ACKNOWLEDGEMENTS
Among the many lights to whom I am grateful for their advice, assistance, and
encouragement in writing this book my special thanks are due to:
1.
My parents Sri
Chilakamarthi Venkata Suryanarayana and Smt. Venkataramana without whose blessings
this work could not have been accomplished.
2.
My gurus -- Sri Mandalika Venkata Rao, Sri Lanka
Visweswara Subrahmanyam , Sri Vedula Sundararama Sastry, Sri Mallampalli
Vireswara Sarma, Dr. Sripada Krishna Murthy, Sri Somanchi Satyanarayana , Sri
Veerubhotla Kutumba Satyanarayana and Sri Kanchibhotla Krishna Prabhakara Rao, for
having taught me Sanskrit and inculcated interest in Sanskrit Studies.
3.
Sri Rani Narasimha Sastry and
Sri Ganti Lakshmi Narayana Sastry for teaching me Vedanta Works viz., Ratnaprabha
and Bhamati.
4.
Sri Maddulapalli Manikya
Sastry, who helped me with his lucid explanation of the tough nuts in the
various philosophical concepts.
5.
Prof. P. Srirama Murthy, retd.
Head of the department of
Sanskrit under whose able guidance this work was brought out.
6.
Prof. O.S.R.L Sarma,
department of Sanskrit who taught me the necessary chapters of Sankhya, Nyaya,
Purva-Mimamsa amd Uttara-Mimamsa.
7.
Prof. G. Parthasaradhi Rao
and Prof:- G. A. Sarma of the department of Sanskrit of Andhra University who
encouraged me at various stages during the preparation of this work.
8.
The Director of G.O.M.L
Madras and the director of Adayar Library Madras for granting me access to some
manuscripts of Vedanta.
9.
Dr. Y. VenkateswaraRao, retd
Principal and Sri K.V. Satyanarayana, retd. Vice principal of A.N.R. College
who helped me with valuable advice and encouragement.
10.
Sri Rani Narasimha Murthy
and Dr. Rani Sadasiva Murthy and Sri Attili
Gopala Krishnamacharyulu who helped me in many ways
11.
On a more personal level I
am greatly thankful to the members of my family for their constant help and
cooperation during the vicissitudes I faced in the preparation of this book.
12.
Last but not least, I
record my gratitude to the T.T.D for the financial assistance without which
this work could not have seen the light of the day.
Since my book was appreciated
by many scholars and a gold medal was also awarded to it, I, put the summary of
my book in the blog, on the repeated requests made by my friends. ***
उपोद्घात:
प्रयाश: लोके सर्वोऽपि जन्तु: “ इष्टं मे भूयादनिष्टं च माsभूत् ” इति सुखावाप्तिं दु:खनिवृत्तिञ्च कामयते | प्रयतत एव
तदर्थंम् | सुखं द्विधं सातिशयनिरतिशयभेदात् |
ऐहिकामुष्मिकसुखानां कर्मजन्यत्वात्सातिशयत्वमनित्यत्वं च “ तद्यथेह कर्मचितो लोक: क्षीयते एवमेवामुत्र पुण्यकृतो लोक: क्षीयते ” ( छान्दोग्य उपनिषद (8-1-6) इत्यादि
श्रुत्या, “ आब्रह्मभुवनाल्लोका:
पुनरावर्तिनोsर्जुन ” (भगवद्गीता-VI—16) इत्यादि स्मृत्या “ यत्कृतकं
तदनित्यम् ” इति न्यायेन च स्पष्टम् |
एतेषाञ्च पुन: “ न तदस्ति सुखं लोके यन्न दु:खकरं
भवेत् “ इत्याद्युक्त्या
दु:खसम्भिन्नत्वमेव बाहुल्येन लोके दरीदृश्यते| यद्यप्यामुष्मिकसुखस्य
दु:खसंभिन्नत्वं नास्ति तथापि तस्य तारतम्ययुक्तत्वादनित्यत्वाच्च तुच्छत्वम् ||
अपि चानुभूयमानं दु:खम् आधिभौतिकम् , आधिदैविकम् , आध्यात्मिकम् इति त्रिविधम् || तत्र मनुष्यमृगादिभिरुत्पन्नं दु:खमाधिभौतिकम् ||
यक्षराक्षसग्रहादिभिर्जातमाधिदैविकम् || आध्यात्मिकं तु शारीरं मानसञ्चेति
पुनर्द्विविधम् || वातपित्तादिजं
शारीरं कामक्रोधादिजं मानसञ्च || सर्वस्याप्यस्य दु:खस्य कर्मजन्यत्वात् कर्मण:
मिथ्याज्ञानहेतुत्वाच्च दु:खनिवृत्तिस्तु मिथ्याज्ञाननिवृत्त्यैव भवति ||
मिथ्याज्ञानन्तु यथार्थज्ञाननिवर्त्यम् || तच्च ब्रह्मसाक्षात्कारात्मकं “
ब्रह्मविदाप्नोति परम् ” ( तैत्तिरीय
उपनिषद—2.1) इत्यादि श्रुते: || आत्मैव
ब्रह्मेति “अयमात्मा ब्रह्म” ( बृहदारन्यक उपनिषद –2-5=19) इत्यादि श्रुति मूलकम् || तथा
चात्मसाक्षात्कार एव मानवजीवनस्य परमोद्देश: तस्य निरतिशयानन्दहेतुत्वात् || उक्तञ्च
|| “सोsश्नुते सर्वान् कामान् (
तै*उ-2-1), आत्मनस्तु कामाय सर्वं प्रियं भवति ( बृ*उ –2.4.5) आत्मलाभान्न परं विद्यते किञ्चित् (आपस्तम्बधर्मसूत्राणि—1.22.2) इत्यादि श्रुतिस्मृतिभि: ||
स चात्मसाक्षात्कार: वेदान्तवाक्यश्रवणमनननिदिध्यासनैरेव सम्भवति नाsन्यथा || उक्तञ्च
||
श्रोतव्य: श्रुतिवाक्येभ्य: मन्तव्यश्चोपपत्तिभि: |
मत्वा च सततं ध्येय: एते दर्शनहेतव: ||
( संख्यप्रवचनभाष्यम् –पृ-2)
आत्मस्वरुपप्रतिपादकानि शास्त्राणि दर्शनपदेन व्यपदिश्यन्ते | दृश्यते ह्यात्मा
अनेन इति दर्शनम् | दर्शनानीमानि
नास्तिकास्तिकभेदेन द्विविधानि | तत्र प्रायश: वेदोपजीवीनि आस्तिकदर्शनानि
तद्विपरीतानि च नास्तिकानि | चार्वाकजैनबौद्धानि नास्तिकानि, सांख्यन्यायमीमांसादर्शनानि
चास्तिकानि | मीमांसा च पुन: पुर्वोत्तरभेदेन द्विविधा | तत्र वेदस्योत्तभागस्तु
वेदार्थब्रह्मनिर्णायकत्वेन वेदान्तापरनामक:| कर्मापेक्षया ज्ञानस्याभ्यर्हितत्वात्
, परमप्रयोजनवत्वाच्च पुर्वमीमांसापेक्षया उत्तरमिमांसादर्शनस्य प्राधान्यम् | अपि च वेदार्थनि र्णाकत्वात् वेदान्तदर्शनस्यैव सर्वदर्शनापेक्षया
प्राधान्यमुपपद्यते |
अत एवोक्तं स्मृतौ --
दद्यान्नावसरं किञ्चित्कामादीनां
मनागपि |
आसुप्तेराम्रुते: कालं नयेद्वेदान्तचिन्तया || इति
अपि च यद्यपि सर्वाणि दर्शनान्यात्मस्वरूपबोधकानि तथाप्यात्मस्वरुप
प्रतिपादनविषये तानि परस्परं विरुध्यन्ते इति आत्मयाथार्थ्यज्ञानेनैव
पुरुषार्थसिद्धि: तद्विपरीते न केवलं पुरुषार्थहानि: किन्वनर्थपरम्पराप्राप्तिश्च
| उक्तञ्च स्मृतौ :--
योsन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते |
किं तेन न कृतं पापं चौरेणात्मापहारिणा || इति
उक्तञ्चत्रभवद्भि: श्रीशङ्करभगवत्पादै: :--
एवं बहव: विप्रतिपन्ना: युक्तिवाक्यतदाभाससमाश्रयास्सन्त:
| तत्राविचार्य यत्किञ्चित्त्प्रतिपद्यमानो
निश्रेयसात्प्रतिहन्येतानर्थञ्चेयात्त् ” इत्यादि | तथा
चात्मयाथार्थ्यज्ञानाय वेदान्तवाक्यविचार: कर्तव्य: इति फलितोsर्थ:|
वेदान्तशास्त्रस्याधारभूतं प्रस्थानत्रयम् | तत्रोपनिषद: श्रुतिप्रस्थानं ,
ब्रह्मसूत्राणि न्यायप्रस्थानं भगवद्गीता च स्मृतिप्रस्थानम् | प्रस्थानत्रये सूत्रप्रस्थानमितरापेक्षया विशिष्यते
तस्य श्रुतिस्मृत्यो:सारांशरूपत्वाद्युक्तिमत्वाच्च ||
“लघूनि सूचितार्थानि चाल्पाक्षरपदानि
च
सारवत्सर्वभूतानि सूत्राण्याहुर्मनीषिण:” इति सूत्रलक्षणं विज्ञेयम् |
सूत्राणीमानि संसारदु:खसंतप्यमानानां
जनानां विमुक्तिप्रदर्शनार्थं भगवता बादरायणेन विरचितानि| ( बदरा: बदरीवृक्षा:
यस्मिन्देशे सन्ति स देश विशेषो बादर: स एवायनं स्थानं यस्य स: बादरायण:
श्रीवेदव्यास: || -
पूर्णानन्दीयम् –पृ-5)
अपि च औपनिषदानां च वचसां मिथोविरोधेनावभासमानानां विरोधपरिहाराय सूत्राणीमानि विरचितानीति
सांप्रदायिकानां कथनम् ||
सूत्रेष्वेषु बादरायणेन वेदान्तवाक्यानां सारांश: न्यायेन प्रतिपादित:
| अत्र न्यायो नाम पञ्चावयवोपेताधिकरणात्मकन्याय: ||
पञ्चावायवास्तु
विषयसंशयपूर्वपक्षसमाधानसङ्गतय: ||
विषयो विशयश्चैव
पूर्वपक्ष: तथोत्तरं
सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेsधिकरणं स्मृतम् | इति ||
बादरायणसूत्रेषु अध्यायाश्चत्वार:
समन्वयाविरोधसाधनफलाख्या:|
प्रत्यधिकरणं चत्वार:पादा: ||
प्रथमेsध्याये--31+32+43+28=134
द्वितीयेsध्याये –37+45+53+22=157
तृतीयेsध्याये –27+41+66+52=186
चतुर्थेsध्याये –19+21+16+22=78
इति क्रमेण
पञ्चपञ्चाशदधिकपञ्चशतं (555) सूत्राणि ||
उपनिषदर्थप्रतिपादकानां
सूत्राणां सर्वप्रथमत: तत्रभवद्भि:
श्रीशंकर भगवत्पादै: अद्वैततत्त्वप्रतिपादकं प्रसन्नगम्भीरञ्च भाष्यं
विरचितम् ||
सूत्रार्थो वर्ण्यते यत्र वाक्यै: सूत्रानुकारिभि:
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु: ” इति भाष्यपदस्यार्थ: ||
द्विधा इतं द्वीतं, तस्य भाव: द्वैतं (भेद:) || नास्ति द्वैतं भेदो
यस्मात् तदद्वैतम् | (रत्नप्रभा- पृ -22) |
तस्येदं विवरणम् || प्रकारद्वयसत्ता द्वैतमित्युच्यते || तथा हि :- “ इदं रजतम् ” इत्यत्र इदमवच्छिन्न(चैतन्य)मधिष्ठानं
रजतमारोपितम् || तत्रारोपेsधिष्ठानतादात्म्यं
वर्तते ||
आरोपनिष्ठाधिष्ठानतादात्म्यमारोपितं च प्रकारद्वयम् || एतादृशं द्वयं
यस्मिन्नुच्यते तत् द्वैतम् || न विद्यते यस्मिन्
द्वैतं तदद्वैतम् || --- अनुवर्तते -----