A joke in Sanskrit
एकदा कश्चन बालक: दन्तवैद्यस्य (dentist) समीपं गतवान् |
वौद्यमहोदय ! मम मुखस्थ: एक: दन्त: मां तीव्रं बाधते (aching) | अहं बाधां सोढुं न
शक्नोमि | अत: तं निष्कासयितुम् इच्छामि | तदर्थं कियद्धनं स्वीकरोति भवान् ?
वैद्य: : केवलं द्विशतं
(Rs 200) रुप्यकाणि |
बालक: : तावद्वा ! किन्तु मम समीपे तावत् धनं नास्ति केवलं
पञ्चाशद् (Rs.50)
रुप्यकाण्येव सन्ति | अत: भवान् मम दन्तं किञ्चित्
शिथिली( (loose) करोतु | तदनन्तरम् अहं यथावकाशम् उन्मूलयितुं प्रयत्नं करिष्यामि |
No comments:
Post a Comment