Saturday, September 27, 2025

A Study of Ratnaprabha-Part-13 by Dr. Ch. DurgaprasadaRao

 

A Study of Ratnaprabha-Part-13

रत्नप्रभाविमर्शे तृतीयोsध्याय:

{Ratnaprabhaa vimarsha}

 

Dr. Ch. DurgaprasadaRao

 

                    अविद्या <> माया

 

सर्वेष्वप्यध्यासेषु अविद्याया: कारणत्वं संभाव्यते || तथा च अविद्या कारणरूपा , अध्यास: कार्यरूप: च || उक्तं भगवत्पादै: तमेवं लक्षणमध्यासं पण्डिता: अविद्येति मन्यन्ते इति || अत्र पण्डिता: इत्यनेन पतञ्जलिप्रभृतयोsभिप्रेता: || तथा हि पातञ्जलं सूत्रम् ||     

 

अनित्याsशुचि दु:खाsनात्मसु नित्यशुचि सुखात्मख्यातिरविद्या ( पा.यो.सू-साधनपाद: -51) इति भाष्यव्याख्यानावसरे अध्यासम्  अविद्याकार्यत्वादविद्येति मन्यन्ते इति अविद्याsध्यासयो: कार्यकारणत्वमुक्तं रत्नप्रभाकारै: ||  

भगवत्पादैस्तु “युष्मदस्मत्प्रयगोचरयो:” इत्यादिना कार्याध्यासमाक्षिप्य, सामग्रीसत्वादनुभवसत्त्वाच्च, ‘तथापि’      इत्यादि -------- अहमिदं ममेदमिति लोकव्यवहार:” इत्यनेन कार्याध्यास: एव प्रदर्शित: ||

अविद्या नाम सत्वरजस्तमोगुणोपेता आवरणविक्षेपशक्तियुक्ता प्रकृति: तादृ शाsविद्यैव कारणाध्यास इत्युच्यते ||      “ इदं रजतम् ” इत्यत्र मूलाविद्यापरतन्त्र तूलाविद्या राजताकारेण , रजतज्ञानाकारेण च परिणमते यदि शुक्ति राजतादीनामविद्यापरिणामित्वमङ्गीकुर्वन्ति || घटपटादिप्रपञ्चस्य तु  साक्षान्मूलाविद्या परिणामित्वमङ्गीकुर्वन्ति || अत एव

मूलाsविद्याया: परिणाम्युपादानत्वं ब्राह्मणस्तु विवर्तोपादनत्वमिति वेदान्तिनामाशय: || तत्त्वतोsन्याथाभाव: परिणाम:   यथा  क्षीरस्य दधिरुपेण परिणाम: || अतत्त्वतोSन्यथाभाव: विवर्त:  यथा रज्जो: सर्पाकारेण प्रतिभास: ||

सर्वस्याप्यविद्यापरिणामित्वादेव सुषुप्त्यवस्थायां लय: , प्रबोधे च पुन: ततो आविर्भाव: इति वेदान्तिनामाशय: ||

अत्र कारणाध्यासमनुक्त्वा केवल कार्याध्यासप्रदर्शने को हेतुरिति चेदुच्यते ||

जीवस्य कार्याध्यास: एवात्यन्तदु:खहेतु: भवति || यदा कार्याध्यासो वर्तते तदैव जीव: बद्धो भवति दु:खमनुभवति || यदा कार्याध्यासो निवर्तते तदा दु:खं नाsनुभवति || यथा गाढसुषुप्तौ  न किञ्चिदवेदिषमिति अनुभवसिद्ध: मूलाज्ञानस्य कारणाध्यास: अस्त्येव || कार्याध्यासस्तु लेशोsपि नास्त्येव || अत: सर्वोऽपि जन्तु: सुखमनुभवति , आनन्दमयकोशे अस्तीति परमार्थ: || अत: दु:खहेतु: कार्याध्यास एव भगवत्पादै: प्रदर्शित: || तदुक्तं रत्नप्रभायाम्

मूलाsविद्याया:  सुषुप्तावानर्थक्यादर्शनात् , कार्यात्मना तस्या: अनर्थत्वज्ञापनार्थं तद्वर्णनमिति भाव: ”  इत्यादि (रत्नप्रभा page-52)

कार्याध्यासस्याविर्भावतिरोभावाभ्यां मूलाज्ञानस्य परिणाम्युपादानत्वं स्पष्टमवगम्यते || तत्र “ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ” (श्वेताश्वतरोपनिषत्-4/10) इति वचनानु सारेण मायाया: प्रकृतित्वं गम्यते ||

सांख्या: अपि वेदान्त्यभिमतां मायामेव प्रधानमिति वदन्त: जगत्कारणत्वं प्रधानस्याभ्युपगच्छन्ति || प्रधानस्य जगत्कारणत्वं नाम जगत्परिणामित्वमेव || प्रधानं महदहङ्कारात्मना परिणमते इति ||

एवमद्वैतिनोsपि माया जगदादि वियदाकारेण    परिणमते इति वदन्ति ||                                         

तथा च प्रधानमाययो: को भेद: इत्यवश्यं 

प्रष्टव्यम् || तत्रेदं समाधानम् ||

सांख्या: ईश्वरं नाsङ्गी कुर्वन्ति || विवर्तवादं  नाsङ्गीकुर्वन्ति || प्रधानं स्वतन्त्रमेव जगत्परिणामि, नेश्वरपरतन्त्रम् ||

अद्वैतिनास्तु माया ईश्वरपरतन्त्रा सती जगदाकारेण परिणमते इति इति वदन्ति ||

अतो माया न स्वतन्त्रा तेषां मते || माया यद्यप्यनादी ब्रह्मज्ञानबाध्यत्वात् सान्तैव || सांख्याभिमतं प्रधानं तु अनाद्यनन्तं च ||

सांख्यमते परिणाम: सर्वोsपि सत्य एव ||

अत: कारणस्य कार्यस्य चोभयोरपि सत्यत्वं स्वीक्रियते तेषां मते ||

अद्वैतमते परमात्मन: विवर्ताधिष्ठानत्वसम्पादनाय मायारुपाविद्याया: परिणाम्युपादानत्वं स्वीकृतम् || किन्तु तेषां परिणामवादे तात्पर्यं नास्ति विवर्तवादे एव तात्पर्यम् ||

अतोsविद्या तत्कार्यञ्च सर्वं ब्रह्मविवर्तमेव ||

बह्मैवाsविद्यात्मना तत्कार्यात्मना च भासते इत्यर्थ: || आरोपितस्याधिष्ठानसत्तातिरिक्तसत्ताकत्वाभावात् , अनाद्यारोपस्य जीवत्वेश्वरत्व, अविद्या-माया संबन्धभेदानामनाद्यारोपाणां, कर्तृत्व – भोक्तृत्ववियदादि प्रपञ्चा ध्यासस्य च आरोपितत्वस्य च समानत्वात् , ब्रहासत्तातिरिक्त सत्ताकत्वsभाव एव || ब्रह्म व्यतिरेकेण किमपि नास्तीत्यर्थ: ||

मायाया: परतन्त्रत्वसूचनार्थं “ मायिनं तु महेश्वरम् ” इत्युक्तं श्रुतौ || अन्यथा सांख्याभिमत प्रधानस्यैव स्वातन्त्र्यं प्रसज्येत || ऐन्द्रजालिका अविद्या न स्वतन्त्रा सती तत्तद्वस्तुरूपेण भासते || ऐन्द्र जालिकसंकल्पसचिवा सती तत्तद्वस्त्वात्मना भासते || तथा मायाsपीत्यलमति विस्तरेण ||                                                                                     <><><>

 

No comments: