Wednesday, August 29, 2012

संस्कृते पेरडी


संस्कृतसाहित्ये 'पेरडी' कविताप्रक्रिया
Dr. Chilakamarthi Durgaprasada Rao
Centre for Consciousness Studies,
Dayalbagh Educational Institute,
Dayalbagh, AGRA
+91-9897959425

आधुनिके साहित्ये बह्व्य: कविताप्रक्रिया: सन्ति | तासु प्रक्रियासु "पेरडी " नाम्नी प्रक्रिया अन्यतमा| वस्तुत: एषा प्रक्रिया आंग्लसाहित्यात् आगता | आंग्लभाषायां 'पेरडी' इति पदं paroidiaइति ग्रीक् भाषापदात् उद्दृतम् | तस्य अर्थस्तु तावदयम् |
Parody is a humorous imitation of a serious writing. A parody follows the form of original, but often it changes its sense, that making fun of the writer's characteristics. (Sankaranarayana, English-English-Telugu Dictionary)
  1. a humourous exhaggirated imitation of an author, literary work style etc.
  2. A feeble imitation.
कविगतहास्यरसप्रियत्वं, आक्षेपस्वभाव:, संघसंस्करणाभिलाष: च पेरडीकविताविर्भावस्य मूलकारणानि | तत्र चमत्कारजनकत्वं तु मुख्यं प्रयोजनम् | एषा 'पेरडी ' नाम्नी कविता सर्वास्वपि आधुनिकभाषासु सुष्ठु उपलभ्यते | संस्कृतसाहित्ये अपि एषा प्रक्रिया कविभि: स्वीक्रियते पण्डितै: आद्रियते इति आश्चर्यजनक: अयं विषय:|
वॆदा:
पेरडीकवय: वेदवचनान्यपि न त्यक्तवन्त: | स्वप्रक्रियायां स्वीकृत्य अनुकृतवन्त: ,अन्यथा कृतवन्त: वा |केचन भोजनप्रिया : कवय : वेदस्थं चमकम् " 'इड्ली ' च मे 'उप्मा ' च मे 'पूरी ' च मे 'चपाती ' च मे " इत्यादि प्रकारेण अनुकृतवन्त : |
उपनिषद:
कठोपनिषदीय: आत्मस्वरूपनिरूपणपर: एक: श्लोक: अस्ति | यम: आत्मस्वरूपं समुपवर्णयन् नचिकेतसं वदति|

अणोरणीयान्महतो महीया
नात्मास्य जन्तोर्निहितो गुहायाम्
तमक्रतु:पश्यति वीतशोको
धातुप्रसादान्महिमानमात्मन: (\२०)
अस्य श्लोकस्य अर्थस्तु तावदयम् | आत्मा अणोरपि सूक्ष्मतर: | महत्परिमाणादपि महत्तर:| स च ब्रह्मादि स्तम्बपर्यन्तस्य प्राणिजातस्य हृदये स्थित:| तमात्मानं मनोनिग्रहयुक्त: कामविरक्त: च पुरुष: साक्षात्कर्तुं शक्नोति|
अमुं तात्त्विकं श्लोकम् आधारीकृत्य कश्चन कवि: एकं मनोहरं श्लोकं विरचितवान् |

अणोरणीयान्महतो महीयान्
मध्य: कुचौ तत्र गतौ तरुण्या:
तदन्तराळे प्रविलम्बमानं
यज्ञोपवीतं परमं पवित्रम्

अस्य श्लोकस्य सांदर्भिक: अर्थ: तावदयम् | तथाहि :- एका तरुणी अस्ति तस्या: मध्य: अणोरपि सूक्ष्मतर: स्तनौ तु महतोपि महीयांसौ | तां तरुणीं कश्चन वटु: आलिंग्य तिष्ठति | तदा तस्य यज्ञोपवीत: तस्या : वक्षस्थलं स्पृशति | तत् दृश्यं दूरत : पश्यन् हास्यप्रिय:, कामुक:, वाचाल : च कश्चन कवि: तथा वर्णयति|
भगवद्गीता
भगवद्गीतायां कर्मयोगे कश्चन श्लोक: अस्ति |-

संन्यास : कर्मयोगश्च निश्रेयसकरावुभौ
तयोश्च कर्मसन्यासात्कर्म योगो विशिष्यते ||इति ||

अस्मिन् श्लोके भगवता श्री कृष्णेन कर्मकर्मसन्यासयोगयो : मध्ये विद्यमानो भेद : कर्मसन्यासापेक्षया कर्मयोगस्य वैशिष्ट्यं च प्रतिपादितमस्ति | अमुं श्लोकमाधारीकृत्य केनचित् हस्यप्रियेण चायपानाभिलाषिणा प्रतिभावता च कविना एष श्लोक : विरचित : |

काफ़ीपानं च टीपानं निश्रेयसकरे उभे |
काफ़ी टीपानयोर्मध्ये टीपानं हि विशिष्यते ||

काफ़ीपानं टीपानं च उत्तेजकत्ववर्धने उल्लासवर्धने च उपकुरुत:| परन्तु तयोर्मध्ये कस्य पानं क्षेमतरम् इति शंकायां टीपानस्यैव श्रेष्ठत्वं प्रतिपादितमत्र | अत्र टीपानीयादपि काफ़ीपानीयस्य न्यूनत्वं केनचिदन्येन कविना सयुक्तिकं समर्थितम् | तथा हि :-

कालकूटं च दैत्यानां पीयूषं च दिवौकसाम्
उभौ मिळित्वा मर्त्यानां काफ़ी भूलोकवासिनाम् ||
अमृतमथनसमये दैत्या: कालकूटाभिदं विषं प्राप्तवन्त: | देवा: पीयूषापरनामधेयम् अमृतं प्राप्तवन्त: | अत्र निष्क्रियावतां मानवानां कृते भगवता किं दत्तम् इति चेदुच्यते | देव: कालकूटविषात् ' का' इत्यक्षरं , पीयूषात् 'पी' इत्यक्षरं च निष्कास्य ' काफ़ीं ' निर्माय मानवेभ्यो दत्तवान् | अत: काफ़ीपानीये अमृते विद्यमाना रुचि: कालकूटॆ विद्यमाना मादकशक्ति: च स्त: |
एवमेव भगवद्गीतायाम् अन्योपि कश्चन श्लोक: अस्ति |
चतुर्विधा: भजन्ते मां जना: सुकृतिनो र्जुन!

आर्तो जिज्ञासुरर्थार्थी ज्ञनी च भरतर्षभ! || इति ||

श्रीकृष्ण: गीतायाम् अर्जुनं वदति हे अर्जुन! मां सुकृतिन एव भजन्ते | तेषु चत्वार: भेदा: वर्तन्ते | केचन आर्तिनिवारणार्थं माम् आश्रयन्ति | अन्ये केचन तत्त्वज्ञानार्थं माम् आश्रयन्ति | अपरे केचन मत्त: किमपि प्रयोजनम् आशंक्य भजन्ते | इतरे च केचन कॆवलाय आत्मज्ञानायैव माम् आश्रितवन्त: दृश्यन्ते |
अमुं श्लोकं मनसि निधाय प्रख्यातेन कविना आचार्य पुल्लेल श्रीरामचन्द्रुडुमहाभागेन अधो निर्दिष्ट: श्लोक: विरचित:| श्लोके च अस्मिन् आधुनिकसमाजे राजाश्रयकांक्षिणां जनानां स्वरूपस्वभावादिकं सुनिपुणं प्रदर्शितम् | तथा हि :-


चतुर्विधा भजन्ते मां जना: सुचतुरा : प्रभुं
कवय: कार्यकर्तार: कान्ता: कार्याक्षमाश्च ये ||


अत्र ये ये जना: राजानम् आश्रित्य जीवनं यापयन्ति तॆषां प्रस्ताव: कृत: | राजानं कवय: भजन्ते |कार्यकर्तार: भजन्ते | कान्ता: भजन्ते | कार्यनिर्वहणे अदक्षा: अपि राजानं भजन्ते |
रामायणम्
इदानीं रामायणं प्रविशाम: | तत्रत्य: अयं श्लोक: सुप्रसिद्ध:|


नाहं जानामि केयूरे नाहं जानामि कुण्डले
नूपुरेत्वभिजानामि नित्यं पादाभिवन्दनात् ||इति ||


लक्ष्मणेन रामं प्रति प्रोक्तानि वचनानि इमानि | अस्य अर्थस्तु – " हे भ्रात: ! अहं सीताया: केयूरे न जानामि | कुण्डले अपि न जानामि | यत: तेषामुपरि मम दृष्टि: कदापि न आसीत् | अहं प्रति दिनं तस्या: पादाभिवन्दनं कुर्वन् आसम् | अत: अहं तस्या: नूपुरे सम्यक् जानामि " इति | लक्ष्मणसौशील्यद्योतक: अयं रमणीय: श्लोक:|
अमुं श्लोकमाधारीकृत्य आचार्य पुल्ल्लेल श्रीरामचन्द्रुडु महाभाग: महान् कवि: कुहनाध्यापकानां कार्याणि स्वभावं च सुनिपुणं प्रदर्शितवान् |
" नाहं जानामि पाठ्यांशान्नाहं जानामि पाठनं
जानामि त्वधिकारस्थान्नित्यं पादाभिवन्दनात् "

अस्य श्लोकस्य अर्थस्तु तावदयम् | अहं पाठ्यग्रन्थान् न जानामि | पाठनमपि न जानामि | अहम् एकमेव कार्यं जानामि | अधिकारपदे स्थितानां सर्वेषां नमस्कृत्य कालं यापयामि | अत: तान् सर्वानहं सम्यक् जानामि | |

रघुवंशमहाकाव्यम्
रघुवंशमहाकाव्ये काळिदास: रघुवंशराजानां सद्गुणान् एवं वर्णयति |--

शैशवेभ्यस्त विद्यानां यौवने विषयैषिणाम
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् | इति|

अस्य श्लोकस्य सारांश: तावदयम् – “ रघुवंशीया: महाराजा: बाल्यावस्थायां समस्ता: विद्या: सम्यक् अधीतवन्त:| यौवने विषयसुखान् अनुभूतवन्त: | वार्धक्ये मुनिवृत्तिम् आश्रित्य कालस्य सद्विनियॊगं कृतवन्त: | तदनन्तरं जीवनस्य चरमे वयसि योगमार्गेण शरीरं परित्यक्तवन्त:” इति| अमुं श्लोकम् अनुकृत्य प्रस्तुतसमाजे कालस्य वृथा यापनं कुर्वतां जनानां स्थितिं वर्णयति कश्चन कवि:|

"शैशवे ध्वस्तविद्यानां यौवने विषयैषिणां
वार्धके शनिवृत्तीनां रोगेणान्ते तनुत्यजाम्"

प्रस्तुतसमाजे प्रायश: बाल्यदशायां सर्वे ध्वस्तविद्या:| यौवनदशायां सुखलालसा: | वार्धक्ये शनि: इव सर्वान् पीडयन्त: चरमे वयसि विविधै : रोगै: बाध्यमाना: शरीरं त्यक्तवन्त: भवन्ति| श्लोक: अयं प्रस्तुत समाजस्य वास्तविकीं स्थितिं ननु प्रदर्शयति?
अन्यमेकं श्लोकं पश्यन्तु |
कालॊ वा कारणं राज्ञ: राजा कालस्य कारणं
इति ते संशयो माभूद्राजा कालस्य कारणम् |

द्वौ पुरुषौ परस्परं विवादं कुरुत:| एक: वदति यत् काल एव राज्ञ: कारणं भवति इति | अपर : वदति यत् राजा एव कालस्य कारणं भवति इति | अत्र तयो: कालराज्ञो: मध्ये क: बलवत्तर: इति शंकायां राजा एव कालस्य कारणं भवति स: कालमपि शासितुं प्रभवति इति सिद्धान्त:| आस्तां तावत् | तदाधारीकृत्य लिखितम् आक्षॆपगर्भितम् अमुं हास्यरसात्मकं श्लोकं पश्यन्तु |

कुक्कुट्या: कारणं वाण्डं कुक्कुटी वाण्डकारणं
इति ते संशयो मा भूदुभयं तृप्तिकारणम् |

द्वौ तार्किकौ परस्परं विवादं कुरुत: | एक: वदति कुक्कुटी अण्डस्य कारणं भवति इति | अपर: तस्य अभिप्रायं निराकुर्वन् वदति अण्ड: एव कुक्कुट्या: कारणं भवति इति | तयो: विवादस्य अन्त: एव नोपलभ्यते | कश्चन अपर: तयोर्विवादं श्रुण्वन्नस्ति | : तयो: शुष्कतर्केण कोपोद्रिक्त: सन् तावुभौ उद्दिश्य वदति | हे मित्रे! अण्डस्य कारणं कुक्कुटी भवति वा उत अण्ड एव कुक्कुट्या: कारणं भवति वा इति विचार: अनावश्यक : | कुत इति चेत् उभयो: अपि कुक्कुटीकुक्कुटयो : संयोग एव मूलकारणं भवति |
उपसंहार: प्रायश: ' पेरडी ' प्रक्रियायां विरचिता: सर्वेपि श्लोका: अज्ञातकर्तृका: एव सन्ति | तत्र कारणद्वयं वर्तते | प्रथमं तु तेषां परिहासात्मकत्वं द्वितीयं तु औचित्यराहित्यम् | अत: कवे: नाम गोपनीयमेव भवति सर्वत्र सर्वदा | ते यद्यपि परिहासात्मकानि, औचित्यविरहितानि, अश्लीलात्मकानि च भवन्ति तथापि विषयप्रतिपादने कवे: प्रतिभा सर्वत्र दरीदृश्यते इति ते आमोदयोग्या: प्रशंसनीया: च भवन्ति|
स्थालीपुलाकन्यायेन कानिचन उदाहरणान्येव मया अत्र स्वीकृतानि| संस्कृतसाहित्ये इतोपि बहूनि उदाहरणानि सन्ति | व्यासविस्तरभिया तानि सर्वाणि नात्र प्रदर्श्यन्ते इत्यलमतिविस्तरॆण |

No comments: