सम्पूर्णा
विद्या षोडशकळापूर्णा भवेत्
डाक्टर्
.
चिलकमर्ति
दुर्गाप्रसादरावु
३/१०६,
प्रॆमनगर्,
दयालबाग,
आग्रा
२८२००५
चलद्वाणी
०९८९७९५९४२५
विद्या
मानवं जन्त्वन्तरेभ्य:
पृथकृत्य
तस्य विशिष्टं स्थानं कल्पयति
|
अत:
न
केवलमस्माकं देशे किन्तु
सर्वस्मिन्नपि विश्वे विद्याया:
समुन्नतं
स्थानमस्ति|
महाकविना
भर्तृहरिणाप्युक्तम्
'विद्या
नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं
धनं
विद्या
भॊगकरी यशस्सुखकरी विद्या
गुरूणां गुरु:
विद्या
बन्धुजनो विदॆशगमने विद्या
परा दॆवता
विद्या
राजसु पूज्यते न हि धनं
विद्याविहीन:
पशु:'
इति|
सम्पूर्णा
समग्रा च विद्या षोडशकळापूर्णा
भवति |
तत्कथमिति
विचारयाम:|
१.
विद्याया:
चत्वार:
स्तम्भा:
( १.
पितर:
२.
विद्यार्थी
३.
उपाध्याय:
४.
सर्वकार:)
विद्यासौधस्यास्य
चत्वार:
स्तम्भा:
सन्ति
|
.
(अ)
पितर:
प्रथम:
स्तम्भ:
माता
च पिता च पितरौ |
तौ
उभौ अपि बालकस्य अथवा बालिकाया:
गुरू
भवत:
| अत
एव शतपथब्राह्मणं “ मातृमान्
पितृमानाचार्यवान्पुरुषो
वेद''
इति
विद्याविषये मातापित्रो:
समुन्नतं
स्थानं कल्पयति|
अत:
स्वसन्तते:
विद्याभिवृद्धिविषये
ताभ्यां श्रद्धा विधॆया |
नो
चेत् तौ मातापितरौ एव न भवत:
केवलं
रिपू
एव भवत:
|
उक्तं
च हितोपदेशे|
तथा
हि :-
"
माता
शत्रु:
पिता
वैरी
येन
बालो न पाठित:
न
शोभते सभामध्ये
हंस
मध्ये बको यथा "
इति
अन्यच्च,
बाल्ये
बालकाय अथवा बालिकायै
स्वपितृभ्यां मातृभाषायां
या विद्या दत्ता भवति सा एव
विद्या तदनन्तरविद्याया:
आधारशिला
भवति इत्यत्र नास्ति सन्देह:
|
(आ)
विद्यार्थी
द्वितीय:
स्तम्भ:
बाल्ये
विद्यार्थी विद्यार्जनादृते
न किमप्यन्यं चिन्तयेत् |
विद्यार्जनं
नाम तप:
| तत:
विद्यार्जने
ये ये विघ्नकारका:
अंशा:
भवन्ति
ते सर्वे विना संकॊचं विद्यार्थिभि:
त्याज्या:
एव
भवन्ति |
'श्रद्धावान्
लभते ज्ञानम्'
इति
नियमेन य:
गुरुवाक्यॆषु
शास्त्रवाक्येषु च विश्वासं
प्रदर्शयति स एव उत्तमं
ज्ञानं लभते |
(इ)
उपाध्याय:
तृतीय:स्तम्भ:
ज्ञानसागरस्य
मूलश्रोत:
गुरुरिति
हेतो:
उपाध्याय:
सर्वेष्वपि
स्तम्भेषु अनुत्तम:
स्तम्भ:
भवति
|
अत:
" आचार्यवान्
पुरुषो वेद
"
इति
भारतीयसंस्कृतौ आचार्यस्य
सर्वोत्कृष्टं स्थानं
समुपकल्पितम् |
आचार्यस्य
त्रीणि लक्षणानि निर्दिष्टानि
सन्ति |
(१)
आचरति
इत्याचार्य:
| अर्थात्
य:
सदाचारं
पालयति स:
आचार्य:
भवति
|
(२)
आचारं
ग्राहयति इति आचार्य:
अर्थात्
य:
सदाचारं
शिष्येभ्य:
बोधयति
स:
आचर्य:
भवति
|
(३)
आचिनोति
अर्थान् इत्याचार्य:
अर्थात्
य:
विद्यार्थिनाम्
उपयोगाय सदा ज्ञानस्य संचयनं
करोति स:
आचार्य:
भवति
इति |
अत:
गुरुणा
सदैव विद्यार्थिनाम् श्रेय
:
मनसि
निधेयम् |
किन्तु
इदानीं केषांचन गुरूणां
प्रवृत्ति:
तद्विपरीता
चिन्ताकरी च वर्तते |
अत
एवोक्तं केनचन महानुभावेन|
"
ददाति
विद्यां न गुरुर्गरीयसीं
श्रुणॊति
छात्र:
न
पुनर्गुरोर्वच:
उभावपि
स्वार्थसमृद्धमानसौ
कथं
स्वदेशस्य समुन्नतिर्भवॆत्
?''
इति
|
अत:
सदा
गुरुभि:
अध्यापनरतै:
शिष्यप्रयोजनैकपरायणै:
च
भवितव्यम् |
(ई)
सर्वकार:
चतुर्थ:
स्तम्भ:
विद्यादानं,
प्रचारश्च
सर्वकारस्य कर्तव्यं भवति
|
पूर्वकाले
राजा एव विद्याव्याप्ते:
उत्तरदायित्वं
स्वीकुरुते (वहति)
स्म|
रघुवंशे
काळिदास:
दिलीपस्य
राज्यपालनविधानं वर्णयन्
एवं वदति |
"
प्रजानां
विनयाधानाद्रक्षणाद्भरणादपि
स
पिता पितरस्तासां केवलं
जन्महेतव:
”
इति
|
स
राजा दिलीप:
प्रजानां
शिक्षाया:
आधानात्
,
सन्मार्गप्रवर्तनात्,
आपन्निवारणात्
अन्नपानादिभि:
पोषणात्
स एव तेषां सर्वेषां पिता
अभवत् |
तॆषां
पितरस्तु केवलं जन्ममात्रकर्तार:
एव
अभूवन् |
तथा
च ज्ञानवितरणे सर्वकारस्योत्तरदायित्वं
महदस्ति |
किन्तु
इदानीं केषुचिद्राज्येषु
सर्वकार:
विद्यावितरणव्ययं
महान्तं भारं मनुते |
तेन
व्ययेन किं प्रयोजनम् ?
इत्यपि
चिन्तयति|
एतन्न
भाव्यम् |
कुत
इति चेत् एकस्य व्यक्ते:
उपरि
कृतस्य अथवा कारितस्य व्ययस्य
प्रतिफलम् अनुपदमेव लब्धुं
न शक्यते|
उदाहरणार्थं
वदाम:
| यदि
पिता स्वकीयबालकस्य पाठशालाया:
प्रॆषणसमये
एव '
एतॆन
व्ययेन मम प्रयोजनं किम् '
इति
चिन्तयति चेत् न कोSपि
लाभ:
भवति|
यदा
स:
बालक:
विद्यायां
पारंगतो भूत्वा कंचित् उपाधिं
लब्ध्वा पितरं प्रीणयति चॆत्
तदा एव पिता स्वॆन कृतस्य
विद्याव्ययस्य प्रतिफलमनुभवति
|
एवमेव
समाजविषयेSपि
|
एकस्य
समाजस्य कृते व्ययीकृतस्य
धनस्य फलम् उत्तरकालीनसमाजे
द्रष्टुं शक्यते |
अत:
सर्वकारेण
विद्याव्याप्तये कृतस्य
व्ययविषये संकुचितदृष्टि:
न
कदापि प्रदर्शनीया भवति |
२.
ज्ञानार्जनस्य
चत्वार:
उपाया:
( १.
श्रवणम्२.
चिन्तनम्
३.
चर्चा
४.
अनुभव:
)
यथा
विद्या सौधस्य चत्वार:
स्तम्भा:सन्ति
तथैव विद्यॊपार्जने चतुर्विधा:
उपाया:
भवन्ति|
तदुक्तं
शास्त्रकारै:
"
आचार्यात्पादमादत्ते
पादं
शिष्य:
स्वमेधया
पादं
सब्रह्मचारिभ्य:
पादं
कालक्रमेण च "
छात्र:
स्वस्य
उपाध्यायात् एकपादात्मकं
(१/४)
ज्ञानं
लभते|
अन्यं
पादं (१/४)
स्वमेधया
वर्धयति |
अपरं
पादं (१/४)
सहपाठकॆभ्य:
चर्चया
संपादयति |
तदनन्तरं
चतुर्थपादात्मकं ज्ञानं
स्वीयानुभवॆन प्राप्नोति|
तदा
एव तस्य ज्ञानं परिपूर्णतां
तनुतॆ|
३.
विद्या
चतुष्प्रकारा (१.
शारीरकविकास:२.
मनॊविकास:
३.
बुद्धिविकास:
४.
आध्यात्मिकविकास:)
विद्याया:
प्रयोजनं
तु सम्पूर्णमानवविकास:|
स
च विकास:
शारीरक:
, मानसिक:,
बौद्धिक:,
आध्यात्मिकश्च
भवति|
शारीरकविकासात्
मनोविकास:,
मनोविकासाद्बुद्धिविकास:,
तत:
आध्यात्मिकविकास:
इति
क्रम:|
वयं
शारीरकविकासार्थं पुत्रॆभ्य:
बलवर्धकान्
विविधान् पदर्थान् खादयाम:|
एवमेव
मानसिकविकासार्थं तेभ्य:
विनोदकार्यक्रमान्
दर्शयाम:
| तथैव
बुद्धिविकासार्थं शास्त्रीयविषयान्
पाठयाम:
| किन्तु
आध्यात्मिकविकासार्थं न
किमपि कर्तुं पारयाम:
वयम्
|
अत
एव ते विद्यावन्तोSपि
धीमन्तोSपि
नीतिमन्त:
न
भवन्ति |
अत:
तेषाम्
आध्यात्मिकविकासमपि अस्माकं
परमं ध्येयं भवेत् |
तदर्थं
तात्विकविषयान् तेभ्य:
श्रावयाम:,
बोधयाम:,
आध्यात्मिकचिन्तने
प्रीतिमुत्पादयाम:
च
|
तान्
लॊककल्याणकारिण:
निर्माय
लोकाय समर्पयाम:
|
४.
विद्याया:
चतस्र:
दशा:
( १.
अध्ययनम्
२.
अध्यापनम्
३.
आचरणम्
४प्रचारणम्)
विद्याय़ा:
चतस्र:
दशा:
सन्ति|
प्रथमम्
अध्ययनम् |
द्वितीयम्
अध्यापनम्
|
तृतीयम्
आचरणम् |
चतुर्थं
तु प्रचारणम् |
भट्टहर्ष:
नैषधकाव्ये
नलमहाराजस्य विद्यावैशारद्यं
वर्णयन् एवं वदति|
अधीतिबोधाचरणप्रचारणै:
दशाश्चतस्र:
प्रणयन्नुपाधिभि:
चतुर्दशत्वं
कृतवान् कुत:स्वयं
न
वेद्मि विद्यासु चतुर्दशस्वयम्
(२/४)
राजा
नल:
चतुर्दशविद्यानां
चतुर्दशत्वं समुपकल्पितवान्
|
तथा
च स:
चतुर्दशविद्या:
सम्यक्
अधीतवान् ,
सुनिपुणं
बोधितवान् ,
तासु
विद्यासु यानि यानि जीवनमूल्यानि
सन्ति तानि सर्वाणि स्वयं
सुष्ठु आचरितवान् ,
तदनन्तरं
तॆषां प्रचारणमपि कृतवान्
इति ज्ञायते|
एवं
चतुर्दशविद्यानां चतुर्दशत्वं
सम्पादितवान् |
तथा
च अस्माभि:
विद्या
अध्यॆतव्या,
अध्यापयितव्या,आचरितव्या
प्रसारयितव्या च भवति|
अत्र
ज्ञानं अध्ययनेन,
पाटवं
बोधनेन,
प्रयोजनम्
आचरणेन,
विकास:
प्रचारणेन
च सिध्यन्ति |
तथा
च समग्रा विद्या षोडशकलापूर्णा
भवॆत् इत्यलमतिविस्तरेण |
No comments:
Post a Comment