Tuesday, October 21, 2025

A Study of Ratnaprabha – 32

                                                         A Study of Ratnaprabha – 32

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम् 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

                                                  समन्वयाधिकरणम् 

अस्मिन् समन्वयाधिकरणे 1.ब्रह्मण: शास्त्रप्रमाणकत्वे  भाट्टमीमांसकानां  पूर्वपक्ष:,

तत् खण्डनम् ;  2. वृत्तिकारपूर्वपक्ष:, तन्निरास: ; 3. प्राभाकरमीमांसकानां पूर्वपक्ष:, तन्निराकरणं;  4. मोक्षस्वरूपादिकं च विवृतानि भाष्यकारै: ||

{A} ब्रह्मनास्तिकत्वे तुल्येsपि भाट्टमते   सिद्धे पदानां शक्ति: , प्राभाकरमते कार्यान्विते शक्ति: ||

{B} कार्यान्विताsर्थे शक्तितौल्येsपि वृत्तिकारमते ब्रह्माsस्तित्वाsनङ्गीकारेण मतत्रैविध्यमिति विज्ञेयम् ||

                   मीमांसकेषु सांप्रदायद्वयं वर्तते || भाट्टसंप्रदाय: प्राभाकरसांप्रदायश्चेति || तत्र भाट्टा: अभिहितान्वयवादिन:, प्राभाकरास्त्वन्विताभि धानवादिनश्च || उभावपि कर्मप्राधान्यवादिनाविति कर्ममीमांसकावेव || पदेभ्य: प्रतिपन्नानां पदार्थानां संसृष्टपरस्परार्थान्वायबोधनमभिहितान्वयो नामेति विवरणाचार्य: (पञ्चपादिकाविवरणम्-page776) ||

एतन्मते प्रत्येकं तत्तदर्थेषु गृहीतशक्तिकान्येव  पदन्याकाङ्क्षादिसहकृतया तत्तत्पदाव्युत्पत्त्यैव शक्त्या लक्षणया वा परस्परान्वितं विशिष्टार्थं बोधयन्ति || विशिष्टार्थबोधनेsतिरिक्ताया: वाक्यशक्ते: अपेक्षा नास्तीत्यर्थ: || अयमेव वाक्यार्थबोध: शाब्दबोध: इति चोच्यते || किञ्च “ज्योतिष्ठोमेन स्वर्गकामो यजेत“ इत्यादौ तप्रत्यय: प्रकृत्यर्थोपरक्तां भावनामभिधत्ते इति

सिद्धे व्युत्पत्तिमिच्छतां भाट्टाचार्याणामभिप्राय: ||  

प्रकृते ब्रह्मण: शास्त्रयोनित्वविषये भाट्टा: पूर्वपक्षं             

कुर्वन्ति || तेषामभिप्राय: “कथं पुन: ब्रह्मण: शास्त्रयोनित्वमुपपद्यते” इत्यारभ्य “तस्मान्न ब्रह्मण: शास्त्रयोनित्वमित्यन्तम् “ अनूदितं भगवत्पादै: || तेषामभिप्रायसारांश: अस्माभि: प्रपञ्चीक्रियते ||

तथा हि :- ब्रह्मण: शास्त्रयोनित्वं नोपपद्यते || तथा हि :-

प्रवृत्तिनिवृत्तिपरं हि शास्त्रम् ||उक्तञ्च ||

“प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा

पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते” इति ||

तद्यथा :- “यजेत स्वर्गकाम:” “न कलञ्जं भक्षयेत्“ ”नाsनृतं वदेत् “ इति विधिप्रतिषेधात्मकं शास्त्रमुपलभ्यते || तन्निहित अर्थात् विधिसन्निहितार्थवादवाक्यानां विधिवाक्यैकवाक्यत्वं संपाद्य प्रामाण्यं निर्वाह्यते || “ स्वाध्यायोsध्येतव्य:” इति अध्ययनविधिगृहीतस्य सर्वस्याsपि वेदस्य प्रामाण्यमवश्यं संपादनीयम् || “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्”(जै .सू . 1-2-1) ||

तस्मादनित्य उच्यते “ इति जैमिनीयसूत्रम् || तस्याsयमर्थ: || अम्नायरूपवेदस्य क्रियार्थत्वात् = कार्यपरत्वात् ; अतदर्थानाम् = अक्रियाबोधकपदानां;

आनर्थक्यं = अप्रामाण्यं तस्मादनित्यत्वमुच्यते इति पूर्वपक्षसूत्रमिदम् || तत्र “ दृष्टो हि तस्यार्थ: कर्मावबोधानम् “ अर्थात्  तस्य = वेदस्य ,अर्थ: = प्रयोजनम् , यत्कर्मावबोधनम् = कर्तव्यबोधनमेव || एतदर्थबोधकशाबरभाष्यञ्च वेदस्य प्रवृत्तिनिवृत्ति परत्वमेव बोधयति || तत्र सिद्धान्तसूत्रम् ||     

  विधिनात्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्यु: (जै.सू *1-2-7) इति || एकवाक्यत्वात्   विधीनां विधेयानां स्तुत्यर्थेन विधिना = विधिवाक्येन एकवाक्यत्वात् = एकविषिष्टार्थबोधकत्वात् स्यु: अर्थवादा: सफला: स्यु: इति || तथा च अर्थवादानां विधेयस्तावकत्वेनैव प्रामाण्यं संपाद्यते || न तु संबन्धमन्तरेणार्थवादानां प्रामाण्यं संभवति || यथा “वायव्यं श्वेतमालभेत भूतिकाम: ” इति विधिवाक्य सन्निहितानां   “वायुर्वै क्षेपिष्ठा देवता”इत्यादीनामर्थवादानां विधिवाक्यैकवाक्यत्वं पूर्वपक्षगन्थे  भगवत्पादैरपि प्रदर्शितम् || एवं बर्हिषि रजतं न देयम् इति निषेधवाक्यसमीपस्थ  “सोsरोदीत्“,   “यदरोदीत्“ इत्यादिनिन्दार्थवाक्यानां  

निषेध्यनिन्दापरत्वेन प्रामाण्यं संपाद्यते || तथा च  “सत्यं ज्ञानमनन्तं ब्रह्म” “आत्मैवेदं सर्वम्” “ब्रह्मैवेदं सर्वम् “ नित्यं विज्ञानमानन्दं ब्रह्म “ “ तरति शोकमात्मा वित् “प्रज्ञानं ब्रह्म“ इत्यादि वेदान्तवाक्येषु पूर्वं वा परं वा  विधिर्नोपपद्यते || तथा च विधिसंबन्धविरहितानामेतेषां वेदान्तवाक्यानां प्रवृत्तिनिवृत्तिफलत्वाsभावात् केवलसिद्धबोधकत्वेन प्रामाण्यं न संभवति || अत: एतेषां वाक्यानां  प्रामाण्यसंपादनाय देह्न्द्रियसंघाता तिरिक्ताsत्मज्ञानं प्रवृत्तौ, निवृत्तौ च उपयुज्यते ||

तथाहि:- देह एव चेदात्मा आमुष्मिकफलप्रदकर्माणि न प्रवर्तन्ते || देहस्य नाशेन देहरूपात्मन: नष्टत्वात्  || कालान्तरभाविस्वर्गभोक्तृत्वं तस्य न संभवतीति तादृशकर्मसु न प्रवर्तेत || एवं कालान्तरभाविनरकदु: खप्रदनिषिद्धकर्मभ्य: न निवर्तेत ||

 अत: विहितकर्मप्रवृत्त्यर्थं, निषिद्धकर्मनिवत्त्यर्थं देहेन्द्रि यसंघाताsतिरिक्तस्याssत्मनो ज्ञानमावश्यकम् || तथा च आत्मा वा अरे द्रष्टव्य: “ इत्यत्र  आत्मा देहेन्द्रियातिरिक्तत्वेन द्रष्टव्य: इत्यर्थो वक्तव्य: ||

“ ब्रह्मविदाप्नोति परम् “ इत्यादिकं त्सावकं आत्मज्ञानं स्थावकमेवेति वक्तव्यम् || एवञ्च शस्त्रप्रमाणकत्वं ब्रह्मण: न संभवतीति प्राप्ते तत्समाधानार्थं “तत्तु समन्वयात् “ इति सूत्रम् ||        
----अनुवर्तते------
          

Monday, October 20, 2025

 

A Study of Ratnaprabha – 31

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO,

Bhasha praveena , Vedanta vidya Praveena,

M A (Sanskrit), M A (Telugu), M A (Philosophy)

 & Ph D (Sanskrit)

 

-: अधिकरणरचना :-  

                मोक्षसाधनीभूतब्रह्मज्ञानाय श्रवणात्मकवेदान्तविचार: कर्तव्य: इति प्रथमसूत्रेणोक्तम् |

द्वितीयसूत्रेण विचारणीयब्रह्मण: लक्षणादिकमुक्तम् || तस्य ब्रह्मण: जगत्कारणत्वेन अर्थानुलब्धं सर्वज्ञत्वं शास्त्र प्रमाणकत्वञ्च तृतीयसूत्रेणोक्तम् || तच्च शास्त्रप्रमाणकत्वं ब्रह्मण: कथमित्याशंकायां ब्रह्मप्रतिपादकै: वेदान्ताभिधैर्वेदभागै: ब्रह्म प्रतिपाद्यते इति वेदान्तानां समन्वय: कर्तव्य: इति तदर्थं समन्वयाधिकरणमारभ्यते ||

अस्याधिकरणस्य मूलभूतं सूत्रं तत्तु समन्वयात् इति || किन्तु तद्ब्रह्म वेदान्तात् स्वातन्त्र्येणैवावगम्यते न तु कर्तृ देवतादिप्रतिपादनद्वारा कर्मशेषतया उपासनाङ्गतया वा इति सूत्रस्याsस्य सारभूतोsर्थ: ||

सदेव सोम्य इदमग्र आसीत्” (छा.उ* 6.2.1)

सत्यं ज्ञानमनन्तं ब्रह्म (तै*उ-2.1.1.) इत्यादीनि विषयवाक्यानि ||

वेदान्तानि कर्तृदेवतादिप्रतिपादनद्वारा कर्माङ्गतया ब्रह्म प्रतिपादयन्ति उत स्वातन्त्र्येण  वा इति संशय: ||

वेदान्तानि साक्षाद्ब्रह्म न प्रतिपादयन्ति, तत्प्रतिपादने  पुरुषा र्थाsभावात् || किन्तु परम्परया कर्मापेक्षितकर्तृ देवतादिप्रकाशनार्थत्वेन ब्रह्म प्रतिपादयन्ति इति पूर्व पक्ष: ||

वेदान्तवाक्यानि कर्मकाण्डान्तर्भूतानि न भवन्ति, किन्तु तद्भिन्नान्येव || अपि च वेदान्तानि उपक्रमादिषड्विधलिङ्गै: ब्रह्मैव प्राधान्येन (तात्पर्येण ) प्रतिपादयन्ति || किञ्च तत्प्रतिपादनेनाsर्थनिवृत्तिरूपप्रयोजनस्य सत्त्वात् तन्न व्यर्थं भवतीति सिद्धान्त: ||

पूर्वसूत्रद्वितीयवर्णकेन (शास्त्रं योनि: यस्य शास्त्रयोनि: तस्मात् शास्त्रयोनित्वात् ) इति आक्षेपस्य सत्वादाक्षेपसंगति: ||

द्वितीयवर्णके कृत्स्नवेदान्तशास्त्रमधिकरणस्य विषय: ||

वेदान्तानि आत्मा वा अरे द्रष्टव्य: इत्यादीनि किमुपासना विधिं बोधयन्ति उत ब्रह्म साक्षात्कारे वा तेषां तात्पर्यमिति संशय: ||

आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् इति नियमेन कृत्स्नस्य वेदस्य विधिपरत्वात्, वेदान्तवाक्येष्वपि श्रोतव्यो  मन्तव्य: इत्यादि वाक्येषु च विधिदर्शनात् श्रोतव्य इत्यादि वाक्यानि उपासनाविधायकानि इति पूर्वपक्ष: ||

       यत् कर्त्रधीनं न भवति तस्मिन् विधिर्न संभवति ||

वेदान्तेषु दशम: त्वमसि इत्यादिसिद्धवस्तुबोधकान्यपि वाक्यानि सन्ति || शब्दबोधनात्प्राक् प्राप्तस्याsसंभावना विपरीतभावनयोर्निवृत्तये व्यापाररूपकर्तृतन्त्रं  मनननिदि ध्यासनानां विधानम् || परन्तु एतेषां तात्पर्यं सिद्धवस्तुनि ब्रह्मण्येव || तदुक्तं  लघुवार्तिके : -

न प्रतीचि ब्रह्म दृष्टिं विद्यते तत्त्वमादिके

नाप्युपास्ति विधेश्शेषं ब्रह्मात्मैक्यं प्रमापयेत्त् ||

इत्यादि  ( रत्नप्रभा -यतिवर श्री बोलेबाबा  विरचितेन भाष्यरत्नप्रभाभाष्यानुवादेन च समल्न्कृता  -page. 133) पूर्वाधिकरणमत्र प्रसंगसंगति: 

                                                           ...अनुवर्तते ....

 

Sunday, October 19, 2025

A Study of Ratnaprabha - 30

 

A Study of Ratnaprabha - 30

रत्नप्रभाविमर्श: 

षष्ठोऽध्यायः

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO,

Bhasha praveena , Vedanta vidya Praveena,

M A (Sanskrit), M A (Telugu), M A (Philosophy)

 & Ph D (Sanskrit)

 -: शास्त्रयोनित्वाधिकरणम् :- 

अथाsतो ब्रह्मजिज्ञासा इति प्रथमसूत्रेण ब्रह्मण: जिज्ञास्यत्वमुक्तम् || ततो जन्माद्यस्य यत: इति द्वितीयेन सूत्रेण जिज्ञास्यब्रह्मण: लक्षणं प्रदर्शितम् ||

तत्र जगत्कारणत्वेन ब्रह्मण: सर्वज्ञत्वमुक्तम् || ब्रह्मण: सर्वज्ञत्वं न केवलं जगत्कारणत्वेन , अपि तु वेदकर्तृत्वेनापि तत्संभावयितुमिदं शास्त्रयोनित्वाधिकरणमारब्धम्  ||

अथवा वेदानां नित्यत्वे ब्रह्मण: वेदकर्तृत्वाsभावात् सर्वज्ञत्वं न सिध्यति || अतो वेदहेतुत्वेनाsपि ब्रह्मण: सर्वज्ञत्वसाधनायेदमधिकरणमारब्धमिति रत्नप्रभा ||   

शास्त्रस्य योनि: शास्त्रयोनि: तस्माच्छास्त्रयोनित्वात्” || शास्त्रं योनि: यस्य स: शास्त्रयोनि:   तस्माच्छास्त्रयोनित्वात्” इत्यन्वयद्वयसहितमिदं सूत्रं वर्णकद्वयात्मकं सत्   ब्रह्मण: लक्षणपरत्वेन, प्रमाणपरत्वेन चान्वेति ||

अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदो सामवेदोह्यथर्वण: (बृहदारण्यकउपनिष २-४-१०) इति सूत्रस्यास्य विषयभूतं वाक्यम् ||

अत्र ब्रह्म वेदस्य कर्ता भवति वा न वा इति सन्देह: ||

“वाचा विरूपनित्यया”  इत्यादिश्रुत्या

अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा,

आदौ वेदमयी दिव्या यत: सर्वा: प्रवृत्तय:

इत्यादिस्मृत्या च श्रुतीनां (वेदानां) नित्यत्वात् न ब्रह्मण: वेदकर्तृत्वं, ततस्तस्य न सर्वज्ञत्वम् इति पूर्वपक्ष: ||

अस्य महतो भूतस्य इत्यादि श्रुत्या ब्रह्मण: वेदकारणत्वम् || यथा अप्रयत्नेनैव निश्वासकर्तृत्वं जीवस्य तथा वेदकर्तृत्वं ब्रह्मण: सर्वे वेदा: ब्रह्ममुखादाविर्भूता: इत्यर्थ: || तथा च एतादृशवेदकर्तृत्वं सर्वज्ञस्येश्वरस्य सिध्यत्येवेति सिद्धान्त: || अपि च पुर्वकल्पीयस्यैव वेदस्य ब्रह्मण: निश्वसितरूपेण प्रकटितत्वात् न वेदस्य नित्यत्वक्षति: ||  अत्र न केवलं जगत्कारणत्वेन किन्तु वेदकारणत्वेनाsपि ब्रह्मण: सर्वज्ञत्वम् ||

                                                          -: ब्रह्मण: वेदकारणत्वम् :--

ब्रह्मण: जगत्कारणत्वं पूर्वाधिकरणे निरूपितम् || इदानीं वेदकारणत्वं निरूप्यते ||

शास्त्रस्य योनि: शास्त्रयोनि: तस्माच्छास्त्रयोनित्वात् ||

अत्र शास्त्रपदेन वेदोsभिधीयते || ब्रह्म तावत् ऋग्वेदादि शास्त्रस्य कारणं भवति || वेदस्तु पुराणन्यायमीमांसाधर्मशास्त्रै:, शिक्षाकल्प व्याकरणछन्दोज्योतिषनिरुक्तादिषडङ्गै:  उपकृत: || अपि चायं वेद: वैदिकविषयाणां तथैव लौकिकविषयाणां चाssकर: || अतो ग्रन्थतोsर्थतश्चापि वेदो महानेव ||  किञ्च हितशासनात्तस्य शास्त्रत्वमुपपद्यते || तथा चाsयं वेद: सर्वार्थप्रकाशनशक्तिमान् || किन्तु सर्वार्थ प्रकाशनशक्तिमत्त्वेsपि  अचेतनत्वात् , बोधृत्वाsभावाच्च, सर्वज्ञाकल्पत्वमेवोपपद्यते वेदस्य || एतादृशमहत्वविशिष्टस्य  सर्वज्ञकल्पस्य  च वेदस्य कारणत्वेन ब्रह्मण: सर्वज्ञत्वम् ||

         अपि च लोके य: यत्करोति स: ततोsप्यधिकतरज्ञानवान् संदृश्यते || उपपद्यते हि किल रामायणप्रणेतु: वाल्मीके: ततोप्यधिकतरविज्ञानवत्त्वम् || एवमेवात्राsपि पूर्वोक्तगुणविशिष्टस्य सर्वज्ञकल्पस्य  वेदस्य कारणत्वेन ब्रह्मण: सर्वज्ञत्वमुपपन्नमेव || किञ्च  तादृशगुणविशिष्टं वेदं अप्रयत्नेन लीलयैव करोतीति ब्रह्मण: सर्वज्ञत्वम् ||

अत्रोक्तं भामत्याम् – देवर्षयो हि महापरिश्रमेण यत्राsशक्ता: तदीयमप्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्वज्ञत्वं, सर्वशक्तिमत्वं, चोक्तं भवति ||

उदयनाचार्यै: न्यायकुसुमाञ्जलौ ईश्वर: अनुमानेन साधित: ||

कार्यायोजनधृत्यादे: पदात् प्रत्ययत: श्रुते:

वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्यय:”

अत्र ‘श्रुते:’ इत्यनेन  वेदं प्रति कारणत्वमभिप्रेतम् ईश्वरस्य || श्रुतिरपि “अस्य महतो भूतस्य” इत्यादिवाक्यै:  ब्रह्मण: वेदकर्तृत्वं प्रतिपादयति ||

अत्रेयमाशङ्का || ब्रह्मण: वेदं प्रति कारणत्वे वेदानां नित्यत्वं कथमिति ||

किञ्च ब्रह्मण: वेदकर्तृत्वे वेदानामपौरुषेयत्वं कथमिति तस्या
sभिप्राय: ||

अत्रापौरुषेयत्वं   नाम किमिति विचारणीयम् || मीमांसका: “ वेदस्याध्ययनं सर्वं गुर्वध्ययन पूर्वकम” इयादि नियममनुसृत्य वेदस्याsनदित्वं मन्वते || ते सृष्टिप्रलयमनिच्छन्त: वेदाध्ययनं प्रति अस्मद्गुरुशिष्यपरंपरामविच्छिन्ना

मिच्छन्ति || वेदं चाsनादिमाचक्षन्ते || परम्पराया: अनादित्वात् वेदस्याप्यनादित्वम् || तेषां च मते अपौरुषेयत्वं नाम

                     पुरुषाsस्वातन्त्र्यमेव || वेदान्तिनास्तु “ धाता यथापूर्वमकल्पयत् ” इत्यादि श्रुतिभि: परमेश्वर: पूर्वकल्पीयं वेदं स्मृत्वा अनन्तरकल्पे कृतवानिति वदन्त: परमेश्वरस्यापि तेषु स्वातन्त्र्यं नास्तीत्यभ्युप गच्छन्ति || उक्तं च स्वयं गीतायाम् ||

“वेदैश्च सर्वैरहमेव वेद्य: वेदान्त कृद्वेदविदेव चाsहम्” इत्यादि  (भगवद्गीता-15/15) ||

अत्र ‘वेदान्तकृत्’ इत्यस्य वेदान्तार्थसंप्रदाय कृत् इत्यर्थ: || वेदवित् वेदार्थविदित्यर्थ: इति भाष्ये भगवत्पादा: || तथा च परमेश्वर: केवलं वेदस्य वेत्तैव न कर्तेति ज्ञायते || अपि च वेदस्याsपौरुषेयत्वविषये रत्नप्रभाकाराणा मयमभिप्राय: यत् “यत्र ह्यर्थज्ञानपूर्वकं वाक्यज्ञानं वास्यसृष्टौ कारणं तत्र पौरुषेयता || अत्र विचित्रगुणमायासहाय:

अनावृsतानन्तस्वप्रकाशचिन्मात्र: परमेश्वर: स्वकृतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वेदराशिं तदर्थांश्च युगपज्जानन्नेव करोतीति न पौरुषेयता वेदस्य || तथा च वेदोsपौरुषेय: एव ||

-: ब्रह्मण: वेदवेद्यत्वाम् :-

इदानीं सूत्रस्य द्वितीयेन वर्णकेन ब्रह्मण: शास्त्र प्रतिपाद्यत्वं साध्यते || तथा हि:-

शास्त्रं योनि: यस्य स: शास्त्रयोनि: तस्माच्छास्त्रयोनित्वात् ||

“तं त्वौपनिषदं पुरुषं पृच्छामि”(बृ.उ*3-9-26) इति श्रुतिवाक्यमत्र विषय: ||

ब्रह्म केवलं शास्त्रप्रमाणैरेव उत अन्यप्रमाणै रपि वा इति संशय: || घटवद् ब्रह्म प्रत्यक्षादि प्रमाणैरपि ज्ञातुं शक्यते इति पूर्वपक्ष: ||

रूपादिहीनं ब्रह्म प्रत्यक्षादिप्रमाणै: ज्ञातुं न शक्यते किन्तु केवलेन श्रुतिप्रमाणेन  इति सिद्धान्त: ||

ब्रह्म तावत् शास्त्रेणैव प्रमाणेन ज्ञातुं शक्यते न प्रत्यक्षेण रूपादिहीनत्वात् , नाsप्यनुमानेन                 

  सादृश्याभावाच्च || ब्रह्मण: प्रत्यक्षादि प्रमाणाsविषयत्वे “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” (तै.उ-2-4), “यन्मनसा न मनुते”

(क.उ*3-5) इत्यादि श्रुतय: प्रमाणम् || किञ्च

ब्रह्मणोsस्तित्वे किं प्रमाणमिति चेत् वेद एव प्रमाणम् || सर्वे वेदा: मुक्तकण्ठं परमेश्वरमेव प्रतिपादयन्तीति वेदवेद्यत्वं तस्य || उक्तञ्च गीतायाम्:- वेदैश्च सर्वैरहमेव वेद्य: (15/15) इतादि || अतो ब्रह्मण: वेदवेद्यत्वात् शास्त्रयो नित्वमुपपद्यते || तच्च शास्त्रयोनित्वं वेदान्त वाक्यसमन्वयेनैव गृह्यते इति समन्वयाधिकरणमारब्धं भगवत्पादै: ||

<><><> 

      ....अनुवर्तते ....

 

 

 

A Study of Ratnaprabha-Part-29

 

A Study of Ratnaprabha-Part-29

{Ratnaprabhaa vimarsha}

रत्नप्रभाविमर्श:

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

पञ्चमोऽध्यायः

-: जन्माद्यधिकरणम् :-

...गताङ्कादग्रे...

ब्रह्मण: स्वरुपलक्षणम्

सूत्रगत‘यत:’शब्देन ब्रह्मण: स्वरूपलक्षणमप्युच्यते || अत्र भगवत्पादैरप्युक्तं यत: इति कारणनिर्देश: इति || अत्र रत्नप्रभाकारै: “यच्छब्देन सत्यज्ञानमनन्तमानन्दरूपं वस्तूच्यते “आनन्दाद्धेव खल्विमानि भूतानि जायन्ते” (तै.उ*3.6) इति निर्णीतत्वात् , तथा च स्वरूपलक्षणमिति मन्तव्यम्” इति स्वरूपलक्षणं साधितम् || स्वरूपमेव लक्षणं                 

स्वरूपलक्षणम् || यथा सत्यज्ञानादिकं ब्रह्मण: स्वरूपलक्षणम् ||

        “सत्यं ज्ञानमनन्तं ब्रह्म” इति वाक्ये सत्यादिपदानि तद्विरुद्धार्थव्यावर्तकपराणि || न तु तेषां पदानां कस्यचिदनुवर्तमानस्य धर्मस्य प्रदर्शने तात्पर्यम् || तथा च सत्यज्ञानादि पदैरखण्डितमेव ब्रह्म प्रतिपाद्यते || सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति तत्सत्यम् || अत: सत्यं ब्रह्मेति ब्रह्म विकारान्निवर्तयति ||

अत: कारणत्वं प्राप्तं  ब्रह्मण: ||           कारणस्य च कारकत्वं वस्तुत्वा न्मृद्वदचिद्रूपता च प्राप्ता अत: इदमुच्यते ज्ञानं ब्रह्मेति || अत्र भावसाधनो ब्रह्मशब्द: न तु ज्ञानकर्तृ || तत: ज्ञानं ब्रह्मेति कर्तृत्वादिकारक निवृत्त्यर्थं मृदादिवदचिद्रूपता निवृत्त्यर्थं च प्रयुज्यते ||

ज्ञानं  ब्रह्मेति वचनात्प्राप्तम् अन्तवत्वं लौकिकज्ञानस्यान्तवत्त्वदर्शनात् || अत:

तन्निवृत्त्यर्थमनन्तपदम् || अन्त: परिच्छेद: अभाव: इति पर्याय: || अभावश्च त्रिविध: देशात:, कालात:, वस्तुतश्च || देशतोsभाव: अत्यन्ताsभाव: यथा घटस्य भूतलादौ , कालतो अभाव: प्रागभाव: , प्रध्वंसाभावश्च यथा घटादे: प्राक्काले, उत्तरकाले च अभाव: || वस्तुतो अभावश्च वस्तुप्रतियोगिकान्योन्याभव: यथा पटादौ घटस्य ||

तथा च प्रकृते ब्रह्मपदसमानाधिकरणेन अनन्त पदेन न विद्यते अन्तो यस्येति व्युत्पत्त्या ब्रह्मपदार्थस्य त्रिविधोप्यभावो व्यवच्छिद्यते || तत्र देशकृताsभावनिषेधेन ब्रह्मण: विभुत्वं लभ्यते || कालकृताभावनिषेधेन तस्य नित्यत्वं लभ्यते || वस्तुकृताsभावरूपभेदनिषेधेन तस्य सर्वजगदभिन्नत्वरूपं सर्वात्मकत्वं लभ्यते ||

ब्रह्म सकलजगत्कारणमपि निर्विकारम् ||

“ अशब्दमस्पर्शमरूपमव्ययम्” (क.उ-3-15) “ साक्षी चेता केवलो निर्गुणश्च” (श्वे. उ- 6-11) इत्यादिश्रुते: || पूर्णे वस्तुनि कयाsपि क्रियया, किमपि न परिवर्तनं संभवतीति तस्य निर्गुणत्व, निष्क्रियत्वविषये न काsपि विप्रतिपत्ति: || अपि च उपनिषद: “ तदेतद्ब्रह्माsपूर्वमनपरमबाह्यमनन्तरम्” (बृ.उ*2-5-19) इति  ब्रह्म वर्णयन्ति || अत्र ‘एतत्’ पदेन अपरोक्षत्वं , ‘अपूर्वम्’ इत्यनेन कारणशून्यत्वं, ‘अनपरम्’ इत्यनेन कार्यरहितत्वं, ‘अनन्तरम्’ इत्यनेन एकरसत्वं , ‘अबाह्यम्’ इत्यनेनाद्वितीयत्वं च ब्रह्मण: सिध्यन्तीति रत्नप्रभा (रत्नप्रभा – page 136)|| किञ्च भगवत्पादै: ब्रह्मण: नित्य, शुद्ध, बुद्ध, मुक्त, स्वभावत्वं ब्रह्मपदव्युत्पत्त्यैव सिध्यतीत्युक्तम् || तथा हि:- बृंहणात् ब्रह्म इति व्युत्पत्त्या देशकालवतुत: परिच्छेदाsभावरूपं नित्यत्वं प्रतीयते || अविद्यादिदोषशून्यत्वं शुद्धत्वम् ||

जाड्यराहित्यं बुद्धत्वम् || बन्धकालेsपि स्वतो बन्धाsभाव: मुक्तत्वं चेति व्याख्यातं रत्नप्रभायाम् ( रत्नप्रभा- page-8-87)||

ननु ब्रह्मण: तटस्थलक्षणं “यतो वा इमानि भूतानि जायन्ते” इत्यादि श्रुत्या उक्तं चेत्तर्हि स्वरुपलक्षणं किमिति शंकायामुच्यते ||

“ आनन्दाद्धेव खल्विमानि भूतानि जायन्ते, आनन्देन जातानि जीवन्ति, आनन्दं प्रत्यभिसंविशन्ति (तै.उ*3.6) इति ||

एतावता ब्रह्मण: स्वरुपतटस्थलक्षणकथनेन तस्य जिज्ञास्यत्वं चोपलभ्यते इतीदं जन्माद्यधिकरणम् ||

....अनुवर्तते ...

        <><><>