Wednesday, June 12, 2024
A Study of Ratnaprabha-Part-11 रत्नप्रभाविमर्श: (ख्यातिवादविमर्श: ) Dr. Ch. Durgaprasada Rao
A Study of Ratnaprabha-Part-11
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
ख्यातिवादविमर्श:
Dr. Ch. DurgaprasadaRao
गताङ्कादग्रे...
अध्यासस्वरुपनिरुपणे भगवत्पादै: अनिर्वचनीयख्याति: अङ्गीकृता ||
अनिर्वचनीयत्वं नाम सत्त्वाsसत्वाभ्यां वक्तुमशक्यत्वम् ||
प्रपञ्च: सद्रूप: चेत् ब्रह्म वदबाध्येत नित्य एव स्यात् इत्यर्थ; || असद्रूप: चेत् वन्ध्यापुत्रादिवदनुपलभ्येत || सदसदत्मकत्वन्तु विरुद्धम् || अतोsनिर्वचनीय: इत्युच्यते ||
शुक्तिरजतस्थले भ्रान्तिदृष्ट्या दृश्यमानं शुक्तिरजतं शुक्तिज्ञानेन बाध्यं भवति, शुक्तिज्ञानाभावदशायां भासते च ||
अत: सद्रूपं न भवति , असद्रूपं न भवति , सदसद्रूपञ्च न भवतीत्यनिर्वचनीयमेव ||
अत्र प्रधानतया ख्यातिपञ्चकं तान्त्रिकैरभ्युपगम्यते ||
1. आत्मख्याति: 2. असत्ख्याति: 3. अख्याति: 4 अन्यथाख्याति: 5. अनिर्वचनीयख्याति: इति ख्यातय: ||
1. योगाचारा: 2. माध्यमिका: 3. मीमांसका: 4. नैयायिका: 5. अद्वैतिन: - इति तत्प्रवक्तारश्च ||
अत्र प्रथमत: “अत्र केचिदन्यत्राsन्यधर्माध्यास:” इति अन्यथा ख्यातिवादिनामात्मख्यातिवादिनाञ्च मतं भगवत्पादै: प्रदर्शितम् ||
ख्याति: नाम प्रतीति: || अन्यथाख्याति: नाम अन्यस्य अन्यरूपेण प्रतीति: ||
अत्र केचित् = अन्यथाख्यातिवादिन:
अन्यत्र = शुक्त्यादौ
अन्यधर्मस्य = स्वावयवधर्मस्य देशान्तरस्थराजतादे: अध्यास: इति वदन्तीति रत्नप्रभाविवरणम् {14}||
अन्यथाख्यातिवादिनां तार्किकाणां , भाट्टमीमांसकानां च अयमाशय: यत् शुक्त्यादे: नैगनिग्येन कारणेन देशान्तर स्थरजतस्य शुक्तौ रजताकारेण प्रतीयमानत्वादन्यथाख्याति: ||
ततो भगवत्पादै: तं केचिदन्यत्रान्यधर्माध्यास: इत्यनेनैव वाक्येन आत्मख्यातिवादिनामपि मतं प्रदर्शितम् ||
अत्र रत्नप्रभा ||
अन्यत्र = बाह्ये शुक्त्यादौ
अन्यधर्मस्य = बुद्धिरुपात्मन: धर्मस्य (रजतस्य)
अध्यास: = अवभास: (इति) ||
बौद्धैकदेशिन: योगाचारा: आलयविज्ञानस्यात्मन: एव ख्याति: रजतादिरूपेण प्रतीतिरिति वदन्ति || तथा च बाह्ये शुक्तिशकले बुद्धिरुपात्मन: धर्मस्य रजताध्यास: अर्थात् आन्तरस्य रजतस्य बहिर्वदवभास: इति वदन्ति || अत्र आत्मन: बुद्धे: ख्याति: विषयरूपेण प्रतिभास: ते आत्मख्यातिवादिन: ||
प्राभाकरगुरुमतावलम्बिन: मीमांसका: विभ्रमज्ञानमनङ्गीकृत्याsख्यातिवादमातिष्ठन्ते || तेषाञ्च मतं “ केचत् यत्र यदध्यास: तद्विवेकाग्रहनिबन्ध्नो भ्रम:” इति भगवत्पादैरनूदितम् ||
अत्र रत्नप्रभाकारा: ||
यत्र = यदध्यासो लोकसिद्ध:
तयो: = तद्धियोश्च
भेदाsग्रहे सति तन्मूलो भ्रम: इदं रुप्यमिति विशिष्टव्यवहार: इति (16) ||
प्राभाकराणामयमाशय: यत् कुत्राsपि भ्रान्ति: नास्त्येव || सर्वविज्ञानं यथार्थमेव || एवमेव शुक्ताविदं रजतमित्यत्राsपि भ्रान्तिर्नास्त्येव || तत्र ज्ञानद्वयमङ्गीक्रियते || इदमित्याकारकम् अनुभवात्मक ज्ञानमेकं, रजतमित्याकारकं स्मरणात्मकज्ञानमपरम् ||
किन्तु तत्र इदमाकाररजताकारज्ञानयो: भेदज्ञानाभावेन राजतार्थी तत्र प्रवर्तते इति तेषां मतं प्रदर्शितं भगवत्पादै: ||
शून्यवादिनो बौद्धा: असत्ख्यातिवादमभ्युपगच्छन्ति || असत: शून्यतातत्त्वस्यैव ख्याति: राजतात्मना प्रतीति: असत्ख्यातिरित्यर्थ: ||
भाष्ये तु “ यत्र यदध्यास: तस्यैव विपरीत धर्मत्व कल्पनामाचक्षन्ते ” इति तेषां मतं प्रदर्शितं भगवत्पादै: || अत्र रत्नप्रभाकारा: ||
अन्ये = शून्यवादिनो बौद्धा:
तस्यैव = अधिष्ठानस्य शुक्त्यादे:
विपरीत = विरुद्ध: धर्मो यस्य तद्भाव:
तस्य धर्मत्वकल्पनां = रजतादे: अत्यन्तासत: कल्पनामाचक्षन्ते इति ||
बुद्धशिष्यास्तु चत्वार: वैभाषिका: , योगाचारा: , सौत्रान्तिका:, माध्यमिकाश्च || तेषु वैभाषिकाणां मते बाह्यं वस्तु सत् तत्प्रत्यक्षम् || सौत्रान्तिकानां मते बाह्यं वस्तु सदपि न प्रत्यक्षम् || योगाचाराणां मते विज्ञानस्यैव सत्त्वं तदतिरिक्तस्य सर्वस्याsसत्वम् || तथा च त्रयाणामपि मते विज्ञानधर्मस्य रजतस्य शुक्तिकायां समारोप: इति त्रयस्ते आत्मख्यातिवादिन: एव || शून्यवादी माध्यमिकस्तु शून्यतातत्वमेव सर्वं शून्यतातत्त्वमेव सदिवावभासते इत्यभ्युपगच्छति || अत्र शून्यतातत्त्वमेव राजताकारेण प्रतीयमान त्वादियमसत्ख्याति: ||
.... अनुवर्तते ....(To be continued)
Sunday, June 9, 2024
A Study of Ratnaprabha-Part-10 रत्नप्रभाविमर्शे तृतीयोsध्याय: अध्यास:(superimposition) Dr. Ch. DurgaprasadaRao
A Study of Ratnaprabha-Part-10
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
अध्यास:(superimposition)
Dr. Ch. DurgaprasadaRao
गताङ्कादग्रे...
