A Study of Ratnaprabha-Part-12
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
ख्यातिवादविमर्श:
Dr. Ch. DurgaprasadaRao
गताङ्कादग्रे...
एवञ्च भगवत्पादै: “स्मृतिरुप: परत्र पूर्वदृष्टावभास:” इति अध्यासलक्षण कथनानन्तरं “तं केचिदन्यत्रान्यधर्माध्यास
इति वदन्ति” इत्यादिवाक्यै: तार्किकादीनां मतमुपन्यस्य सर्वथाsपि तु अन्यत्रान्यधर्मावभासतां न व्यभिचरतीति तेषां परस्परविरुद्धनाम्ना
व्यवहारेsपि अन्यत्रान्यधर्मावभासित्वम् अर्थात् एकस्मिन् वस्तुनि अपरवस्तुन: तादात्म्यज्ञानं सर्वत्र समानमेवेति,
अतोsत्र विवादस्तु निष्प्रयोजन: इति चोक्तम् || अत्र रत्नप्रभाकाराणामप्ययमेवाsशय: ||
तथा च “स्मृतिरूप: परत्र पूर्वदृष्टावभास:” इति अध्यासलक्षणं सोपपत्तिकं, शास्त्रसम्मतञ्च || अत: अनिर्वचनीयता ख्यातिरेवावश्यमादरणीया
भवति ||
अत्र रत्नप्रभाकारैरपि भाष्यव्याख्यानावसरे
पूर्वपूर्वसिद्धान्तानां दोषप्रदर्शनेन अनिर्वचनीयताख्यातिरेव समर्थिता ||
तथा हि :- शुक्तावपरोक्षस्य रजतस्य बुद्धौ सत्त्वायोगात् , अपरोक्षस्य
रजतस्य शुक्तौ सत्त्वे बाधाभावात्, शून्यत्वे प्रत्यक्षत्वाsयोगान्मिथ्यात्वमेवेति
(रत्नप्रभा -p 45. (18) ||
एतावत्पर्यन्तं लक्षणपरभाष्यं
प्रपञ्चितम् || इदानीं संभावनापरभाष्यमारभ्यते ||
अत्र पूर्वपक्षी आत्मन्यनात्माध्यास: न संभवतीत्याक्षेपं प्रकटयति || तत्र पूर्वपक्षिण: अभिप्राय: “कथं पुन: प्रत्यगात्मन्यविषये
अध्यास: विषयतद्धर्माणाम्” इत्यादि
वाक्यै: प्रदर्शित: भगवत्पादै: || अत्राsक्षेपसारांशस्तावदयम् ||
यथा कथञ्चित् ज्ञानविषयीभूते वस्तुनि अन्यवास्तुभ्रान्तिर्भवति || किन्तु
अध्यासाधिष्ठानस्यात्मन: “ न चक्षुषा गृह्यते ”( मु.उ.3-1-8) इत्यादि
श्रुतिमनुसृत्य अविषयत्वात् कथमध्यास: इति ||
अत्र सिद्धान्ते भगवत्पादै: “ न तावदयमेकान्तेनाविषय: अस्मत्प्रत्यय
विषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्म
प्रसिद्धे: इत्यादिवाक्यै: आत्मन: विषयत्वमपरोक्षत्वं च प्रदर्शितम् ||
अत्रात्मन: विषयत्वमेवं प्रकारेण समर्थितं रत्नप्रभाकारै:
आत्मन: विषयत्वसमर्थनम्
विषयत्वं द्विविधम् || भानभिन्नत्व्रे
सति भानप्रयुक्त- संशयनिवृत्त्यादिफलभाक्त्वरूपं विषयत्वमेकं, भानभिन्नत्वरहितं भानप्रयुक्त
संशय-निवृत्त्यादिफलभाक्त्वरूपं विषयत्वमपरम् ||
अनयो: द्वयो: विषयत्वयो: मध्ये भानभिन्नत्वघटितविषयत्वस्याssत्मन्यभावेsपि भानभिन्नत्वरहितं
भानप्रयुक्त संशयनिवृत्त्यादिफलभाक्त्वरूपं द्वितीयं विषयत्वम् आत्मनि संभवत्येवेति
समर्थितम् ||
अत्र भानं नाम चैतन्यम् || तद्भिन्नत्वम् अर्थात् चैतन्यभिन्नत्वं चैतन्ये
नास्तीति भानभिन्नत्वघटितं विषयत्वमात्मनि न संभवति || भानप्रयुक्त संशय-निवृत्त्यादि
फलभाक्त्वन्तु संभवत्येव ||
अत्र भानं नाम वृत्ति: || वृत्तिप्रयुक्त – आवरण- भङ्गाश्रयत्वम्
आत्मन्यस्त्येवेति आत्मनोऽपि विषयत्वं समर्थितम्
|| अपि च आबालपण्डितमात्मन: संशयादि शून्यत्वेन तस्य स्वप्रकाशत्वं प्रसिद्धमिति आत्मन:
अपरोक्षत्वं समर्थयन्ति भगवत्पादा:||
किञ्च भाष्यकारैरेव “ न चाsयमस्ति नियम: पुरोsवस्थिते एव
विषये विषयान्तरमध्यसितव्यमिति ” दृष्टान्त
प्रदर्शनेन च “ यत्र यत्र अपरोक्षाध्यासाधि ष्ठानत्वं तत्र इन्द्रियसंयुक्तत्वञ्चेति नियमस्य भङ्गो
प्रतिष्ठापित: || अत्र व्याख्याने रत्नप्रभाकारैरेवं विवृतम् ||
अप्रत्यक्षेsपि= इन्द्रियाsग्राह्यत्वेsपि; बाला: = अविवेकिन: ; तलमिन्द्रनीलकटाहकल्पं नभो मलिनं पीतमित्येवाsपरोक्षम्
अध्यस्यन्ति इत्यादि (रत्नप्रभा -page-51) ||
तथाहि :- नीलं नभ: इति सार्वजनीनो भ्रम: || नभस्याकाशे नैल्यं नाsस्त्येव || कटाहाकारत्वमपि
नाsस्त्येव || परन्तु ‘नीलं नभ:’ इति सर्वेषामनुभवसिद्ध: || अत: अपरोक्ष-नैल्याध्यासाधिष्ठानत्वं
नभस्यवश्यमङ्गीकर्तव्यम् || तत्र व्यापकस्य प्रत्यक्षविषयत्वस्य अभावेऽपि अपरोक्षाध्यासदर्शनात्
नाsयं नियम: प्रामाणिक: || अत: इन्द्रियाsग्राह्यत्वेsपि अपरोक्षाध्यास:
निष्प्रत्यूह: इति सुष्ठु प्रतिपादितं रत्नप्रभायाम् ||
<><><>
No comments:
Post a Comment