A Study of Ratnaprabha-Part-7
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
अध्यास:
(superimposition)
1. अध्यासस्वरुपनिरुपणे भगवत्पादानामाशय: |
ब्रह्मसूत्राणां शारीरकमिमासाभाष्यं विरचितवद्भि: श्री शंकरभगवत्पादै: आदावुपोद्घातरूपेणाsध्यसभाष्यमभाषि|| अत्र प्रथमत:
अध्यासस्वरुपनिरुपणे भाष्यकाराणामाशय: एवं प्रतिपादयितुं शक्यते || तथा हि:-
सर्वमतापेक्षया अद्वैते महद्वैलक्षण्यमस्ति || “आत्मैवेदं सर्वम् (छा.उ.7.25.2) “ब्रह्मैवेदममृतं पुरस्तात्”
(मु.उ.2.2.11) “सर्वं खल्विदं
ब्रह्म”(छा.उ.3.14.1) “नेह नानाsस्ति किञ्चन” (बृ.उ.4.4.19) “अतोsन्यदार्तम्” (बृ.उ.3.4.2) “नान्योsतोsस्ति द्रष्टा, नान्योsतोsस्ति श्रोता, नान्योsतोsस्ति मन्ता नान्योsतोsस्ति विज्ञाता (बृ.उ.3.7.23) इत्यादि श्रुत्यर्थे पर्यालोच्यमाने सर्वं
दृश्यमानं जीवेश्वरजगदात्मकं ब्रह्मरुपमिति , अन्यत्किमपि नास्तीति, कर्तृत्वभोक्तृत्वादिना
प्रतिभासमान: जीव: नित्यशुद्धबुद्धमुक्तस्वभावाद्ब्रह्मण: अन्यो नास्तीति, सर्वं
दृश्यमानम् अधिष्ठानस्वरुपज्ञानादेव नश्यतीति च गम्यते || एतत्सर्वंमात्माधिष्ठान
भ्रमाङ्गीकार एवोपपद्यते नाsन्यथा || अस्य गमकमादिम् “ अथाsतो ब्रह्मजिज्ञासा ” इति सूत्रम् || अथ =
साधनचतुष्टयसंपत्त्यनन्तरम् , ब्रह्म ज्ञानाय वेदान्तवाक्यविचार: कर्तव्य: इति सूत्रस्यास्य रत्नप्रभाव्याख्यानानुसारेण
निर्णेतव्योsर्थ: ||
लोके हि द्विविधं फलम् अनुभूयते || एकं सुखरूपम् || द्वितीयन्तु दु:खनिवृत्तिरूपम् || अन्यत्सर्वं
सुखप्राप्तिसाधनत्वेन दु:खनिवृत्तिसाधनत्वेन च इष्यते || सूत्रकारैस्तु सुखात्मकं फलं वा दु:खनिवृत्त्यात्मकं
फलं वा नोक्तम् || परन्तु ज्ञानमेवात्र फलत्वेनोक्तमवगम्यते || अत्र ज्ञानस्य सुखात्मकत्वं वा
दु:खनिवृत्त्यात्मकत्वं वा न सम्भवतीति तस्य कथं फलत्वम् ? इत्याशङ्का
स्यात् || तत्रेदं समाधानम् – ब्रह्मज्ञाने हि जाते दु;खनिवृति: भवति ब्रह्मानन्दप्राप्तिश्च भवति इति फलद्वयसाधनत्वं ब्रहमज्ञानस्य
संभवतीत्यभिप्रायं मनसि निधाय “अथातो ब्रह्मजिज्ञासा” इति सूत्रं प्रणिनाय भगवान् वेदव्यास: ||
लोके हि ज्ञानस्य फलमज्ञाननिवृत्तिरेव यथा प्रकाशस्यान्धकारनिवृत्ति: फलम् || न ततोsधिकतरं फलं
दृश्यते || एवं सति एतादृशब्रह्मज्ञानस्य सुखप्राप्तिदु:खनिवृत्त्यात्मकफलद्वयसाधनत्वं
कथम्? इत्यवश्यं विचारणीयं भवति ||
अत्रैवमुच्यते – अज्ञानेन सच्चिदानन्दरूपं ब्रह्मतत्त्वमावृतं सत् जीवेश्वरजगदात्मना भासते || अज्ञानवशादेव
स्वरुपानन्दस्तिरोहित: दु:खञ्च परिकल्पितम् || तथा हि:- सुखमनुभवत: निद्रादोषवशेनात्यन्तं दरिद्र: “दरिद्रोsस्मि”, दु:खीति सूचित: “ तत्र मम रक्षक:
कोsपि नास्ति , महारण्ये पतित: “ कथं वा मम
जीवनम्? ” इति स्वप्नभ्रान्ति: यदि भवति तदा सार्वभौमोsपि अन्यस्वरुपमापन्न: सार्वभौमत्वं सर्वं सुखं तिरोहितं दुखञ्च
परिकल्पितम् || अत्र सार्वभौमोsपि अन्यस्वरुपमापन्न: स्वरूपं सुखं विस्मृत्य काल्पनिकं दु:खमनुभवति || स एव प्रबुद्ध: चेत् काल्पनिकं सर्वं दु:खं
निवर्तते पुन: सार्वभौमानन्दं प्रतिपद्यते च || तत्र स्वरुपानन्दस्याननुभवे ल्पनिकदु:खस्यानुभवे
आवरणविक्षेपशक्तियुक्त: स्वरुपावरक एव कारणम् || आवरणशक्त्या स्वरुपमावृत्त्य विक्षेपशक्त्या
कर्तृत्वभोक्तृत्वप्रमातृत्वरूपं संसाराख्यं दु:खं कल्पयति || एवं
सत्वरजस्तमोगुणात्मकावरणशक्तियुक्तमूलाज्ञानं सच्चिदानन्दस्वरूपं परमात्मतत्त्वमावृत्त्य
, परिच्छिन्नजीवभावं
परिकल्प्य , तत्र कर्तृत्वभोक्तृत्वधर्मादिसंसारबन्धं परिकल्प्य संसारारण्ये संचालयति
जीवमिति वक्तव्यम् || तथा च सुप्तस्य प्रबोधवत् अज्ञाननिद्रायां सुप्तस्य ब्रह्मसाक्षात्कारात्मकप्रबोधे जाते
स्वप्नप्रायजीवत्वसंसारभ्रमादिकं निवर्तते स्वरुपानन्दश्च लभ्यते च || अत:
सुखप्राप्तिदु:खनिवृत्तिञ्च फलमनुक्त्वा “ज्ञा” धातुना ब्रह्मज्ञानमेव फलत्वेनोक्तवान् सूत्रकार:
इति गम्यते || तथा च ब्रहमज्ञानं दु:खनिवृत्तिसाधनं सुखावाप्तिसाधनञ्च भवतीति परमं
सिद्धान्तं मनसि निधाय भगवान् भाष्यकार: आदावध्यासभाष्यं रचयामास ||
पूर्णानन्दीयेsपि सारांशरुपेणायमेवार्थ: प्रतिपादित: || तथा हि:--
नित्यज्ञानसुखात्मा केनायं शोकसागरे मग्न: |
इत्यालोच्य यतीन्द्र: प्रागध्यासं प्रदर्शयामास ||
(पूर्णानन्दीयम्-पृ-14*
अयञ्च श्लोक: भाष्यार्थरत्नमालायामपि दृश्यते-श्लो-5)
No comments:
Post a Comment