Thursday, May 21, 2015

A Study of Ratnaprabha- part-4 ( Advaita Vedanta)


A Study of Ratnaprabha- part-4 
(Advaita Vedanta)
द्वितीयोsध्यायः
(रत्नप्रभाव्याख्यानोपव्याख्यानानि)
1. रत्नप्रभाकार: रामानन्द: 
रत्नप्रभायां तत्कर्तु: नाम न कुत्रापि निर्दिष्टम् || किन्तु परम्परागतोsमभिप्राय: यद्ररत्नप्रभाकारा: गोविन्दानन्दसरस्वतीमहाभागा: इति || प्रायश: सर्वाण्यपि हस्तलिखितपुस्तकानि गोविन्दानन्दकर्तृत्वमेव प्रदर्शयन्ति रत्नप्रभाया: || तथाहि:-- ब्रह्मसूत्रभाष्यव्याख्या गोविन्दानन्दसरस्वतीकृता   इत्यादि || (1)
अपि च रत्नप्रभाव्याख्यानान्ते ग्रन्थान्तगद्यमेवं प्रकारेण संदृश्यते || तथाहि:-- इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोपालसरस्वतीपूज्यपादशिष्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकमीमांसाव्याख्यायां रत्नप्रभायाम् इत्यादि || (2)
प्रायश: तादृशं ग्रन्थान्तगद्यमनुसरद्भि: आचार्य सर्वेपल्लि   राधाकृष्णन् (3), आचार्यदासगुप्तप्रभृतिभि: (4) दर्शनशास्त्रचारित्रकै: गोविन्दानन्दकर्तृत्वमेवाभिप्रेतं रत्नप्रभाया: || एवमेव श्री T.R सुब्रह्मण्य महाभागै: (5), श्रीराजन्नशास्त्रिमहोदयैश्च (6) गोविन्दानन्दकृतित्वेनैवाभिमता रत्नप्रभा || एवञ्चान्यैरपि बहुभिर्विमर्शकैश्चारित्रकैश्च गोविन्दानन्दकृतित्वमेवाभिप्रेतं रत्नप्रभाया: ||
परन्तु सम्यक्परिशीलितायां रत्नप्रभायां  विचार्यमाणेषु च ग्रन्थान्तरेषु रत्नप्रभाप्रणेता गोविन्दानन्दसरस्वतीभ्योsन्य: इति स च रामानन्दसरस्वतिरिति च ज्ञायते || एतदधिकृत्य श्री P.P. सुब्रह्मण्यशास्त्रिभि: काश्चनोपपत्तय: प्रदर्शिता: (7)  || एवमेवाद्वैतग्रन्थकोशस्य उपोद्घातेsपि काश्चनोपपत्तय: प्रदर्शिता: || इहास्माभिरपि काश्चनोपपत्तय: प्रदर्श्यन्ते ||
1.             रत्नप्रभायामयं श्लोक: दृश्यते
कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याभिपूज्य
श्रीगौरीनायकाभित्प्रकटितशिवरामार्यलब्धात्मबोधै:
श्रीमद्गोपालगीर्भि:प्रकटितपरमाद्वैतभासास्मितस्य
श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोsहं यथाsळि:  (8)    
 अत्र श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोsहं यथाsळि: (9) इति ग्रन्थकृत्प्रार्थनया रत्नप्रभाकारा: गोविन्दानन्दसरस्वत्य: न भवितुमर्हन्तीति तेषामन्तेवासिना केनाप्यन्येन रत्नप्रभाकर्तृत्वेन भवितव्यमिति च स्पष्टम् ||  अत्र गुरुपरंपरायां ग्रन्थकारै: परमेष्ठिगुरुत्वेन शिवरामार्या: , परमगुरुत्वेन गोपालसरस्वत्य: गुरुत्वेन गोविन्दानन्दसरस्वत्य: प्रस्तुता: इति तेभ्यो भिन्ना: एव रत्नप्रभाकारा: इति वक्तव्यम् ||
2. अपि च रत्नप्रभायामिदं वाक्यमस्ति || तथाहि :-- विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासेन दर्शित: सुखबोधाय इतीहोपरम्यते (10) इति || वाक्यमिदं रत्नप्रभाविवरणोपन्यासयोरेककर्तृकत्वं सूचयति || विवरणोपन्यासश्च रामानन्दकृतित्वेन प्रसिद्धिं गत: || अतस्त एव रत्नप्रभाकर्तारोsपि  भवन्ति इति वक्तुं शक्यते || किञ्च रत्नप्रभायामादौ रामस्तुति: कृता || (11) एवमेव विवरणोपन्यासेsपि  राम एव प्रस्तुत: || (12) अपि च ग्रन्थयो: द्वयो: कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याभिपूज्य--- इत्यादि श्लोक: दृश्यते || (13) तथा च ग्रन्थयोरुभयो:  कृता रामस्तुति: कामाक्षीत्यादि श्लोकश्च तयोरेककर्तृकत्वं द्रढयति || विवरणोपन्यासग्रन्थस्य संपादकै: श्री दामोदरशास्त्रि सहस्रबुद्धिमहाभागै: अत्र कामाक्षीत्यादि श्लोक: असंबद्ध: इति प्रतिभाति इत्युक्तम् || परन्तु तैरसंबद्ध कारणानि न प्रदर्शितानि (14) ||
3.    रत्नप्रभाया: एका व्याख्या अभिव्यक्ताख्या पूर्णानन्दसरस्वतीकृता  विराजते या च पुन: पूर्णानन्दीयमिति प्रसिद्धिं गता || तत्रादौ श्रीमच्छारीरकं भाष्यं व्याचिख्यासु: श्रीरामानन्दाचार्य: इत्याद्युक्तं ग्रन्थकारै: || (15) || अपि च समन्वयभाष्यव्याख्यानविवरणे कार्यान्तरं मध्ये न भातीति रामानन्दीयपाठान्तरमत्र समीचीनम् इत्युक्तम् || यथा च वाक्यद्वयेनानेन रत्नप्रभानिर्मातार: रामानन्दा: एवेति निश्चयेन वक्तुं शक्यते ||
4. अपि च रत्नप्रभाया: अपरा व्याख्या भागदीपिकाख्या अच्युतकृष्णानन्दविरचिता काचित्समुपलभ्यते || तद्व्याख्यानान्ते श्रीमत्स्वयंप्रकाशानन्दसरस्वतीशिष्याच्युतकृष्णानन्दतीर्थस्य कृतौ भाष्य रत्नप्रभायामीक्षत्यधिकरणं समाप्तम् || रामानन्दीयस्याच्युतकुष्णानन्दीयं समाप्तम् इत्येवं रूपेण लिखितमस्ति || (17) ||
एतेनेदं ज्ञायते यद्रत्नप्रभाकारा: रामानन्दा एवेति || अत्रास्माभि:  किञ्चिद्वक्तव्यमप्यस्ति || अभिव्यक्तकारा: पूर्णानन्दा: ब्रह्मविद्याभारणकाराणामद्वैतसरस्वतीनां शिष्या: इति उक्तमस्मद्गुरुभि: ब्रहमविद्याभरणे इत्यनेकश: उक्तत्वादवगम्यते || (17) || अद्वैतानन्दसरस्वतयस्तु रामानन्दसकाशाल्लब्दविद्या: इति ब्रह्मविद्याभरणादेव ज्ञायते || (18) || एवञ्चाद्वैतानन्दसरस्वतीनां शिष्या: पूर्णानन्दा: रत्नप्रभाकाराणां  रामानन्दसरस्वतीनां प्रशिष्या: भवन्ति || एवमेव अभिव्यक्तकारा: अच्युतकृष्णानन्दसरस्वत्य: ब्रहमविद्याभरणकारान् विशेषेणास्तुवन्  || तथा हि: --
गुरोरपि गरीयान्मे य: कलाभिरलङ्कृत:
अद्वैतानन्दवाण्याख्य: तं वन्दे शमवारिधिम्  इति || (20)
तथा च अच्युतकृष्णानन्दा: पूर्णानन्दसरस्वतीनां सामयिका: भवितुमर्हन्तीति ताभ्यां प्रतिपादितं रामानन्दकर्तृत्वं रत्नप्रभाया: उपपन्नमेव भवति ||
5. शृङ्गेरीपीठसंप्रदायानुयायिन: रत्नप्रभाकर्तारं रामानन्दमेव विश्वसन्ति || (21)
6. एवमेव रत्नप्रभाया: रामानन्दीयमिति व्यवहारोsपि तत्कर्तृत्वमेव सूचयति ||
7. अपि च रत्नप्रभायां चतुर्थाध्यायव्याख्यानारम्भे राम नामास्मि इत्युक्तत्वात् (R-22) अहं नाम्ना रामोsस्मि ( Rama is my name /I am Rama by name) इत्यर्थ: सूचित: ||
8. रत्नप्रभाकार: रामानन्द एव भवितुमर्हतीति अद्वैतग्रन्थकोशस्य उपोद्घातादवगम्यते || (23)
आधुनिकेष्वपि श्री पोल्कं श्रीरामशास्त्रिमहाभागै: ( R- 24) श्री तङ्ग स्वामिमहोदयैश्च (25) रत्नप्रभाकर्तृत्वेन रामानन्द: एवाभिमत: || एवञ्चोपरिनिर्दिष्टै: प्रमाणै: रत्नप्रभाकार: रामानन्द एवेति निश्चप्रचं वक्तुं प्रभवाम:||      पुन: केचन रामानन्दगोविन्दानन्दयो: व्यक्त्यैक्यं प्रतिपादयन्ति || तथा हि :- श्री कृष्णमाचार्यमहाभागा: रामानन्दगोविन्दानन्दयो: व्यक्त्यैक्यं प्रतिपादयन्ति || रामभक्त्यतिशयत्वाद्गोविन्दानन्दस्यैव रामानन्द इति व्यवहार: इति तेषां कथनम् || (R- 26)
किन्तु श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोऽहं यथालि: इति रत्नप्रभागतं वचनं गोविन्दानन्दरामानन्दयो: व्यक्त्यैक्यवादस्य बाधकं भवति || तथाचात्र गोविन्दानन्दा: गुरव:, तच्छिष्यास्तु रामानन्दा: इति भिन्नव्यक्तित्वं तयोरवश्यमङ्गीकर्तव्यमेव || अत्र हाल (Hall)  पण्डितस्तु एवमभिप्रैति यद्रामानन्दा: स्वगुरोर्णाम्ना रत्नप्रभां विरचितवन्त: इति (R-27) || नैतत्समीचीनं रत्नप्रभायां ग्रन्थकर्तु: नाम न कुत्रापि निर्दिष्टत्वात् ||
रत्नप्रभाकर्तृत्वविषये शी राजन्नशास्त्रिमहोदयानामयमभिप्राय: (R-28) यत् वारणासि धर्मसुधी: वयसि च चरमे गोविन्दानन्दसरस्वतीभ्य: चतुर्थाश्रमदीक्षां स्वीचकार || तदनन्तरं तेन रत्नप्रभा विरचिता || रत्नप्रभायां स्वनाम्नोsख्यापनात् निजदीक्षागुरुवर्यगोविन्दानन्दसंस्मरणाच्च स्वगुरो: नाम्नैव व्यवहृता, रत्नप्रभाकर्तृत्वेन प्रथां गता || अयञ्च धर्मसुधी: वारणासिवंशज: || तस्य पूर्वीका: वाराणस्यां न्यवसन्निति हेतो: तेषां वारणासि इति वंशनाम ( Surname) संप्राप्तम् || अयञ्च कृष्णानदीतीरस्थ पेदपुल्लिवररु   ग्रामवासी आसीदिति तस्य वंशजा: तत्रस्था: विश्वसन्ति , तमेव स्ववंशस्य मूलपुरुषं  कथयन्ति च ||
अयं धर्मसूरि: पर्वतनाथसूरे: यल्लमांबायां समुत्पन्न: || अस्य पिता षडदर्शनीनिष्णात: || स: वादेन जनार्दनाख्यं पण्डितं जित्वा तस्य वादकेसरि बिरुदं स्वयं जग्राह || वैष्णवञ्च पण्डितं प्रच्याव्य मायावादिभयङ्कराख्यबिरुदेनापि ख्यात: लोके || अनेन पञ्चपादिकाविवरणव्याख्यापि विरचितेति व्याख्या विख्यातकीर्ते: विवरणगुरुवाक्सांख्यमुख्यागमानाम् इत्यादि श्लोकादवगम्यते (R-29) ||
रामानन्दै: पुन: स्वकीयो ग्रन्थ: स्वगुरोर्णाम्ना प्रसिद्धिं गमित: इति यो विषयोsस्ति तत्र तु प्रबलं प्रमाणं नैवोपलभ्यते || अत: रत्नप्रभाकार: रामानन्द एवेति निश्चप्रचं वक्तुं प्रभवाम: ||  
2.          रामानन्दस्य गुरुशिष्यपरम्परा
          रत्नप्रभागतकामाक्षीदत्त्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्य(30) इत्यादिश्लोकाद्रामानन्दसरस्वतीनां  गुरुपरम्परा ज्ञायते || तथा हि :- श्लोके च तस्मिन् ग्रन्थकारै: शिवरामार्या: , तेषां शिष्या: गोपालसरस्वत्य:, तेषाञ्च शिष्या: गोविन्दानन्दसरस्वतयश्च निर्दिष्टा: || तथा च  रत्नप्रभाकर्तु: परमेष्ठिगुरव: शिवरामार्या: ; परमगुरव: गोपालसरस्वत्य: ; गुरव: गोविन्दानन्दसरस्वत्य: इति ज्ञायते || किञ्च ब्रहमविद्याभारण प्रणेतार: अद्वैतानन्दसरस्वत्य: रामानन्दसरस्वतीनां सकाशादुपात्तसमग्रशारीरकसूत्रभाष्य इति ब्रह्मविद्याभरणादेवावगम्यते ||तथाहि :-
रामानन्दमुनिं मुनीन्द्रनिकरैरासेवितं सर्वदा (R-31)
रामानन्दपदाम्भोजं प्लवं कृत्वा मनोहरं |
चत्वारोप्यर्णवा ह्येते समुत्तीर्णाः यथामति || इत्यादि (32)
अद्वैतानन्दसरस्वतीनां शिष्यौ स्वयंप्रकाशानन्दपूर्णानन्दौ || तयो: पूर्णानन्दसरस्वत्य: अभिव्यक्ताख्यां रत्नप्रभाव्याख्यां विरचितवन्त: || भागदीपिकाख्याया: रत्नप्रभाव्याख्याया: प्रणेतारोsच्युतकृष्णानन्दसरस्वत्य: स्वयं प्रकाशानन्दसरस्वतीनामन्तेवासिन: इति
यो मे गुरु: गुरुस्साक्षाज्जगतामप्यशेषत:
माधवस्यापरा मूर्ति: तं भजे स्वप्रभं सदा इति वचनादवगम्यते || (33)
अपि च भागदीपिकाकारै: ---
गुरोरपि गरीयान्मे य: कलाभिरलङ्कृत: |
अद्वैतानन्दवाण्याख्य: तं वन्दे शमवारिधिम् इति ( 34) भक्त्यतिशयेन संभाविता: अद्वैतानन्दसरस्वत्य: इति  त एव ग्रन्थकाराणां परमगुरव: इति संभाव्यतेsस्माभि: || श्रीतङ्गस्वामिपण्डितैस्तु अयमच्युतकृष्णानन्द: स्वयंप्रकाश-अद्वैतानन्दसरस्वत्यो: शिष्य: इत्युक्तम् || (35) अत्र यद्यच्युतकृष्णानन्द: अद्वैतानन्दसरस्वतीनामपि शिष्यस्तर्हि पूर्णानन्दाच्युतकृष्णानन्दौ सतीर्थ्यौ भवत: ||परन्त्वत्र प्रमाणं मृग्यम् || एवञ्चात्र रामानन्दसरस्वतीनां गुरुशिष्यपरम्परा इत्थं निरुपयितुं शक्यते || तथा हि :-
शिवरामार्य:
गोपालसरस्वती
गोविन्दानन्दसरस्वती
रामानन्दसरस्वती
अद्वैतानन्दसरस्वती
पूर्णानन्दसरस्वती----स्वयंप्रकाशानन्दसरस्वती
                     अच्युतकृष्णानन्दसरस्वती
( To be continued )
References:
1.       (Descriptive catalogue of Sanskrit manuscripts , Adayar library. Vol IX.page.183,185&186 and Descriptive catalogue of Sanskrit manucsripts (Prajnana Pathasala mandal collections) Part 2 page 826)
2.       ( रत्नप्रभा-ग्रन्थान्ते)
3.        Article:-- Problems of identity by P. P. Subrahmanya Sastry , P.A.I.O.C Tirupati 1940. pub:- Madras 1941 ). ( Indian Philosophy, Vol. 2. page 452, fn)
4.       ( History of Indian Philosophy Vol I Page 89 & 90 ,Vol II.page 40,81& 103 )
5. (Article:- GOVINDANANDA From preceptors of Advaita-page-190 )
 (6) (साहित्यरत्नाकर:) * प्रस्तावना page-6. )      
(7)  Article:-- Problems of identity by P. P. Subrahmanya Sastry , P.A.I.O.C Tirupati 1940. pub:- Madras 1941 )
8. रत्नप्रभा-page-2.sloka-4
9. तत्रैव
10. यमिह करुणिकं शरणं गतोप्यरिसहोदर आप महत्पदम् |
   तमहमाशु हरिं परमाश्रये जनकजाङ्कमनन्तसुखाकृतिम् ||
1.       वन्दे वन्दारुबृन्दस्फुटमुकुटमणिद्योतितांघ्रिं रमेशं
श्रीरामं सद्य एव प्रणतजनगतध्वान्तविच्छेदहेतुम् ||
सत्यानन्दानुभूतिं निजहृदिविशनान्मायया जीवसंज्ञं
सर्वज्ञं सर्वसंज्ञं निजमहिमदृशां नेतिनेत्यक्षराख्यम् ||
2.       रत्नप्रभाpage=2-sloka20 & विवरणोपन्यास:-page-1 sloka -2
3.       तत्रैव page-1
4.       पूर्णानन्दीयम्page-2
5.       तत्रैव-page-155
6.       Descriptive Catalogue of Adyar Library * Vol-IX-4282,M-20.p
     -86, 87 &88.
7.       पूर्णानन्दीयम्- pages-138,139&191
8.       रामानन्दमुनिं मुनीन्द्रनिकरैरासेवितं सर्वदा ब्रह्मविद्याभरणम् page-1
9.       रामानन्दपदाम्भोजं प्लवं कृत्वा मनोहरं |
चत्वारोप्यर्णवा: ह्येते समुत्तीर्णा यथामति || तत्रैव page-141
10.   भागदीपिका-page-1-sloka-5
11.   P.A.I.O.C-(तप्त)1940-p-44. Pub-Madras-1941.
12.   यद् ज्ञानाज्जीवतो मुक्तिरुत्क्रान्तिगतिनिर्जिता |
लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम् ||
23 अद्वैतग्रन्थकोश: -- उपोद्घात: -page XXXXVIII (48)
24. पञ्चपादिकाविवरणम्- अवतारिका- page-85.
25 अद्वैतवेदान्तसाहित्येतिहासकोश:--page-280.
26. History of classical Sanskrit Literature- page-799.-800.
27. Hall-page-89 M.T-878.
28. साहित्यरत्नाकर: --प्रस्तावना
29. साहित्यरत्नाकर: ! -38
30. रत्नप्रभा-page-2, sloka-4
31. ब्रह्मविद्याभरणम्page-1-sloka-4
32. तत्रैव-page-141
33. भागदीपिका- page-1, sloka -4.
34. तत्रैवpage-141.
35. अद्वैतवेदान्तसाहित्येतिहासकोश: -page-299. 
                 (अनुवर्तते / to be continued)

