संस्कृतसाहित्यॆ
पर्यावरणपरिरक्षणसन्दॆश:
डाक्टर्. चिलकमर्ति दुर्गाप्रसादरावु
प्रपंचेSस्मिन्
परिदृश्यमानासु बह्वीषु समस्यासु पर्यावरणकालुष्यसमस्या तीव्रतरा भीतावहा च
परिगण्यते | परित: आवरणं
पर्यावरणमिति व्युत्पत्त्या पंचतत्त्वनिर्मितं प्राणिजीवनं पंचतत्वारणैराच्छादितमस्ति
|
प्रपंचोSयं
पृथिव्यप्तॆजॊवाय्वाकाशरुपपंचभूतात्मक:| यद्यपि पंचसु भूतॆषु तेजस: आकाशस्य
च कालुष्यं न आपद्यतॆ तथाप्यन्यानि त्रीणि कालुष्यास्पदान्यॆव भवन्ति | कालुष्यं बहुविधं यॆन पृथ्वीजलवाय्वादीनि स्वप्रकृतिं
विहाय विकृतिं लभन्तॆ | तथा च यच्च
कालुष्यं प्रकृते: समतौल्यं भंजयति विनाशयति च
तत्कालुष्यं पर्यावरणकालुष्यमिति शास्त्रज्ञैर्निर्णीयते |
प्राचीनकाले मानव: प्रकृत्या सह
जीवनं करोति स्म | प्रकृतिं दॆवतारूपेण संभाव्य आराधयति स्म | माता पृथिवी पुत्रॊSहं पृथिव्या: ( अथर्ववॆद:/१२/१/१२) इत्यादि वाक्यानि विषयममुं ध्रुवी कुर्वन्ति | अपि च न कॆवला प्रकृति: किं च सर्वा: अपि प्राकृतिकशक्तय: दॆवतारूपॆण परिगणिता:
आराधिताश्च
|
किन्त्वस्मिन्
आधुनिकॆ युगे मानव: स्वार्थपूरित: लॊभाकृष्टविषयश्च भूत्वा स्वसुखाय सर्वामपि प्राकृतिकीं
सम्पदं विनाशयति | पारिश्रामिकीकरणव्याजॆन
प्राणिविघातकारकाणि रसायनद्रव्यान्युत्पादयति यै: प्रकृत्या: महती विनष्टि: संजायते | स्वॊदरपूरणार्थं वैज्ञानिकप्रयोगार्थं च प्राणिनां हननं, वैज्ञानिकविकासव्याजेन वसुधातलात् खनिजानां दोहनं, वनानामनवरतमुच्छॆदनं,
विनॊदार्थं वन्यप्राणिनां हननमधिकोत्पत्तिसाधनाय
रसायनिकद्रव्यानामुपयॊजनं बाहुल्यॆन क्रियन्ते यै: समग्रं पर्यावरणमस्थिरं विलुप्तं
च संजातम् |
यदि मानव: एवमेव कर्तुं प्रवृत्त: चेत्तर्हि सर्वस्या:
अपि
प्रकृते: विनाश: अचिरादेव भविष्यतीत्यत्र नास्ति सन्देहलॆशॊSपि | अत: पर्यावरणपरिरक्षणाय
परिवर्धनाय चॆदानीं किं
कर्तव्यमित्याशंकायामस्माकं प्राचीनानां जीवनपद्धतिरॆवानुसरणीयॆति समाधानं भवति |
वेदकालादारभ्यैव भारतदेशॆ सर्वॆ मानवा: पर्यावरणसंरक्षणॆन जीवनं सुखमयं कृतवन्त: दृश्यन्ते | सर्वॆ प्रकृत्यनुरागिण: प्रकृतिपरिरक्षकाश्चासन्
| पर्यावरणपरिरक्षणस्याद्यं सधनं
वृक्षाणां संरक्षणमॆव भवति | वेद: “ वृक्षॆभ्यॊ हरिकेशॆभ्यश्च नमो नम:” इति
हरितपर्णवृक्षं दॆवतारूपॆन संभावयति नमस्करॊति च | संस्कृतसाहित्यॆ विशिष्य
कालिदासॆन स्वग्रन्थॆषु प्राचीनानां प्रकृतिप्रियत्वं पर्यावरणस्य च
वैशिष्ट्यं प्रदर्शितमस्ति|
रघुवंशॆ
द्वितीयसर्गॆ सिंहदिलीपयॊ: सम्भाषणावसरे सिंह: एकं वृक्षं दर्शयन् दिलीपं वदति " हॆ राजन् ! भवानस्माकं
पुरस्ताद्यं वृक्षं पश्यति स देवदारुवृक्ष: | अयं च वृक्ष : पार्वतीपरमॆश्वराभ्यां पुत्रवत्पालित: पॊषितश्च|
अमुं पुर: पश्यसि देवदारुं
पुत्रीकृतोSसौ वृषभध्वजॆन |
यो
हॆमकुम्भस्तननिसृतानां
स्कन्दस्य मातु:
पयसां
रसज्ञ:||
स एव सिंह: राजानं पुनरेवं वदति |
हे
राजन्! एकदा तं वृक्षं विरुध्य कश्चन वन्यो गज: स्वकन्डूतिमपनेतुं
आत्मन: गण्डभागं वृक्षं प्रति कर्षति स्म
| तदा वृक्षस्य चर्म
अपगतम् |ताद्दृशं चर्मरहितं वृक्षं दृष्ट्वा सा पार्वती तथा विलापं कृतवती यथा सा
राक्षसानामस्त्रै: क्षतं स्वकुमारं कुमारस्वामिनं
दृष्ट्वा पुरा विललाप | तथा हि:-
कण्डूयमानेन कटं
कदाचि
द्वनद्विपॆनॊन्मथिता त्वगस्य|
अथैनमद्रॆ:स्तनया शुशॊच
सेनान्यमालीढमिवासुरास्त्रै:|| इति||
कालिदास: पुनरेवमभिप्रैति
यत्स्वयं संवर्धित: विषवृक्षोSपि न कर्तनीय: |
तथा हि:- " विषवृक्षोSपि संवर्ध्य स्वयं
छॆत्तुमसांप्रतम् ''||
अभिज्ञानशाकुन्तले
शकुन्तलां प्रति तस्या: सखी अनसूया वदति
यत् "सखि! शकुन्तले ! त्वत्तोSपि तातकाश्यपस्य
आश्रमवृक्ष: प्रियतर इति तर्कयामि
यन्नवमालिकाकुसुमपेशला त्वमप्येतेषामालवालसेचने नियुक्ता" इति | तदा शकुन्तला अनसूयां प्रत्येवं समाददाति यत् ''अत्र न केवलं तातनियोग: ममाप्यस्ति खलु सोदरस्नॆह: एतॆषु " इति ||
शकुन्तलाया: पतिगृहगमनसमये मंगळालंकृतायै तस्यै शकुन्तलायै सर्वे
वृक्षा आभरणानि समर्पयन्ति प्रेम्णा | एतॆनॆदं ज्ञायतॆ
यद्वृक्षमनुष्ययोर्मध्ये विद्यमान: सम्बन्ध: कियान्विशिष्ट इति |
अत एव फलहीन: वृक्षोSपि रक्षितव्य
एवेति वदत्यस्माकं संस्कृति:| तथाहि:
सेवितव्यो महावृक्ष:
फलच्छायासमन्वित:
यदिदैवात्फलं न
स्या
च्छाया केन निवार्यते
वृक्षा: परार्थैकचिन्तनरता:
सत्पुरुषतुल्या: इति प्रशंसयति
भारतीया संस्कृति: | तथाहि
छायामन्यस्य
कुर्वन्ति
तिष्ठन्ति स्वयमातपे
फलान्यपि परार्थाय
वृक्षा: सत्पुरुषा इव|
पर्यावरणपरिरक्षणस्य द्वितीयं