अत्रायमभिप्राय: ||
यत्र यद्वस्त्वस्तीति भासते तत्रैव तद्वस्तु नाsस्तीत्युच्यते || लोके हि “घटवद्भूतलम्” इत्यत्र यस्मिन् भूतले घटोsस्तीति प्रतीयते तस्मिन्नेव घटाधिकरणे घटो नास्तीति प्रतीति: न भवति, अनुभवविरुद्धत्वात् ||
अत्राध्यासस्थले तु “इदं रजतम्” इति रजतत्वेन प्रतीयमाने शुक्तिशकले सहस्रजनानुभवविषयत्वेsपि परमार्थत: तत्र रजतस्याsभावात् स्वाsत्यन्ताभाववत्यव भास्यत्वमस्त्येव ||
एवञ्च एकावच्छेदेन = आत्मत्वावच्छेदेन ; स्वाsत्यन्ताभाववति = जीवत्वेश्वरत्व जगदात्मक – दृश्यात्यन्ताभाववति; आत्मनि (ब्रह्मणि ) वस्तुत: स्वात्यन्ताभाववति = पारमार्थिकत्वावच्छिन्नप्रतियोगिताक दृश्यात्यन्ताभाववति, अवभास्यत्वं = जीवत्वेश्वरत्वजगदात्मकदृश्ये लक्ष्यमाणत्वाल्लक्षणसमन्वय: ||
एवं ‘स्वयमहम्’ इत्यत्र स्वयन्त्वावच्छेदेन प्रत्यगात्मनि कूटस्थेsहङ्कारादे: संसर्गकाले तदत्यन्ताभावस्य सत्वात् कूटस्थकल्पिताहङ्कारार्थरुपाध्यासे लक्ष्ये लक्षणसमन्वय: ||
नैयायिकास्तु कपिसंयोगी वृक्ष: मूले न इति प्रतीत्या अग्रदेशे कपिसंयोग: वर्तते मूलदेशे नास्तीति कपिसंयोगाधिकारणाभावे वृक्षे कपिसंयोगस्य सत्त्वमङ्गीकुर्वन्ति || किञ्च घटापसरणानन्तरं घटो नास्तीति घटाधिकरणे एव प्रतीतिमभ्युपगच्छन्ति ||
वेदान्तिनस्तु न तथा || यस्मिन् काले यदवच्छेदेन यद्यस्मिन् प्रतीयते तस्मिन् काले तदवच्छेदेन तत्तत्र नास्तीत्येवेति सर्वथा तत्र परमार्थत: असत्वमेवाभ्युपगच्छन्ति ||
अत्र भावाभावयोरेकत्र सत्वाङ्गीकारे अनुभव विरोध: इति पूर्वपक्षे प्राप्ते मिथ्यात्ववादिनामेतादृशविरोधस्त्वलंकार एवेति समाधनमुक्तम् (10) || तथा च सर्वलक्षणविलक्षणमेव एतदध्यास लक्षणमित्यवश्यमभ्युपगन्तव्यम् ||
एतदध्यासनिष्कृष्टलक्षणम व्याप्त्यतिव्याप्त्यसंभवदोषनिवृत्तिपूर्वकं पुर्णानन्दीये विस्तरेण निरुपितम् ||
भगवत्पादै: अध्यासनिरुपणे “अहमिदम्”, “ममेदम्” इति उदाहरणद्वयं प्रदर्शितम् ||
अध्यात्मिककार्याध्यासेषु अहमिति प्रथमोsध्यास: || अत्र अहमित्यनेन मनुष्योsहम् इति तादात्म्याध्यासो दर्शित: || ममेदम् इत्यत्र ममेदं शरीरमिति संसर्गाध्यास: इति रत्नप्रभाकारा: (11) ||
अत्र तादात्म्यसंसर्गयो: को भेद: इत्याशंकायां सतैक्ये सति मिथो भेद: तादात्म्यम् इति तादात्म्यस्वरुप: प्रदर्शित: रत्नप्रभायाम् ||
तथा चाद्वैतेsवश्यं ज्ञातव्यमेतद्यत्तादात्म्याध्यास इत्युक्तौ द्वयोर्वस्तुनो: सतो: एकस्मिन् वस्तुनि अपरवस्त्वात्मना ग्रहणम् इति न वक्तव्यम् || तथा चेत् अद्वैतव्याघात:|| शुक्तिरजताध्यासे शुक्तिरजतयो: सतो: शुक्तिशकले रजताध्यास: इति न वक्तव्यम् || परन्तु शुक्तिशकलमेव तूलाsज्ञानेनावृतं सत् राजतात्मना भासते इति वक्तव्यम् || तथा भानमेव तादात्म्याध्यास: इत्युच्यते || अत एव भगवत्पादै: ‘शुक्तिका हि रजतवदवभासते, एकश्चन्द्र: सद्वितीयवत् ’ इति अध्यास द्वयं दृष्टान्तत्वेनाsभिहितम् (12)||
तत्र शुक्तिशकलं राजतात्मना भासते इति अन्यस्य वस्तुन: अन्यवस्त्वात्मना भाने दृष्टान्त: || एकस्य वस्तुन: अनेक वस्त्वात्मना भाने तु ‘एकश्चन्द्र: सद्वितीयवत्’ इति दृष्टान्त: ||
प्रकृते अत्माधिष्ठानभ्रमाध्यासे दृ ष्टान्तद्वयमनुकूलमेव || मूलाज्ञानेनावृतं परमात्मतत्त्वं जीवेश्वरजगदात्मना भासते , अन्यवस्त्वात्मना भासते , अनेकवस्त्वात्मना भासते || तथा च सर्वैरपि ज्ञानिभि: अज्ञानिभिश्च ब्रह्मतत्त्वमेव दृश्यते || ज्ञानिभिस्तु सर्वं ब्रह्मात्मना दृश्यते, अज्ञानिभिस्तु जीवेश्वरजगदात्मना दृश्यते ||
अत्र नित्यजीवने अनुभवसिद्धा: केचन अध्यासा: प्रदर्श्यन्ते ||
1. शुक्तौ रजताध्यास:
2. रज्ज्व्यां सर्पाध्यास:
3. स्थाणौ पुरुषाध्यास:
4. सर्पे रज्ज्वध्यास:
5. पुरुषे स्थाण्वध्यास:
6. समुद्रतरङ्गे नीलशिलात्वाध्यास:
7. गुञ्जापुञ्जे मर्कटादीनामग्नित्वाध्यास:
8. नीरूपे आकाशे नीलत्वाध्यास: , कटाहाकाराध्यासश्च
9. नयनारश्मिषु केशोण्ड्रकाध्यास:
10. काविलादिदोषेण शुक्ले शंखे पीतत्वाध्यास:
11. मण्डूकवसाञ्जनादिदोषेण वेणुदण्डेषु सर्पत्वाध्यास:
12. जपाकुसुमसन्निधौ शुद्धे स्फटिके लोहितत्वाध्यास:
13. कर्तरिसंस्कारसंस्कृते पटे पुण्डरीक मुकुलत्वाध्यास:
14. जले नीलत्वाध्यास: || इत्येवमादय: दृष्टान्ता: प्रदर्शनीया: भवन्ति ||
<><><>
....अनुवर्तते....
Friday, June 7, 2024
A Study of Ratnaprabha-Part-9 . अध्यास: (superimposition) Dr. Ch. DurgaprasadaRao.
A Study of Ratnaprabha-Part-9
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
अध्यास:(superimposition)
Dr. Ch. DurgaprasadaRao.
अत्र लक्षणपरभाष्यं, संभावनापरभाष्यं, प्रमाणपरभाष्यं चेत्यध्यासभाष्यं त्रिधा विभक्तम् || तथा हि:- आह कोsयमध्यासो नाम एत्यारभ्य “एवमविरुद्ध: प्रत्यगात्मन्यनात्माध्यास:” इत्यन्तं संभावनापरभाष्यं , तमेतमविद्याख्यम् इत्यारभ्य सर्वलोकप्रत्यक्ष: इत्यन्तं प्रमाणपरभाष्यं चेति विज्ञेयम् ||
तत्रादौ पूर्वपक्षी “कोsयमध्यासो नाम?”
इति वाक्येनाध्यासलक्षणं किमिति पृच्छति || अस्य शास्त्रस्य तत्त्वनिर्णयप्रधानत्वेन वादकथात्वद्योतनार्थमाहेति परोक्ति: इति रत्नप्रभाकारा: ( रत्नप्रभा- page- 40)
सिद्धान्ते तु भगवत्पादै: “ स्मृतिरूप: परत्र पूर्वदृष्टावभास:” इत्यध्यासलक्षणं प्रदर्शितम् (ब्र.सू.शां.भा-p. 45) ||
एतद्व्याख्यानावसरे रत्नप्रभाकारै: “ अत्र परत्र अवभास:” इत्येव लक्षणम्, शिष्टं पदद्वयं ददुपपादनार्थमित्युक्तम् (7) तत्र परत्र = शुक्तिशकलादौ, अवभास: = परस्य रजतस्यावभास: || एकस्मिन् वस्तुनि अन्यवस्त्वात्मकवृत्तिरेवाध्यास: इत्युक्तं भवति || दृष्टं = दर्शनं , पूर्वानुभव:, पूर्वानुभवजन्य: संस्कारजन्य: इत्युक्तं भवति || तथा च पूर्वदर्शनादवभास्यते इति पूर्वदृष्टावभास: || स्मृतिरुप: इत्यत्र स्मर्यते इति स्मृति: (सत्यरजतादि) स्मृते: रुपमिव रूपं यस्य स: स्मृतिरूप: इत्यर्थस्वीकारेण स्मर्यमाणसदृश: इत्यर्थ; फलति ||
सिद्धान्ते तु भगवत्पादै: स्मृतिरूप: परत्र पूर्व दृष्टावभास: इत्यध्यासलक्षणं प्रदर्शितम् || (ब्रह्मसूत्रशांकरभाष्यम्-page-45)
एतद्व्याख्यानावसरे रत्नप्रभाकारै: अत्र परत्र अवभास: इत्येव लक्षणं शिष्टं पदद्वयं तदुपपादनर्थमित्युक्तम् ( रत्नप्रभा-page – 41)|| तत्र परत्र = शुक्तिशकलादौ अवभास: = परस्य रजतस्यावभास:|| एकस्मिन् वस्तुनि अन्यवस्त्वात्मकवृत्तिरेवाध्यास: इत्युक्तं भवति || दृष्टं दर्शनं पूर्वानुभव: , पूर्वानुभवजन्य: संस्कारजन्य: इत्युक्त: भवति || तथा च पूर्वदर्शनादवभास्यते इति पूर्व दृष्टावभास: || स्मृतिरूप: इत्यत्र स्मर्यते इति स्मृति: (सत्यरजतादि:) ||
स्मृते: रुपमिव रूपं यस्य स: इत्यर्थस्वीकारेण स्मर्यमाणसदृश: इत्यर्थ: फलति || एवञ्च प्रपञ्चभ्रमोsपि पूर्वप्रपाञ्चानुभव जन्यसंस्काराधीन: पूर्वप्रपञ्चसदृश: सततं प्रवाहरुपेणानुवर्तते इति विवृतम् ||
अयमध्यास: साद्यनादिभेदेन द्विविध: || अत्र सादित्वं जन्यत्वमनादित्वमजन्यत्वाम् || अहङ्काराध्यास: सादि: , अविद्याचितो रध्यासोsनादि: || अत्र द्वितीयस्यानादित्वे
“जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा
अविद्या तच्चितोर्योग: षडस्माकमनादय:”
इत्यभियुक्तोक्ति: प्रमाणम् ||
अत्र साद्यनाद्यध्याससाधारणलक्षणन्त्वेवमुक्तं रत्नप्रभाकारै: ||
“एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ता भाववत्यवभास्यत्वमध्यस्तत्वम्” इति (8)|| अस्य लक्षणस्य समन्वयप्रकारश्चेत्थमुक्तम् ||
तथा हि :- राजताध्यासे एकावच्छेदेन = इदन्त्वावच्छेदेन , स्वसंसृज्यमाने = अत्र स्वपदम् अध्यासर्वेनाभिहितवस्तुपरं, तच्च रजतं, आरोपरजतेन स्वसंसृज्यमाने शुक्ति शकले , वस्तुत: स्वाsत्यन्ताभाववति = पारमार्थिकावच्छिन्नप्रतियोगिताकराजताs भाववति अवभास्यत्वम् इदं रजतम् इति भासमानत्वं राजतेsस्तीति लक्षण समन्वय: || .....अनुवर्तते......
Subscribe to:
Posts (Atom)