Wednesday, January 22, 2014

ते नेत्रे

ते  नेत्रे
डा. चिलकमर्ति दुर्गाप्रसादरावु
  
                यावत् अहं विदयालयत: प्रत्यागता तावता कश्चन युवक: गृहे उपस्थित: दृष्ट: मया | स: मया इत: पूर्वं दृष्टपूर्व: तु न | स: मां निर्निमेषं पश्यति स्म |    
      मया यदा विचारितं तदा माता सङ्क्षेपेण उक्तवती- स: अस्मद्बन्धुतुल्य:| मुम्बय्याम् उद्योगं करोति इति |   स: अस्माकं सर्वेषां कृते प्रीत्या वस्तूनि आनीतवान् अस्ति | मया धृता एषा शाटिका तेन आनीता एव || भवत्या: अग्रजाय उरुकं, भ्रातृजायायै  कङ्कणानि च आनीतवान्  अस्ति स: ||  भवत्यै  तेन एषा घटी आनीता इति वदन्ती माता मह्यं एकां घटीं दत्तवती || न जाने, किं कारणमिति, तस्य एष व्यवहार: मह्यं न अरोचत || अत: सा घटी मया न स्वीकृता ||
             स:  आगन्तुक: तु मम मुखं द्रष्टुं तदा तदा प्रयत्नं कुर्वन् मया लक्षित: || अहं प्रयत्नेन तं निवारयामि स्म || गृहजना: एतत् जानन्त: अपि तूष्णीम् एव स्थितवन्त: आसन् ||       ******
   अहं मम प्रकोष्ठे पठन्ती आसम् || भ्राता ग्रामान्तरं गत: आसीत् || माता प्रतिवेशिन्या: गृहं गतवती आसीत् || भ्रातृजाया प्रकोष्ठे शयितवती आसीत् ||
अत: गृहे शान्त: परिसर: ||
      सुजाते !   इत्येतत् आह्वानं श्रुत्वा अहं मुखम् उन्नीय दृष्टवती || स: आगन्तुक: मत्समीपम् आगच्छन्  आसीत्  लडुक (laddu) पेटिकाहस्त: सन् ||
हाम् इति अहम् अवदं भयकम्पितेन स्वरेण ||
स: इतोऽपि समीपम् आगतवान् || हस्तलभ्या यथा स्यां तथा मत्पार्श्वे अतिष्ठत् स: ||
अहं पूर्वत: अपि अधिकं भयं प्राप्तवती || एतस्य उद्देश: निर्मल: नास्ति इति भासते इति चिन्तयन्ती अहं भयेन कम्पमाना एव उत्थितवती || भयेन सह क्रोध:अपि आसीत् मयि ||  कथञ्चित् धैर्यं प्राप्य अहं बलात् तस्य कपोले चपेटाम् दत्तवती || मम पञ्च अङ्गुलय: तस्य कपोले अङ्किता: जाता: || अहं रुदती प्रकोष्ठात् बहि: गतवती धावन्ती ||
        एतं कोलाहलं श्रुत्वा दिग्भ्रान्ता भ्रातृजाया झटिति उत्थाय मत्समीपम् आगतवती || तावता प्रतिवेशिनीगृहत: माता अपि आगता || ग्रामान्तरात् तदा एव भ्राता अपि प्रतिनिवृत्त: ||
अहं  रुदती एव मातरं प्रवृत्तं सर्वं निवेद्य ताम् आलिङ्ग्य अश्रूणि स्रावितवती ||
किन्तु गृहजनानां मुखे आतङ्करेखा कापि न दृष्टा, प्रत्युत मन्दहास:एव दृष्ट ||  मां सान्त्वयन्ती माता अवदत् वत्से ! भवती यदा पञ्चवर्षीया आसीत् तदा खलु भवत्या: पिता आकस्मिकं मरणं प्राप्तवान् ||    स: सदा वदति स्म
सर्वोऽपि मरणानन्तरं स्वशरीरम् अङ्गानि च इतरेषाम् उपयोगाय दापयेत् || शरीरस्य निखननेन दहनेन वा न किमपि प्रयोजनम् इति || तस्य आशयस्य अनुगुणं तदीये नेत्रे अन्धाय एतस्मै गत्ते आस्तां तदा || अयं नेत्रप्राप्त्यनन्तरं विद्याभ्यासं समाप्य उद्योगं प्राप्य मुम्बयी नगरे वासम् अकरोत् || यद्यपि मध्ये द्वित्रिवारं एतेन अस्मद्गृहम् आगतं, तथापि भवत्या स: न दृष्ट: || तदा अध्ययनाय भवती छात्रावासे आसीत् || ऐदम्प्राथम्येन  स: भवतीं पश्यति || स तु पश्यति भ्रातृभावेन || तस्य शरीरे स्थिते नेत्रे न तदीये, अपि तु भवत्या: पितु: इति ||
एवं वदन्त्याम् अम्बायां, तस्य नेत्राभ्याम् अश्रुधारा प्रवहति स्म || मया चिन्तितम्  एवं  कदापि न भवेत् || मम पितु: नेत्राभ्याम् अश्रूणि न निर्गच्छेयु:  ||

अप्रयत्नेन एव मम हस्त: तानि अश्रूणि अमार्जयत् || मम नेत्रे  तस्य नेत्रे अपश्येताम् || तदा अभासत –“ एते न केवलं नेत्रे || अपि तु भ्रातृभावस्य पात्रे ||                    *****

No comments: