Saturday, April 3, 2021

पुस्तकसमीक्षा

 

पुस्तकसमीक्षा

रत्नप्रभा विमर्श:

(श्रीरामानन्दविरचितब्रह्मसूत्रभाष्यस्य)

लेखक: चिलकमर्ति दुर्गाप्रसादराव:

नाsविदितचरं विदुषां वेदान्तशास्त्रस्याधारभूतं प्रस्थानत्रयम् १. उपनिषद: २ ब्रह्मसूत्रस्य ३. गीतायाश्च गणना विधीयते | परं परमप्राधान्यं तत्र ब्रह्म सूत्रस्यैवाङ्गीक्रियते | ब्रह्मसूत्राणां नैकानि भाष्याणि सन्ति , तत्रापि  शांकर भाष्यस्यैव प्राधान्यम् || 

भाष्यं यद्यपि सरलं ,  परं  तत्तथा मार्मिकं गम्भीरञ्च विद्यते यत् तदधि कृत्य  व्याख्यारूपेण लिखिता: अनेके ग्रन्था: समुपलभ्यन्ते | तेषु व्याख्या ग्रन्थेषु वाचस्पतिमिश्रकृता भामती नाम्नी टीका प्रसिद्धा विद्यते | सा च तथा दुरुहा यथा साप्यन्याभि: व्याख्याभि:  समलङ्कृता दृश्यते || 

ब्रह्मसूत्रभाष्यस्य व्याख्यारुपा स्वतन्त्ररुपा अनेकैराचार्यैर्लिखिता: अनेके ग्रन्था: समुपलभ्यन्ते , यैश्च व्याख्याकारै: भगवत्पाद-हृदय-गतं तात्पर्यं प्रकटयितुं प्रयतितम्,  तेष्वन्यतम: ख्यात नामा  रत्नप्रभाकार: रामानन्द सरस्वती | तत्कृता च टीका रत्नप्रभा | तामेव रत्नप्रभाख्यां टीकामधिकृत्यैव चिलकमर्ति दुर्गाप्रसादराव इत्याख्येन विदुषा कृतोsयं रत्नप्रभाविमर्शाख्यो ग्रन्थ: | 

पुस्तकमिदं  यSSमूलचूलमवालोकि |अस्य कर्ता रत्नप्रभाया: कर्तु: विषये मतान्तराणि व्युदास्य रामानन्द सरस्वतीमेव रत्नप्रभाकर्तारं स्वीकरोतीति |

ग्रन्थेsस्मिन्नष्टावध्याया: सन्ति | तेषु वेदान्त परक सिद्धान्तानां  प्रतिपादनं तद्विपरीतानां पूर्व पक्ष प्रदर्शन पूर्वकं खण्डनं विधाय ब्रह्मविषयक: विचार: प्रादर्शि ||  मध्ये मध्ये दुरुह वाक्यानां अर्थं कुर्वता रत्नप्रभाया: तात्पर्यमपि व्यलेखि |      

अथातो ब्रह्मजिज्ञासा सुत्रस्यास्य तात्पर्यं प्रदर्शयता २१ तमे पृष्टे तस्य समाधानमप्यवाचि | ख्याति वादस्य निरुपणावसरे sनिर्वचनीय ख्याते: स्वरूपं निरुपयता विदुषा स्वकीयं पाण्डित्यं प्रादर्शि | यद्यपि वेदान्तविषयका: सिद्धान्ता: सरलतया रीत्यात्र व्याख्याता: तथापि कुत्रचित् अस्पष्टत्वं दृश्यते एव तद्यथा अज्ञानस्यावरणशक्त्या कस्याच्छादानं भवति , आत्मनो वा परमात्मनो वेत्यत्र किंचिदस्पष्टत्वं विद्यते | (पृ -२१) | एवमेव तद्यथा अयं घट: ....वृत्यभिव्यक्तचैतन्यमेव घटो भासते ( पृ -२४) इत्यादि स्थलेषु ||

मुद्रण विषयकान्यनेकानि स्खलनानि पुस्तके सन्ति | ब्रह्म इत्यत्र स्थाने ब्रह्म इत्येवं प्राचुर्येण प्राप्यते| द्वे अपि इत्यत्र द्वेsपि (पृ -५९)  परिणामस्सर्वोपि सत्य एव पृ ३३| विदुषात्र निरुपिता: रत्नप्रभया: पौर्वापर्य संबन्ध एव रत्नप्रभाया: तात्पर्यं संयगवबोधयति , एतत् विशेषेण विमर्श कर्तु: वैशिष्ट्यम् ||

पुस्तकमिदं न केवलं साधारणजनानामपि तु वेदान्तसिद्धान्तजिज्ञासूनां कृतेs पि नितान्तमौपधिकत्वं भजते इति कृत्वा ग्रन्थकर्ता धन्यवादार्ह: |  भविष्येs पि एतादृशान्  ग्रन्थान् विरचयितुं संस्कृतस्य सेवां कुर्वाणोsयं विद्वान् दीर्घ जीवी भूयादिति कामायमान: ||                                                                                                   इन्द्रदत्त्त उनियाल:

संपादक:

विश्वसंस्कृतम्

<><><><><><><><><> 

No comments: