ब्रह्मसूत्राणां
श्रीभगवत्पादानन्तरं श्रीरामानुजानन्दतीर्थाद्याचार्यै: विशिष्टाद्वैतादिमतपराणि
भाष्याणि विरचितानि || विशिष्टयो: अर्थात् सूक्ष्मचिदचिद्विशिष्टस्य कारणस्य
ब्रह्मण:, स्थूलचिदचिद्विशिष्टस्य कार्यस्य ब्रह्मणश्चाद्वैतं विशिष्टाद्वैतम् ||
मध्वाचार्याणाम् आनन्दतीर्था: इति नामान्तरम्
|| आनन्दतीर्थीयं भाष्यं केवलं द्वैतं स्थापयति जीवब्रह्मणो: ||
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा
जीवभेदो मिथश्चैव जडजीवभिदा तथा
मिथश्च जडभेदो य: प्रपञ्चो भेदसंज्ञित:” इति मध्वाचार्यसिद्धान्त: ||
एवमनेकैराचार्यै:
विविधसिद्धान्तप्रतिपादकानि भाष्याणि
विरचितानि समुपलभ्यन्ते ||
क्रम: – ख्याकार: -काल: -- व्याख्यानस्य नाम – सिद्धान्त:
1.
श्रीशंकर: (788—820AD)-- शारीरकमीमांसाभाष्यम्-
केवलाद्वैतम्
2.
श्रीभास्कर: (1000 A.D) – भास्करभाष्यम् - भेदाभेदवाद:
3.
श्रीरामानुज: (1140 A.D) – श्रीभाष्यम्-- विशिष्टाद्वैतम्
4.
श्रीमध्वाचार्य:
(1238 A.D ) – पूर्णप्रज्ञभाष्यम्
-- द्वैतम्
5.
श्रीनिम्बार्क: ( 13 उत्तरार्ध:) -- वेदान्तपारिजातम् -- द्वैताद्वैतम्
6.
श्रीकण्ठ: ( 1270
A.D) -- शैवभाष्यम्—शैवविशिष्टाद्वैतम्
7.
श्रीपति: ( 1400 A.D ) -- श्रीकरभाष्यम् --वीरशैवविशिष्टाद्वैतम्
8.
श्रीवल्लभ: ( 1479-1544 ) --अणुभाष्यम् -- शुद्धाद्वैतम्
9.
श्रीविज्ञानभिक्षु:
( 1600 A.D ) -- विज्ञानामृतम् --
अविभागाद्वैतम्
10.
श्रीबलदेव: ( 1725 A. D ) – गोविन्दभाष्यम्
-- अचिन्त्यभेदाभेद:
( Brahmasutradarshanam ( A Telugu work by Sri. Nori
Shrinathavenkatasomayajulu, Ramakrishna publications, 2, Raman street , T Nagar
Madras-600017 )
अद्वैतस्य वैशिष्ट्यम्
सर्वमातापेक्षया अद्वैते एकं महद्वैलक्षण्यमस्ति || तथा हि :- “ आत्मैवेदं सर्वम् ” ( छा* उ*
7-25-2 ) “ सर्वं खल्विदं ब्रह्म ” ( छा* उ* 3-14-1 ) “ नेह नानास्ति
किञ्चन ” (बृ*उ*4 – 4 -19 ) इत्यादि श्रुत्यर्थे पर्यालोच्यमाने उपनिषत्प्रतिपादित: सिद्धान्तस्तावदद्वैतमेवेति
प्रतिभाति || अत एव भगवत्पादप्रतिपादितस्याद्वैतसिद्धान्तस्य महानादरस्सञ्जात: ||
अपि च शाण्डिल्यभक्तिसूत्रे “ आत्मैकपरां बादरायण: “ ( सू* 30 ) इति
सूत्रेण बादरायणमतस्याद्वैते ऐदम्पर्यमुक्तं ज्ञायते ||
सौरसंहितायाम्— “द्वैतरूपं तु यद्वस्तु तदज्ञानविजृम्भितम्” इति
व्यतिरेकेणाद्वैतमेव प्रतिपादितम् ||
श्रीशंकरभगवत्पादानां परमगुरुभि: श्रीगौडपादाचार्यैरद्वैतमतस्य वैशिष्ट्यमेवं प्रकटितम् || तथा हि
:--
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता: दृढम् |
परस्परं विरुध्यन्ते तैरयं न विरुध्यते” इत्यादि ( माण्डूक्यकारिका iii-30 ) ||
भगवत्पादैरपि ‘
क्लेशाsनास्पदत्वात्सम्यग्दर्शनमित्यद्वैतदर्शनं स्तूयते इत्यद्वैतदर्शनस्य वैशिष्ट्यं
प्रकटितम् ( माण्डूक्यकारिकाभाष्यम् ) ||
किञ्च विद्यारण्यश्रीचरणै:
--
अहो शास्त्रमहोशास्त्रमहो गुरुरहो गुरु: |
अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् ||
इति
परमाश्चर्यकरमद्वैतं तस्यावाङ्मानसगोचर:
परमानन्दानुभव: फलमिति प्रतिपादितम् || अत एव वेदभाष्यप्रणेतारोsपि
विद्यारण्यश्रीचरणा: पूर्ववेदभागं सर्वं कर्मपरत्वेन व्याख्याय, उपनिषद्वाक्यानि
सर्वाण्यपि सिद्धब्रह्मपराणीति पञ्चदशीमुखेन प्रतिपादयामासु: ||
श्रीभगवत्पादविरचितस्य भाष्यस्य शारीरकमीमांसाभाष्यमिति नाम || शरीरमेव शरीरकं कुत्सितत्वात् || तन्निवासी अर्थात् शरीराभिमानी शारीरको जीव: || शारीरकस्य मीमांसा ब्रह्मत्वविचार: जीवो ब्रह्मैवेति विचार: शारीरकमीमांसा ||
श्रीभगवत्पादविरचितस्य भाष्यस्य शारीरकमीमांसाभाष्यमिति नाम || शरीरमेव शरीरकं कुत्सितत्वात् || तन्निवासी अर्थात् शरीराभिमानी शारीरको जीव: || शारीरकस्य मीमांसा ब्रह्मत्वविचार: जीवो ब्रह्मैवेति विचार: शारीरकमीमांसा ||
एतदद्वैततत्त्वं ऋग्वेदे एव बीजरुपेण संदृश्यते ||
तथा हि:-- “ एकं सद्विप्रा: बहुधा वदन्ति ” ( I-164-46) इत्यादि ऋक् अद्वैततत्त्वमेव प्रकटितवती दृश्यते || तत:
प्राचीनकालादारभ्यैव मानवमन: अद्वैते
लग्न: इति निस्संशयं वक्तुं प्रभवाम: || वेदस्तु कर्मप्रतिपादक: || कर्मण: उपासना,
उपासनातो ज्ञानमिति तेषां विकासे क्रम: || उपनिषद: उपासनाप्रतिपादिका:
ज्ञानप्रतिपादिकाश्च || उपासनाप्रतिपादकानामप्युपनिषद्वाक्यानां ज्ञाने एवान्तत:
तात्पर्यम् || तथा च कर्मोपासनासमनुष्ठानफलभूताssत्मतत्त्वविचारप्रतिपादनपरासूपनिषत्सु
“ नेह नानाsस्ति किञ्चन ” (कठ* उ* 4-11 ) इत्याद्या: श्रुतय:
अद्वैतभावमेव प्रकटयन्ति ||
उक्तञ्चात्रभवद्भि: भगवत्पादै: “ इष्यते च सर्वोपनिषदां
सर्वात्मैक्यप्रतिपादकत्वम्” इति ( माण्डूक्योपनिषद्भाष्यम् ) || एवञ्च
कर्मोपासनासंहितासु बीजरुपेणाविर्भूतोsद्वैतसिद्धान्त: उपनिषत्सु
भगवद्गीतादिग्रन्थेषु च विकासं प्राप्त: दृश्यते || बादरायणाचार्यै: उपनिषदर्थ एव
सूत्रेषु पुन: प्रतिपादित: || तदुक्तं भगवत्पादै: “ वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम्
|| वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते ” इत्यादि || ( ब्रह्मसूत्रशाङ्करभाष्यम्)
सूत्रेषु बादरायणाचार्यै: आश्मरथ्य: , औडुलोमि:,
कार्ष्णाजनि:, काशकृत्स्न:, जैमिनि: ,
बादरि: , आत्रेय: इति केषाञ्चनाचार्याणां
नामानि प्रकटितानि || तेषाञ्च सिद्धान्ता: “आर्षवेदान्त “ इति नाम्ना विद्वद्भि: व्यवह्रियन्ते ||
श्रीमद्भगवत्पादेभ्य:
पूर्वतनेष्वाचार्येषु सुन्दरपाण्ड्य: , द्रविडाचार्य:, ब्रह्मनन्दी,
भर्तृप्रपञ्च:, भर्तृहरि: , इत्याद्या: प्राधान्येन गणनीया: || अपि च श्रीमद्भगवत्पादपरमगुरुभि: गौडपादाचार्यै:
माड्णूक्योपनिषदर्थं विवरीकर्तुकामै: काश्चन कारिका: विरचिता: ||
तदुपरि भगवत्पादै: भाष्यं कृतम् || अपि च नैके
ग्रन्था: विरचिता: स्वातन्त्र्येण पथा || तेष्वद्वैतसिद्धान्त: सुदृढं प्रतिष्ठापित: || भगवत्पादानां कालस्तु
788—820 A.D इति चरित्रपरिशोधकानां
निर्णय: ( अद्वैत वेदान्तसाहित्येतिहासकोश: page -209 ) ||
भगवत्पादानन्तरमद्वैतसिद्धान्त:
भामतीवार्तिकविवरणप्रस्थानभेदेन त्रिधा विभक्त: तत्रापि प्राधान्येन द्विधा
भामतीविवरणप्रस्थानभेदेन || केषाञ्चन सिद्धान्तानां विषये भामतीविवरणमतयो:
भेदाभिप्राय एव प्रस्थानद्वयस्य हेतु: || तयो: प्रस्थानयो: मध्ये
सिद्धान्तपराभिप्रायभेदेषु सत्स्वपि उभयोरपि गम्यं
तावदद्वैतस्थापनमेवेत्यतोsद्वैतसिद्धान्तस्य भङ्गो न सञ्जात: ||
तत्रादौ भगवत्पादशिष्यै: सूत्रभाष्यतात्पर्यं
प्रपञ्चीकर्तुकामै: पञ्चपादिकाख्या व्याख्या विरचिता || परन्तु सेयं व्याख्या
केनचन दुष्टेन नाशिता चतुस्सूत्री मात्रावशिष्टा पुनरपि तैर्निर्मिता पञ्चपादानां
जाता || सर्वशास्त्रसंग्रहरूपाया: तस्या:
चतुस्सूत्रीरुपाया: विवरणं चक्रु: विवरणाचार्या: श्रीप्रकाशात्मश्रीचरणा: || इयञ्च
विवरणटीका पाण्डित्यपूर्णा , प्रामाणिकी , विवरणप्रस्थानस्य मूलभूता च विराजते ||
भगवत्पादशिष्यै: सुरेश्वराचार्यै: ‘ बृहदारण्यकभाष्यवार्तिकं’ , ‘ तैत्तिरीयोपनिषद्भाष्यवार्तिकं’ , ‘ नैष्कर्म्यसिद्धि:’ इत्यादि ग्रन्था: विरचिता: || एते
महानुभावा: वार्तिकप्रस्थानस्य मूलकर्तार: ||
अद्वैते भामतीनामकस्य तृतीयप्रस्थानस्य कारणभूता: वाचस्पतिमिश्रा:
|| वाचस्पतिमिश्रविरचिता भामती अनेकाभि: व्याख्योपव्याखाभि: समलङ्कृता
भामतीप्रस्थानस्य मूलभूता विराजते ||
प्रायश: अद्वैतसिद्धान्तप्रतिपादनपरा: पण्डिता:
भामत्या: अथवा विवरणस्य च व्याख्यानं कुर्वन्त: , तयोर्मार्गमनुसृत्य स्वातन्त्र्येण ग्रन्थान् विरचितवन्त: दृश्यन्ते
|| भामतीप्रस्थानग्रन्थेषु अखण्डानन्दसरस्वतीकृता ‘ऋजुप्रकाशिका’, अमलानन्दकृता कल्पतरु: , अल्ललसूरिकृतं ‘भामतीतिलकम्’, अच्युतकृष्णानन्दकृता ‘भावदीपिका’ च प्राधान्येन गणनीया: ||
कल्पतरो: व्याख्या परिमळाख्या अप्पय्यदीक्षितकृता
सुप्रसिद्धा || कल्पतरोरपरा व्याख्या आभोगाख्या लक्ष्मीनृसिंहकृताsतिनवीना
काचिदुपलभ्यते || एवमेव
भामतीमतमनुसृत्य विरचितेषु
स्वतन्त्रग्रन्थेषु अन्नंभट्टकृता “मिताक्षरा” अद्वैतानन्दसरस्वतीकृतं
ब्रहमविद्याभारणम् इत्याद्या: प्राधान्येन गणनीया: ||
एवमेव
विवरणप्रस्थानमनुसृत्य निर्मितेषु व्याख्यानेषु
अखण्डानन्दमुनिकृतं ‘ तत्त्वदीपनम् ‘ विष्णुभटटोपाध्यायकृतं ‘ ऋजुविवरणम् ‘ इत्याद्या: सुप्रसिद्धा: ||
स्वतन्त्रग्रन्थेषु तु अनुभूतिस्वरुपाचार्यकृतं ‘ प्रकटार्थविवरणम् ‘ विद्यारण्यकृत:
“ विवरणप्रमेयसंग्रह:” रामानन्दसरस्वतीकृत: “ विवरणोपन्यास: ” चातीव सुप्रसिद्धा: ||
ब्रह्मसूत्रभाष्यस्य आनन्दगिरिभि: न्यायनिर्णयाख्या
एका स्वतन्त्रा व्याख्या विरचिता || रत्नप्रभाकारै: “ वृद्धास्त्वेवमाहु: ” इति
वृद्धपदनिर्देशेन आनन्दगिरीयं मतं प्रदर्शितम् || ( रत्नप्रभा –page- 22 )
आनन्दगिरिकृता व्याख्या तावदतिविस्तृता, सुबोधा,
मूलतात्पर्यस्य सौलभ्येन बोधिका तत्र तत्र मीमांसान्यायानां विस्तरेण
लेखनादन्वर्थसंज्ञिका च || जगन्नाथाश्रमै: भाष्यदीपिकाख्या व्याख्या
ब्रह्मसूत्रशाङ्करभाष्यस्योपरि विरचिता || रत्नप्रभाकारै: टीकायोजनेति नाम्ना तेषां
व्याख्या परामृष्टा || ( आश्रमश्रीचरणास्तु टीकायोजनायामेवमाहु: --
रत्नप्रभा-page-20. ) || परन्तु तेषां व्याख्याग्रन्थ: संप्रति नोपलभ्यते ||
रत्नप्रभाव्याख्यानस्य वैशिष्ट्यम्
एवं बहव: ब्रह्मसूत्रभाष्यव्याख्यारूपा:
स्वतन्त्राश्च ग्रन्था: अद्वैत सिद्धान्तप्रपञ्चनाय, परिरक्षणाय च अनेकै:
असंख्याकाश्च विरचिता: दृश्यन्ते || तेषु भगवत्पादहृदयगतं भावं प्रकटीकर्तुंमनेकै:
प्रयत्न: कृत: || तेष्वन्यतमा: श्रीरामानन्दसरस्वतीमहाभागा: || तै: विरचिता
रत्नप्रभाख्या ब्रहमसूत्रभाष्यव्याख्याsद्वैतमतजिज्ञासुभि:
पण्डितप्रकाण्डैश्चाधीयमानाsध्याप्यमाना च वरीवर्ति || व्याखानेsस्मिन्
प्राचीनव्याख्यातृणां मतानि प्रस्तावितानि परामृष्टानि च ||
भगवत्पादहृदयदर्शिनीचेयं व्याख्या नाsतिविस्तृता सरळा सुबोधा च ||उक्तञ्च||
विस्तृतग्रन्थवीक्षायामलसं यस्य मानसं |
व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा || (र*प्र*page-2,sloka-6)
नानाविधग्रन्थजातं वीक्ष्य सम्यग्यथामति |
शारीरकस्य भाष्यस्य कृता व्याख्या सतां मुदे || (र*प्र* ग्रन्थान्ते )
भाष्यमेव रत्नं तस्य प्रभा भाष्यरत्नप्रभा || तथा च
भाष्यार्थप्रकाशकत्वादियं भाष्यरत्नप्रभेत्यन्वर्थसंज्ञिका || एते
रत्नप्रभाकारा: पञ्चपादिकाविवरणकारै:
विशेषेण प्रभाविता: || एवमेव
प्रकतार्थकाराणाम् अनुभूतिस्वरुपाचार्याणाम् प्रभावोsपि रत्नप्रभाकाराणाम् उपरि
महान् दृश्यते ||अत्र किञ्चिद्वक्तव्यमप्यस्ति || प्रकटार्थविवरणकारा: न केवलं
विवरणमतपक्षपातिन: किञ्च भामतीमतव्यतिरेकिणोsपि
|| तै: भामतीकारा: यथावकाशं विशेषेणाधिक्षिप्ता:|| (वाचस्पतिस्तु मण्डनपृष्ठसेवी --इत्यादि*
प्रकटार्थविवरणम् ) ||
भामतीव्याख्यातृभि: अमलानन्दपादै:
अनुभूतिस्वरुपाचार्यकृतानां सर्वेषामाक्षेपाणां समाधानमुक्तं तेषां नामानुक्त्वा || अनुभूति
स्वरुपाचार्यै: प्रभाविता: रत्नप्रभाकारा: “एतत्सूत्रभाष्यभावानभिज्ञा: सन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति” इत्यादिवाक्यै: भामतीकारान् विशेषेणाधिक्षिपन्ति (र*प्र*
3-4-48) ||
रत्नप्रभाकारै: स्वव्याख्याने पञ्चपादिकाविवरणं, भामती, न्यायनिर्णय:,
टीकायोजना, प्रकटार्थविवरणम् इत्यादि
ग्रन्थानां परामर्श: कृत: इति तान्सर्वान् सम्यक् परिशील्य रत्नप्रभां विरचितवन्त:
ग्रन्थकारा: इति प्रतिभाति ||
चतुस्सूत्रीभागस्य प्राधान्यम् :--
अस्मिन् शारीरकमीमांसाभाष्ये प्राधान्येन चतुस्सूत्रीभाष्ये
एव जिज्ञासुभि: विशेषपरिश्रम: क्रियते || अद्वैतसिद्धान्तप्रतिपादनदृष्ट्या
विचार्यमाणे चतुस्सूत्रीभागस्याधिकं प्राशस्त्यमस्ति ||
सर्वोप्युत्त्तरमीमांसाशास्त्रार्थ: चतुस्सूत्रीभाष्ये एव भगवत्पादै: संग्रहेण
प्रतिपादित: दृश्यते || अस्मिन् सर्वप्रथमत:
उपोद्घातरूपेण अध्यासभाष्यमुक्तम्
|| तस्मिन् अध्यासस्वरूपं विस्तरेण प्रदर्शितम् || ततो ख्यातिवादनिरुपणावसरे
मतान्तरनिरासपुरस्सरं
वेदान्तसम्मताsनिर्वचनीयख्याति: स्थापिता ||
“अथातो ब्रह्मजिज्ञासा” इति प्रथमसूत्रस्य भाष्ये ब्रहमजिज्ञासायामधिकारी, जिज्ञासाया: आवश्यकता,
ब्रह्मण: स्वरूपं, ज्ञानकर्मणो: व्यत्यास:, ब्रह्मण: सिद्धवस्तुत्वञ्चैवमादिविषया:
प्रतिपादिता: ||
“जन्माद्यस्य यत:” इति द्वितीयसूत्रस्य भाष्ये जिज्ञास्यत्वेन प्रतिपादितस्य ब्रह्मण: लक्षणमुक्तम्
|| तत्र ब्रह्मण: अभिन्ननिमित्तोपादानकारणत्वं शास्त्रेण प्रतिपादितम्, अनुमानेन
तस्य द्रढीकरणं कृतम् ||
“शास्त्रयोनित्वात्” इति तृतीये सूत्रे शास्त्रस्य योनि: शास्त्रयोनि:, शास्त्रं योनि: यस्य स:
शास्त्रयोनि: इत्यन्वयद्वयस्वीकारेण ब्रहमण: वेदकारणत्वं, वेदवेद्यत्वं च
प्रतिपादितम् ||
“ तत्तु समन्वयात् “ इति तुरीये सूत्रे ब्रहमप्रतिपादकोपनिषद्वाक्यानां क्रियाङ्गत्वमुपासनाङ्गत्वञ्च
निराकृतम् || ततो मोक्षस्वरूपं, मोक्षसाधनं, जीवन्मुक्तिस्वरूपञ्च प्रदर्शितम् || एवञ्चास्मिन् चतुस्सूत्रीभागे एव जगत् , ब्रह्म, मोक्ष: , मोक्षोपाय: , प्रमाणानि,
जीवन्मुक्ति: इत्यादि सिद्धान्तानां
प्रतिपादना संग्रहेण कृता || तदनन्तराध्यायेष्वेतेषां सिद्धान्तानां स्वरूपं समग्रेण प्रदर्शितमिति
अद्वैतसिद्धान्तस्य अवगाहनाय
चतुस्सूत्रीभागेनैवालमिति वक्तुं प्रभवाम: ||
अपि च चतुस्सूत्रीभागस्यायमपरो विशेष: यदस्मिन् भागे
प्रवृत्तानि चत्वारि सूत्राणि चतुर्णामधिकरणानां
मूलभूतानीति एकसूत्रात्मकानीमान्यधिकरणानि|| तदितराधिकरणानि तु बहुसूत्रात्मकानीति तदपेक्षया चतुस्सूत्त्रीभागस्य वैशिष्ट्यम् ||
तत: प्रायश: व्याख्यातृभिस्सर्वैरपि चतुस्सूत्रीभागे एव स्वपाण्डित्यप्रकर्ष: प्रदर्शित:
सिद्धान्तश्च समग्रतया प्रतिपादित: दृश्यते || रत्नप्रभाकारानामप्ययमेव पन्था: ||
किञ्च रत्नप्रभाया: व्याख्याद्वयमपि तावत्पर्यन्तमेव समुपलभ्यत इत्यस्माभि: चतुस्सूत्री भाग एव स्वीकृत: || तत्रादौ
रत्नप्रभाकर्तृत्वविषये विद्वल्लोके भिन्नाभिप्राया: संदृश्यन्ते इति प्रथमत:
रत्नप्रभाकर्तृत्वविचार: क्रियते||
***
***
No comments:
Post a Comment