Saturday, December 26, 2015

सत्यात् नास्ति परो धर्म:

सत्यात् नास्ति परो धर्म:
Dr. Durga Prasada Rao Chilakamarthi
3/106, Premnagar, Dayalbagh, AGRA

आहारनिद्राभयमैथुनञ्च
      सामान्यमेतत्पशुभिर्नराणाम्
       धर्मो हि तेषामधिको विशेष:
                                         धर्मेण हीना: पशुभि: समाना: - इत्यार्यवचनम् ||

दनुसृत्य आहारनिद्राभयमैथुनादिषु मानवानां पशूनाञ्च मध्ये न कोsपि व्यत्यास: अस्ति || केवलं धर्मेणैव मानव: प्राण्यन्तरेभ्यो भिद्यतेsतिशेते च || यदि मानव: धर्मभ्रष्ठ: अथवा धर्महीन: भवति तर्हि पशुतुल्य : एव भवति ||
अत्र धर्मो नाम क: ? इत्याशङ्कायां जगन्मूलकत्वेन संसृतिनियामकानि तत्त्वानि धर्मपदेन व्यपदिश्यन्ते || वेदोsखिलो धर्ममूलम् इत्युक्त्या वेद: सर्वेषां धर्माणां आकार: इति ज्ञायते || अत: धर्मस्वरुपनिरुपणविषये वेद एवास्माकं परमं प्रमाणमित्यवश्यमङ्गीकर्तव्यम् ||
धर्म इति शब्द: बह्वर्थेषु प्रयुक्त: दृश्यते || कल्याणकारि कर्म धर्म इति केचन मन्यन्ते || वेदप्रतिपाद्य: प्रयोजनवदर्थ: धर्म इत्यपरे मन्यन्ते || धरति लोकान् इति धर्म: इति केचन, ध्रियते अनेन इति धर्म: इति पुन: केचन मन्यन्ते || तथा च धर्म: मानवलोकपरित्रायक:, समुन्नतिसाधक:, अविनीतिनिर्मूलक:, ज्ञानविज्ञानशौर्यादिगुणसंपादक:, आस्तिक्य बुद्धिप्रवर्तकश्च भवति || धर्मस्य लक्षणानि एवं प्रतिपाद्यन्ते || तथाहि :--

धृति: क्षमा दमोsस्तेय: शौचमिन्द्रियनिग्रह: |
धीर्विद्या सत्यमक्रोध: दशकं धर्मलक्षणम्   ||  

अत्र धृति: नाम अवसन्नानां देहेन्द्रियाणामवष्ठंभनहेतु: प्रयत्न: ||
क्षमा नाम आकृष्टस्य ताडितस्य वा अविकृतचित्तता || दमो नाम ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च निग्रह: || अस्तेयो नाम  अदत्तादानरुपपरद्रव्यहरणराहित्यम् || शौचम् नाम शरीरमनसो: शुद्धि: || इन्द्रियनिग्रहो नाम मनस: निग्रह: || धी: नाम बुद्धि: || विद्या नाम वेदार्थपरिज्ञानम् || सत्यम् नाम अनर्थाननुबन्धियथाभूतार्थवचनम् || अक्रोध:  नाम कामितार्थविघातजन्यस्य क्रोधस्याभाव: || एतानि दश धर्मस्य लक्षणानि भवन्ति || एतेषु दशस्वपि सत्यस्य स्थानं महत्वपूर्णं वर्तते || यथा सर्वेषां जन्तूनां पादा: गजस्य पादेsन्तर्भवन्ति तथा सर्वे धर्मा: सत्ये एवान्तर्भवन्ति || अत: सत्यस्य श्रेष्ठतमत्वं सर्वैरङ्गीक्रियते ||

इदानीं सत्यस्य स्वरूपं किमिति विचारयाम: || सत्यपदस्य बहव: अर्था: सन्ति ||  सत्यं नाम अनर्थाननुबन्धियथाभूतार्थविषयम् इति पूर्वमेवोक्तम् || प्रिय-हित-प्रमाणदृष्टश्रुतार्थभाषणं सत्यमिति, अबाधितज्ञानविषयत्वं  सत्यत्वमिति, कालत्रयाबाध्यत्वं  सत्यत्वमिति च अर्थान्तरम् || इदानीं सत्यं नाम अनर्थाननुबन्धियथाभूतार्थविषयमिति अंशमधिकृत्य किञ्चित्त्प्रस्तूयते ||  यत्सर्वस्य जगत: सुखमावहति समाजस्य संरक्षणं विदधाति  तत्सत्यम् ||

पूर्वकाले हरिश्चन्द्रप्रभृतयो महाराजा: सत्यव्रतदीक्षामवमवलम्ब्य इमां भूमिं परिपालितवन्त: , तेषां पालने सर्वे जना: सुखेन जीवनं यापितवन्तश्च दृश्यन्ते || एवमेव इतिहासयुगेsपि सत्यसंधा: सत्यव्रतदीक्षापरायणा: रामादय: चक्रवर्तिन: बहव: व्यराजन्त || महाभारते शकुन्तला दुष्यन्तस्य पुरत: सत्यस्य माहात्म्यं वर्णयन्ती अश्वमेधसहस्रादपि एकमेव सत्यवचनं महदिति प्रतिपादयति ||

अश्वमेधसहस्रं च सत्यं च तुलया धृते |
अश्वमेधसहस्राद्धि  सत्यमेव विशिष्यते ||

 प्राचीनकाले सर्वे मानवा: पापभीत्या वा परलोकभयाद्वा महापुरुषाणां चरित्रपठनेन वा  सत्यस्य  प्राधान्यं विजानन्त: असत्यं प्रति वैमुख्यं प्रकटयन्त: आसन् || किन्त्वद्यतनसमाजे सत्यस्य प्रामुख्यं पूर्वकाले यावदासीत्तावन्नास्ति || असत्यं सत्यस्य स्थानमाक्रम्य विलयताण्डवं करोति ||असत्यवचनात् न कोsपि बिभेति || एवमेव सत्यं निरादृत्य असत्यमेवास्माभि: आद्रियते चेत्समाज: अचिरेणैव कालेन विनाशं प्राप्स्यतीत्यत्र न कापि संशीति: || अत:  सत्यस्यैव प्राधान्यं दातव्यमस्माभि: || सत्यं भगवद्रूपेण संभाव्याराधयितव्यमस्माभि: || सत्यवचनेन यद्यपि तात्कालिकं प्रयोजनं न सिध्यति तथापि सत्यवाक्यपालनेन शाश्वतप्रयोजनमवश्यं सिध्यत्येव  || सत्यनिष्ठा  यद्यपि कष्टसाध्या तथाप्यसाध्या न भवतीति स्वीयाचरणपूर्वकं निरुपितवान् महात्मा गान्धीमहाभाग: || स: जीवितादर्शत्वेन सत्यम् , आयुधत्वेनाहिंसां स्वीकृत्य श्वेतजातीयै: विरुध्य संग्रामं कृतवान् विना रक्तपातं स्वातन्त्र्यं समुपार्जितवान् च || तेन महात्मना अवलंबित: सत्याग्रह: सत्याहिंसयो: समन्वयरुप एवेति निस्संशयं वक्तुं प्रभवाम: ||

किञ्च सत्यासत्ययो: मध्ये य: भेद: अस्ति स: भेद: कदाचित् अतिसूक्ष्म: अपि  भवति || अत्र किञ्चिद्वक्तव्यमस्ति || कुरुक्षेत्रे पाण्डवानां धार्तराष्ट्राणां च मध्ये महान् युद्ध: प्रचलति स्म || युद्धे द्रोणस्य पराक्रममसहमाना: पाण्डुपुत्रा: तस्य द्रोणस्य वधोपायं चिन्तयन्त: तस्यैव समीपं गत्वा तमेव पृष्टवन्त: || परमकारुणिक: शिष्यवत्सलश्च द्रोण: उक्तवान् यत् मम पुत्र:  अश्वत्थामा ममात्यन्तं प्रीतिपात्र: अस्ति || यदाहं तस्य मरणवार्तां  शृणोमि तदा अहं मम प्राणान् त्यक्ष्यामि इति || तदनन्तरमेकदा भीमादय:  धर्मराजस्य समीपं गत्वा अश्वत्थामा हत: इति वदतु इति धर्मराजं प्रार्थितवन्त: || परन्तु सत्यसन्धो धर्मराज: तथा असत्यं वक्तुं निराकृतवान् || तदा भीम: अश्वत्थामनामकम्  एकं गजं मारितवान् || तदा धर्मजस्य समीपं गत्वा अश्वत्थामा हत: कुञ्जर: इति वदतु इति तं प्रार्थितवान् || धर्मज: तथैव कृतवान् || परन्तु कुञ्जरशब्दस्य उच्चारणसमये स शब्द: द्रोणस्य श्रुतिपथं यथा न गच्छति तथा ते सर्वे प्रयत्नं कृतवन्त: || धर्मजमुखादागतां पुत्रमरणवार्तां  श्रुत्वा द्रोणाचार्य: शस्त्रास्त्रसंयासं कृतवान् || तदा पाण्डवानां सैन्याध्यक्षेण धृष्टदयुम्नेन स द्रोण: अनायासेन मारित: || वस्तुत: धर्मराज: यस्मिन् रथे अधितिष्ठति तस्य रथस्य इयं प्रतीतिरस्ति यत्स: रथ: भूमिम् अस्पृशन्नेव चलति || परन्तु धर्मराजेन कृतस्य अश्वत्थामा हत: कुञ्जर: इत्यस्य प्रकटनानन्तरं तस्य रथ: भूमौ पपात || तदारभ्य भूमिं  स्पृशन्नेव गच्छति स्म ||

अत्र धर्मराजेन कृत: दोष: क: इत्याशंकायाम् एवमुच्यते यत्तस्य वचने वस्तुत: किमप्यसत्यं नास्ति || सत्यमेवोक्तवान् स: || परन्तु तस्य मनसि येन केनापि प्रकारेण वा भवतु स च द्रोण: हन्तव्य: इति दुरुद्द्देश: अस्त्येव  ||  स च इदानीं सफल: संजात: || अत: यद्यपि स: सत्यमेवोक्तवान् तथापि असत्यवचनस्य फलमनुभूतवान् || तस्य रथ: अध:पतित: अभवत् ||
अत्रापर: अंश अस्ति || एक: रोगी अस्ति || चिरकालेनापि तस्य रोगस्य उपशम: न लभ्यते || स: वैद्यस्य समीपं गत्वा स्वकीयां स्थितिं कथयति || वैद्य: सकला: परिक्षा: कृत्वा स: रोग: उपशमनरहित: इति स्वयं सम्यक्  जानन्नपि रोगिणि विश्वासमुत्पादयितुं अलं चिन्तया || य: रोग: भवन्तं पीडयति स रोग: अचिरेणैव कालेन निवारितो भवति इति वदति || वस्तुत : एतदसत्यकथनमेव || तथापि तत्कथनं रोगग्रस्थस्य तस्य मनसि धैर्य मुत्पाद्य,  विश्वासं जनयित्वा यावत्कालं जीवति तावत्पर्यन्तं शान्तिं कल्पयति || अत: तदसत्यमप्यामोदयोग्यमेव भवति || तथा च सत्यासत्ययो: स्वरुपमेवं प्रतिपादयितुं शक्यते || तथाहि :-- सदुद्देशेन प्रवृत्तं वाक्यं सत्यं दुरुद्देशेन प्रवृत्तं वाक्यमसत्यम् || एतत्सर्वं मनसि निधाय अस्मत्पूर्वजै: मुनिभि: उक्तम् ||

सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् |
प्रियं च नाsनृतं ब्रूयादेष धर्म: सनातन:  || इति         

अत: मानव: न केवलं सत्यवादी अपि तु प्रियवादी अप्यवश्यं भवेत् || सत्यमपि प्रियत्वेन माधुर्येण समन्वितं भवेत् || तदैव सत्यस्य प्रतिष्ठा सिध्यति ||
सत्यमेव जयते नाsनृतम्




                                                                                                                                                                                                                                                                                                                    

No comments: