A Study of Ratnaprabha-Part-8
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
अध्यास: (superimposition) Dr. Ch. DurgaprasadaRao
1.
अध्यासविषये
पूर्वपक्षसिद्धान्तां निरुपणम्
अस्मिन् भाष्ये स्थूणानिखननन्यायेन
(स्थूणा- गृहस्तंभभेद:|| स्थूणा यथाsसकृत् संचाल्य निखनने क्रियमाणे दृढा भवति तथोत्तरग्रन्थेन
प्रागुपस्थापनार्थदृढत्वसिद्ध्यै भवतीत्यर्थ:-- न्यायोक्तिकोश:) आत्मनि
अनात्माध्यास: न सम्भवतीति “ “युष्मदस्मत्प्रत्ययगोचरयो: ” इत्यादिना अध्यासासंभवं सयुक्तिकं प्रतिपाद्य “तथाप्यन्योन्यस्मिन्नन्योन्यात्मकताम्
“ इत्यादिना
अध्यास: समर्थित: भगवत्पादैरिति प्रतिभाति || अत्र भगवत्पादप्रदर्शितं पूर्व पक्षमतमेवं
प्रतिपाद्यते रत्नप्रभाकारै: || तथा हि:--
पूर्वपक्ष:
लोकेsध्यासं प्रति 1.अधिष्ठानसामान्यज्ञानं, 2. पूर्वानुभूतसंस्कार: , 3. सादृश्यं , 4.
दोषसंप्रयोगौ च कारणानि || तथा च शुक्तिरजताध्यासे यथार्थरजत विषयकानुभवजन्यस्संस्कारसंभवात् , इदमिति
सामान्यज्ञानस्य च सत्त्वात् , शुक्तिरजतयो: धालधल्यरूपसादृश्यस्य विद्यमानत्त्वात् , शुक्तिशकले
चक्षुस्सन्निकर्षस्य च सत्त्वात्
शुक्तौ “ इदं रजतम् ” इत्यध्यास: भवितुमर्हति || अत्र त्वात्मनि अधिष्ठान
सामान्यज्ञानाभावात्, संप्रयोगाभावात्, चिज्जडयो: सादृश्याभावात् सर्वस्यापि प्रपञ्चस्य मिथ्यात्वेन
सत्यप्रपञ्चस्याभावात् सत्यप्रपञ्चविषयकानुभवजन्यसंस्काराभावाच्च
कथमात्मन्यनात्माध्यास: इति पूर्वपक्षाभिप्राय: ||
अत्रात्माsनात्मनो: परस्परवैरुध्यं ऐक्यस्यायोग्यत्वञ्च युष्मदस्मदित्यादि वाक्येन
भगवपादै: प्रदर्शितम् ||
तथाहि :- 1. युष्मदस्मत्पदाभ्यां पराक्प्रत्यक्त्वेनात्मानात्मनो: वस्तुत; विरोध: उक्त:
|| 2. प्रत्ययपदेन तयो: प्रतीतित: विरोध: उक्त:|| प्रतीयते इति प्रत्यय: ,
अहङ्कारादिरनात्मा दृश्यतया भाति , आत्मा तु प्रतीतित्वात्प्रत्यय: स्वप्रकाशतया भाति || 3. गोचरपदेन व्यवहारत:
विरोध: उक्त: || युष्मदर्थ: प्रत्यगात्मतिरस्कारेण कर्ताsहमिति व्यवहारगोचर: , अस्मदर्थस्तु अनात्मप्रविलापेन
“अहं ब्रह्माsस्मि ” व्यवहारगोचर: इति त्रिधाsपि आत्मानात्म्नो: विरोध: ||(रत्नप्रभा-पृ-22)
एवमेव चिज्जडयोरात्मानात्मयोर्मध्ये
दीपघटयोरिव तादात्म्यमपि न संभवतीति स्पष्टीकृतं रत्नप्रभाकारै: || एवं चाssत्मनि
अनात्माध्यास: न संभवतीति पूर्वपक्षे प्राप्ते सिद्धान्त: ||
सिद्धान्त:
आत्मन्यनात्माध्यास; “ अहं कर्ता ”
“ अहं भोक्ता ” इति प्रात्यक्षिकानुभवस्य
सत्त्वान्नानुपपत्ति: || अध्याससामग्री चाप्यस्त्येव || तथा हि :-
1.
अहमिति
सामान्यज्ञानरुपमात्मज्ञान मस्त्येव ||
2.