                   






Wednesday, May 13, 2015

My nails are my weapons

 My nails are my weapons


Some times our teeth and nails are also used as weapons. The idiomatic expression i.e., “He fought tooth and nail for the sake of his country” supports this view. Basing on this idea a poem is written in Sanskrit by a great poet, however, the name of the poet is not known to me. The meaning of the poem is as follows.

Once, Lord Vishnu, ordered all his companions to appear before him. At the very out set he called his disk Sudarshana to come to him. The Sudarsana chakra came, stood before him and asked what to do? Then he called his club Kaumodaki . It also came, saluted and begged him for the order. After that he ordered his conch Panchajanya to be present itself before him. It came and stood before him and beseeched him to let it know the reason for his calling. Then he asked his sword Nandaka to see him. Nandaka without any delay appeared before Vishnu and waiting for his orders. Then he finally invited his chariot, Garutman, the divine kite to meet him.  Garutman also called on Vishnu, stood humbly before him awaiting his orders.

Then Lord Vishnu informed them that he had killed a person.
“Whom?” they asked
“A demon” He replied
“Who is he?”  They enquired
“ Hiranyakasipu”  Lord Vishnu  replied
 Is it true?  They asked.
“I promise you all” He asserted.  
By, which weapon? They again questioned.
“With my nails” he replied with supreme satisfaction dancing on his face. The face which is filled with the satisfaction of his adventurous task may bring peace to all.     

चक्र ! ब्रूहि विभो , गदे ! जय हरे ! कम्बो ! समाज्ञापय
भो भो नन्दक ! जीव पन्नगरिपो ! किं नाथ ! भिन्नो मया
को दैत्य: ? कतमो ? हिरण्यकशिपु ; सत्यं ? भवद्भ्य: शपे
केनास्त्रेण ? नखैरिति प्रवदतो विष्णोर्मुखं पातु व: 
నా గోళ్లే నా ఆయుధాలు

                ఒకసారి  విష్ణువు తన పరివారాన్ని పిలిచాడు. ముందుగా చక్రాయుధమా అన్నాడు .  సుదర్శనం దగ్గరకొచ్చి ఏం స్వామి ఏమిటి పని? అంది.
ఓ గదాయుధమా అని కౌమోదకాన్ని పిలిచాడు. పిలిచిన వెంటనే వచ్చి ప్రభువులకు జయం  ఏం  చెయ్యాలో సెలవియ్యండి అంది.
శంఖమా! అన్నాడు.  వెంటనే పాంచజన్యం ముందుకొచ్చి  ఆజ్ఞాపించండి ప్రభూ! అంది. ఓ నoదకమా ! ఇలారా అని ఖడ్గాన్ని  పిలిచాడు. పిలిచిన తోడనే మోకరిల్లి ప్రభువులకు చిరాయువు కలుగుగాక. ఏమి చెయ్యాలో ఆజ్ఞాపించండి ప్రభూ! అంది.
ఆ తరువాత గరుత్మంత! ఇలారా అని పిలిచాడు
ప్రభూ! ఏo చెయ్యాలో సెలవీయండి అన్నాడు గగ్గరకొచ్చి
నేను  చంపేశాను (చీల్చేశాను) అన్నాడు
ఎవరిని ? అని ప్రశ్నించాయి అవన్నీ ఒక్కుమ్మడిగా
రాక్షసుణ్ణి అన్నాడు.
ఏ రాక్షసుణ్ణి స్వామీ ? అన్నాయి
హిరణ్యకశిపుణ్ణి   అన్నాడు?
నిజమా? అన్నాయి అవన్నీ అర్థంకాక.
 నిజమే మీ మీదొట్టు అన్నాడు వాళ్లకు నమ్మకం కల్గించడం కోస౦.
మేమంతా ఇక్కడే ఉన్నాం మీరు ఏ ఆయుధంతో చంపేరు స్వామీ అన్నాయి అవన్నీ అమాయకంగా.  నా గోళ్ళతోనే అని ఆనందంతోను గర్వంతోను చెప్పిన శ్రీమహావిష్ణువు యొక్క  ముఖం మనల్ని రక్షించుగాక !

చక్ర! బ్రూహి విభో! గదే! జయ హరే! కంబో! సమాజ్ఞాపయ
భో భో నందక ! జీవ, పన్నగరిపో! కిం నాథ? భిన్నో మయా 
కో? దైత్య: కతమో ? హిరణ్య కశిపు: సత్యం! భవద్భ్య: శపే
కేనాస్త్రేణ? నఖైరితి ప్రవదతో విష్ణోర్ముఖం  పాతు వ: