तदृतॆ
किं कर्तुं शक्नुयाम्?
डाक्टर्
. चिलकमर्ति
दुर्गाप्रसाद राव:
३/१०६,
प्रेमनगर,
दयालबाग,
आग्रा
२८२००५. उ.प्र
पूर्वकाले
एक: महाराज:
आसीत् |
स:
न केवलं राजा
| अपि
तु स: स्वयं
कवि: कविताप्रिय:
कविपोषकश्च
आसीत् | स:
स्वकीये
राज्ये एकं शासनमपि निर्मापितवान्
" मम
राज्ये न कोSपि
कवि: दुर्दशां
प्राप्नुयात् |
सर्वोSपि
सुखेन जीवेत् | यदि
य: कोSपि
याचनेन जीवनं यापयति चेत् स:
अवश्यं
दण्डनार्ह: भविष्यति
" इति
| तस्य
राज्ञ: कविताप्रियत्वं
विज्ञाय बहव: कवय:
नानादिग्भ्य:
दिगन्तरेभ्य:
च आगता:
राज्ञा
यथाकामं सम्मानिता:
च अभवन्|
एकदा
कश्चन कवि: राजदर्शनार्थम्
आगतवान् | परन्तु
तस्य राज्ञ: दर्शनं
न लब्धम् | आहारोSपि
न लब्ध: | निराहारत:
किं कर्तव्यतामूढो
भूत्वा याचनार्थं प्रवृत्त:
राजभटै:
निगृहीत:
च अभवत् |
भटा:
तं राज्ञ:
पुरत:
उपस्थाप्य
" हे
राजन् ! एष:
राजवीथ्यां
भिक्षां याचते स्म |
अतो दण्डनार्ह:
इति मत्वा
निगृहीत: भवतां
पुरत: आनीत:
च ” इत्युक्तवन्त:
| राजा तस्य
मुखं दृष्ट्वा उक्तवान् "
अयि भो!
भवान् दृढकाय:
सन्दृश्यते
| अंगवैकल्यम्
अपि नास्ति भवताम् |
किमर्थं
याचनावृत्तिमवलम्बसे?
किं लज्जा
नास्ति भवताम् ?”
इति पृष्टवान्
|
स:
अपि राजानं
नमस्कृत्य एवं समाधानं दत्तवान्
| हे
राजन्! अहं
वस्तुत: न
याचक: | किन्तु
महान् शिवभक्त:
अस्मि|
मम दुस्स्थितिं
पश्यतु कृपया|
- अर्धं दानववैरिणा गिरिजयाप्यर्धं हर्स्याहृतंदेवॆत्थं जगतीतले स्मरहराभावे समुन्मीलतिगंगा सगरमम्बरं शशिकला शेषश्च पृथ्वीतलंसर्वज्ञत्वमधीश्वरत्वमगम त्त्वां मां च भिक्षाटनम् |>>>
मम
प्रियदैवतस्य शिवस्य अर्धंभागं
भगवान् विष्णु:
स्वीकृत्य
गतवान् | स्वयं
हरिहरनाथ इति प्रसिद्धिं
प्राप्तवान्| शिष्टं
च अर्धभागं पार्वती स्वीकृत्य
गतवती| अर्धनारीश्वत्वं
प्राप्तवती | तत:
समस्तं च
विश्वं शिवरहितम् अभवत् |
तदा तम्
आधारीकृत्य निवसन्त:
सर्वे
निराधारा : च
अभवन् | गंगा
यथाकथंचित् सागरं प्राप्तवती
| चन्द्रकला
आकाशं गतवती | शेष:
भूलोकं
प्रविष्टवान् |
किं च
शिवाश्रिता: त्रय:
गुणा:
सन्ति |
ते च क्रमश:
सर्वज्ञत्वं
, अधीश्वरत्वं
भिक्षाटनं च | तेSपि
निराधारा : अभवन्
| किन्तु
तेषु आद्यौ द्वौ अर्थात्
सर्वज्ञत्वम् अधीश्वरत्वं
च भवन्तम् आश्रितवन्तौ |
किन्तु
अन्तिमो गण: (
भिक्षाटनम्)
निराश्रयं
माम् आश्रित्य तिष्ठति |
अहं किं
करोमि राजन् ! |
भवानेव
विचारयतु इति उक्तवान् |
तस्य महाकवे:
चतुरोक्त्या
नितरां सन्तुष्ट:
राजा अक्षरलक्षं
समर्प्य सम्मानितवान् |
इयन्तं
रुचिरार्थं स्वगर्भे
निक्षिप्तवन्तं तं श्लोकम्
एकवारं पठाम: |
No comments:
Post a Comment