदन्ती माता मह्यं एकां घटीं दत्तवती || न जाने, किं कारणमिति, तस्य एष
व्यवहार: मह्यं न अरोचत || अत: सा घटी मया न स्वीकृता ||
स: आगन्तुक:
तु मम मुखं द्रष्टुं तदा तदा प्रयत्नं कुर्वन् मया लक्षित: || अहं प्रयत्नेन तं निवारयामि
स्म || गृहजना: एतत् जानन्त: अपि तूष्णीम् एव स्थितवन्त: आसन् || ******
अहं मम प्रकोष्ठे पठन्ती आसम् || भ्राता ग्रामान्तरं गत: आसीत् || माता प्रतिवेशिन्या:
गृहं गतवती आसीत् || भ्रातृजाया प्रकोष्ठे शयितवती आसीत् ||
अत: गृहे शान्त: परिसर: ||
“ सुजाते
! ” इत्येतत् आह्वानं
श्रुत्वा अहं मुखम् उन्नीय दृष्टवती || स: आगन्तुक: मत्समीपम् आगच्छन् आसीत् लडुक
(laddu) पेटिकाहस्त: सन् ||
“ हाम् “ इति अहम् अवदं भयकम्पितेन स्वरेण ||
स: इतोऽपि समीपम् आगतवान् || हस्तलभ्या
यथा स्यां तथा मत्पार्श्वे अतिष्ठत् स: ||
अहं पूर्वत: अपि अधिकं भयं प्राप्तवती
|| “ एतस्य उद्देश: निर्मल: नास्ति इति भासते ” इति चिन्तयन्ती अहं भयेन कम्पमाना एव उत्थितवती || भयेन सह क्रोध:अपि आसीत्
मयि || कथञ्चित् धैर्यं प्राप्य अहं बलात्
तस्य कपोले चपेटाम् दत्तवती || मम पञ्च अङ्गुलय: तस्य कपोले अङ्किता: जाता: || अहं
रुदती प्रकोष्ठात् बहि: गतवती धावन्ती ||
एतं कोलाहलं श्रुत्वा दिग्भ्रान्ता भ्रातृजाया
झटिति उत्थाय मत्समीपम् आगतवती || तावता प्रतिवेशिनीगृहत: माता अपि आगता || ग्रामान्तरात्
तदा एव भ्राता अपि प्रतिनिवृत्त: ||
अहं रुदती एव मातरं प्रवृत्तं सर्वं निवेद्य ताम् आलिङ्ग्य
अश्रूणि स्रावितवती ||
किन्तु गृहजनानां मुखे आतङ्करेखा कापि
न दृष्टा, प्रत्युत मन्दहास:एव दृष्ट || मां
सान्त्वयन्ती माता अवदत् – वत्से ! भवती यदा पञ्चवर्षीया
आसीत् तदा खलु भवत्या: पिता आकस्मिकं मरणं प्राप्तवान् || स: सदा
वदति स्म –
“ सर्वोऽपि मरणानन्तरं स्वशरीरम्
अङ्गानि च इतरेषाम् उपयोगाय दापयेत् || शरीरस्य निखननेन दहनेन वा न किमपि प्रयोजनम्
“ इति || तस्य आशयस्य अनुगुणं तदीये नेत्रे अन्धाय एतस्मै गत्ते
आस्तां तदा || अयं नेत्रप्राप्त्यनन्तरं विद्याभ्यासं समाप्य उद्योगं प्राप्य मुम्बयी
नगरे वासम् अकरोत् || यद्यपि मध्ये द्वित्रिवारं एतेन अस्मद्गृहम् आगतं, तथापि भवत्या
स: न दृष्ट: || तदा अध्ययनाय भवती छात्रावासे आसीत् || ऐदम्प्राथम्येन स: भवतीं पश्यति || स तु पश्यति भ्रातृभावेन || तस्य
शरीरे स्थिते नेत्रे न तदीये, अपि तु भवत्या: पितु:” इति ||
एवं वदन्त्याम् अम्बायां, तस्य नेत्राभ्याम्
अश्रुधारा प्रवहति स्म || मया चिन्तितम् “ एवं कदापि न भवेत् ||
मम पितु: नेत्राभ्याम् अश्रूणि न निर्गच्छेयु:” ||
अप्रयत्नेन एव मम हस्त: तानि अश्रूणि अमार्जयत् || मम नेत्रे तस्य नेत्रे अपश्येताम् || तदा अभासत –“ एते न केवलं नेत्रे || अपि तु भ्रातृभावस्य पात्रे “ || *****
No comments:
Post a Comment