साधनं प्राणिसंरक्षणं तत्रापि विशिष्य वन्यप्राणिसंरक्षणम् | मानव: प्रति दिनं नैकान्
प्राणिन:संहरति | तेषु केचन
आहारार्थं, अन्ये कॆचन आरॊग्यार्थं, अपरॆ
केचन विनोदार्थं, पुन: केचन विना कारणं
हन्यन्ते | जीवने हिंसा यद्यप्यनिवार्या भवति तथापि तस्या: अवधि: वर्तते | विधानमपि वर्तते | जगत्यस्मिन् एकं प्राणिनमाधारीकृत्य अन्ये केचन जीवन्ति| उदाहरणार्थं
पश्याम:
चेत् ज्ञायते यद्
एकं पक्षिणमाधारीकृत्य बहव: पक्षिशाबका: जीवन्ति | यदि वयं निर्दाक्षिण्यं तं पक्षिणं हन्म: चॆत् पक्षिशाबका: सर्वे निराधारा:
अनाथा: च भविष्यन्ति| अत: यावत् शक्यं मानवै: प्राणिहिंसा
त्याज्या एव भवति | यदि कस्यापि जन्तो:
हिंसा
अनिवार्या भवति चेत् तदा यथा बाधा न्यूना
भवति तथा स हन्तव्य:| हन्यमानस्य मूकप्राणिन: मानसिकी वॆदना कथं भवति इति केनचन
कविना एवं सुनिपुणं वर्णितम् |
एकम्
अरण्यम् |
अरण्ये
च तस्मिम् कश्चन व्याध: संचरति | एका मृगी तस्य
दृष्टिपथम् आगता | स: तां मृगीं लक्षीकृत्य एकं निशितं बाणम् अमुंचत् | स च बाण: तस्या: मृग्या: गळे
व्यायतपातमक्षिणॊत्| असह्यवॆदनया सा नितरां खिन्ना अभवत् | तस्या: मरणम् आसन्नम् अभवत् | एतस्मिन्नन्तरे तस्या:
शाबका:स्मृतिपथमागता:
| तस्या: मातृत्वं
प्रबुद्धमभवत् | सा व्याधम् अतिदीनमेवं प्रार्थयति|
" हॆ व्याध! भवान् मम
सर्वानंगान् छित्वा नयतु | परन्तु स्तन्यम् एकं त्यजतु | कुत इति चॆत् मम
शिशव:
हरिततृणकबलमपि स्वयं खादितुं न समर्था: सन्ति | अतस्ते मदागमनाय प्रतीक्षां कुर्वन्त: तामेव दिशं
वीक्षमाणा: तिष्ठन्ति | ते मया पाययितव्या: | तानहं क्षीरं पाययामि | यद्यहं न पाययामि
चेत् ते अवश्यं मरिष्यन्ति | अत: कृपया तमेकं
मुक्त्वा अन्यत्सर्वं स्वीकुरु” | कारुण्यपूरितं
तस्य जन्तॊ: आक्रन्दनं स्वयं पश्यन्तु | यथाशक्ति
प्राणिहिंसां त्यजन्तु|
" आदाय मांसमखिलं स्तनवर्जमंगान्
मां
मुंच वागुरिक यामि कुरुप्रसादं
सीदन्ति
शष्प कबल ग्रहणानभिज्ञा:
मन्मार्ग
वीक्षणरता: शिशवो मदीया:” (वल्लभदॆवस्य
सुभाषितावलि:९८१)
"अहिंसा परमो धर्म:
“ “ मा
हिंस्यात्सर्वा भूतानि" इत्याद्या: श्रुतय: प्राणिहिंसां
सर्वात्मना निकाकुर्वत्य: दृश्यन्ते | सर्वे जानन्ति
यद्विषसर्पोSप्यस्माभिर्दॆवतारूपेण
परिगण्यते आराध्यते च | संस्कृतसाहित्ये वर्णिता: मुनीनामाश्रमास्सर्वे मानवानां
जन्तूनां च मध्ये विद्यमानं परस्परसौहार्दं द्योतयन्ति|
आकीर्णमृषिपत्नीना
मुटजद्वाररोधिभि: |
अपत्यैरिव
नीवार
भागधेयॊचितैमृगै: ( रघुवंश: /१.५०)
इदानीं
कालुष्यनिवारणोपाया: विचार्यन्ते|
भूकालुष्यम्
-इयं भू: सर्वॆषामस्माकं जननी | यथा माता स्वकीयं सर्वस्वं पुत्रॆभ्य: समर्प्य पालयति पॊषयति, तथैवॆयं पृथिवी
स्वकीयं सर्वस्वं समर्प्य पालयति पोषयति च | माता किंचित्कालमेव पुत्राणां भारं वहति | परन्त्वियं पृथ्वी जीवनपर्यन्तं वहति मरणानन्तरमपि
अस्मानात्मनि विलीनं कुरुतॆ | मातुरपि श्रॆष्ठतरा चेयं भूमि: अस्माभि: यथाकथंचित् परिरक्षणीया| मातृभावनया
अनावश्यकरसायनद्रव्य विनियोगनिवारणॆन च
भूम्या: स्वच्छता परिरक्षणीया|
वायुकालुष्यम्
वायुं विना मानव: क्षणमपि जीवितुं न प्रभवति | अत: अस्माकं
सनातनधर्म: " नमस्ते वायो! त्वमेव प्रत्यक्षं ब्रह्मासि | त्वामेव
प्रत्यक्षं ब्रह्म वदिष्यामि " इति वायुं दॆवतारूपेन संभावयति |
तादृशस्य
प्राणाधारकस्य वायॊ: स्वच्छता न कॆवलमारॊग्याय अपि तु चिरजीवनाय चोपकरॊति| वायुकालुष्यकारणॆनैव पंचविंशतिवर्षेभ्य: पूर्वं भॊपाल्
नगरे प्रवृत्तस्य दुर्घटनस्य परिणामं वयं
दृष्टवन्त: यत्र
सहस्रसंख्याका: मृता: मृतप्रायाश्चान्ये यथाकथंचिदद्यापि जीवनं यापयन्ति | अत: अनावश्यकरसायनद्रव्यविनियॊगेन
वृक्षाणां वर्धनेन च वायो: कालुष्यं
निवारणीयम्
|
जलकालुष्यम्
यथा वायुं विना
मानव: जीवितुं न प्रभवति तथैव जलॆन
विनापि जीवितुं न प्रभवति | जलं तु जीवनमॆव भवति
| अत एव जलस्यापरपर्याय: जीवनमपि | जलकालुष्यं
महापातकत्वॆन परिगणितमस्मत्पूर्वजै: | रामायणे वाल्मीकिमहर्षिणा भरतमुखादयं विषय: प्रस्तावित:| तथा हि:
पानीय दूषके पापं
तथैव विषदायके|
यत्तदेकस्य लभतां
यस्यार्योनुमते गत: || ( अयॊध्याकाण्ड:)
जले
अनावश्यकरसायनद्रव्यपातननिवारणॆनैव
जलकालुष्यं निर्मूलयितुं शक्नुम: |
अत: वयं सर्वलोकहिताय
पर्यावरणपरिरक्षणाय च बद्धकंकणा: भवाम:| यथाशक्ति वृक्षान् वर्धयाम: वन्यप्राणिन: पालयाम: | अनावश्यकानि रसयनद्रव्याणि त्यजाम: |
" लोकास्समस्ता: सुखिनो भवन्तु "इति वैदिकं निनादं सार्थकं कुर्म:|
*******************
No comments:
Post a Comment