आत्मप्रपञ्चयो: सत्त्वेन प्रतीयमानत्वा त्सत्वेन
सादृश्यमस्त्येव ||
3.
अविद्यादोषोप्यस्त्येव||
4. अध्यासं प्रति संस्करमात्रस्यैव कारणत्वेन पूर्वभ्रमजन्यसंस्कारस्योत्तरभ्रमं प्रति कारणत्वेन पूर्वानुभूतसंस्करोsप्यस्त्येवेति हेतुभि: पूर्वपक्षं निरस्याध्यास: आत्मनि संभवत्येवेति समर्थित: ||
अत्र रत्नप्रभाकारै: “विषयविशयिणोस्तमप्रकाशवद्विरुद्द स्वाभावयो:” इत्यत्र
विषयत्वं नाम दृश्यत्वं तच्चानात्मन एव,
तच्च चिद्भास्यत्वरूपम् ||
आत्मनस्तु चिद्रूपत्वमेव न तु चिद्भास्यत्वरूपं विषयत्वम् || तथा चाविषये
आत्मनि कथमनात्माध्यास:? सर्वो हि पुरोsवस्थिते विषये विषयान्तरमध्यस्यति प्रत्यगात्मनस्त्वविषयत्वात्तु
कथं तस्मिन्नध्यास: इत्याशंक्य , आत्मनोsपि विषयत्वमस्त्येवास्मत्प्रतययविषयत्वादित्युक्तम् ||
अत्रास्मत्प्रत्ययविषयत्वं नामाहमाकारवृत्ति विषयत्वम् ||
युष्मत्प्रत्ययविषयत्वं नामेदमि त्याकारकवृत्तिविषयत्वम् || तथा च आत्मनात्मनो:
वृत्तिविषयत्वे समाने सति विषयविषयिणोरिति
कथं संगच्छते इति तु अस्माभिरालोचनीयो विषय: || अत्रोक्तं रत्नप्रभाकारै: || भानभिन्नत्वे
सति भानप्रयोज्यसंशयनिवृत्यादिरुपफलभाक्त्वं विषयत्वमेकं,
भानभिन्नत्वरहितं भानप्रयोज्यसंशयनिवृत्यादिरुपफलभाक्त्वं विषयत्वमपरमिति विषयत्वं
द्विधा निरूपितम् ( रत्नप्रभा – पृ -49) || तथा चानयोर्विषयत्वयोर्मध्ये
भानभिन्नत्वघटितं विषयत्वमात्मन्यसंभवेsपि भानप्रयुक्तसंशय निवृत्त्यादिफलभाक्त्वात्
द्वितीयं रूपं विषयत्वं संभवत्येवेति समर्थितम् || तत्रायमभिप्राय: || भानं नाम वृत्तिप्रतिबिम्बितं
चैतन्यम् ||
तद्यथा :- अयं घट: इत्यत्र घट चक्षुस्संयोगनन्तरं घटाकारवृत्तौ जातायां सत्यां तत्र वृत्तौ घटावच्छिन्नचैतन्यं
प्रतिबिम्बते || घट ज्ञानात्पूर्वं “ घटं न जानामि ” इत्यनुभूयमानमज्ञानं
घटाकारवृत्या नाश्यते || वृत्त्यभिव्यक्तचैतन्येन घटो भास्यते || तथा च घटे विषयत्वसमन्वय:
||
भानभिन्नत्वं चैतन्यभिन्नत्वं घटे वर्तते || भानप्रयुक्तसंशयनिवृत्त्यादि –
अर्थात्- घटाकार वृत्यभिव्यक्तचैतन्यरूपज्ञानेन “अयं घटो वा न वा ” इति संशय:
निवर्तते एव || तथा च भानप्रयुक्तसंशयनिवृत्त्यादिफलभाक्त्वं नाम
फलाश्रयत्वम्- अर्थात्
संशयविपर्ययविषयत्वाभाव: ||
एतादृश विषयत्वं सर्वेष्वपि विषयेष्वस्त्येव आत्मनि तु भानभिन्नत्वं नास्ति|| अत्र भानं नाम चैतन्यं, चैतन्यभिन्नत्वं चैतन्ये
नास्तीति भानभिन्नत्वग्तितं विषयत्वं न संभवति || भानप्रयुक्तसंशयनिवृत्त्यादि फलभाक्त्त्वं
त्वत्मन्यस्त्येव ||
No comments:
Post a Comment