Tuesday, July 15, 2014

अद्वैते मोक्ष:

अद्वैते मोक्ष:

DR.CHILAKAMARTI  DURGAPRASADA RAO
   3/106, Premnagar, Dayalbagh,AGRA .
+919897959425

र्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्षस्यैव परमपुरुषार्थत्वमुच्यते निरतिशयसुखरूपत्वात्तस्य | न स पुनरावर्तते (छा.उ-8/15/1)   इत्यादि श्रुत्या मोक्षस्यात्यन्तिकपुरुषार्थत्वमुपपन्नमेव| धर्माद्यपेक्षया मोक्षस्याभ्यर्हितत्वात्तद्विषयेsत्यन्तासक्ति: प्रदर्शिता भारतीयै: दार्शनिकै:||
                 मूलाज्ञाननाशात्स्वस्वरूपप्राप्ति: अर्थात् आत्मसाक्षात्कार एव मोक्ष इति वेदान्तिनामाशय:| श्रीशङ्करभगवत्पादा: अविद्यानिवृत्तौ स्वात्मन्यस्थानं परप्राप्ति: इति मोक्षस्वरूपं प्रतिपादयामासु:|
                                  ब्रह्मसूत्रभाष्यव्याख्यात्रा रामानन्देन स्वरत्नप्रभायां कर्तृत्वाद्यनर्थहेतो: अध्यासस्य समूलस्यात्यन्तिकनाशो मोक्ष इति मोक्षस्य स्वरुपमुक्तम् | अत्राध्यासस्यानर्थहेतुत्वं रत्नप्रभाव्याख्यानानुसारेनैवं प्रतिपाद्यते |           
 ब्रह्मसूत्राणां शारीरकमीमांसाभाष्यं विरचितवद्भि: श्रीशङ्करभगवत्पादै: आदावुपोद्घातरुपेणाध्यासभाष्यमभाषि | तत्र स्मृतिरूप: पूर्वदृष्टावभास: इति अध्यासलक्षणं प्रदर्शितम् | एतद्व्याख्यानावसरे रत्नप्रभाकारै: अत्र परत्र अवभास: इत्येव लक्षणं शिष्टं पदद्वयं तदुपपादनार्थमित्युक्तम् |  
     परत्र =शुक्तिशकलादौ
     अवभास: = परस्य रजतस्य अवभास: ||
तथा च एकस्मिन्वस्तुनि अन्यवस्त्वात्मकवृत्तिरेवाध्यास: इत्युक्तम् | दृष्टं दर्शनं पूर्वानुभव: पूर्वानुभवजन्य: संस्कारजन्य: इत्युक्तं भवति | तथा च पूर्वदर्शनादवभास्यत इति पूर्वदृष्टावभास: | स्मृतिरूप: इत्यत्र  स्मर्यते इति स्मृति: सत्यरजतादि: | स्मृते: रुपमिव रूपं यस्य स: स्मृतिरूप: इत्यर्थस्वीकारेण स्मर्यमाणसदृश: इत्यर्थ: फलति | एवञ्च प्रपञ्चभ्रमोsपि पूर्वप्रपञ्चानुभवजन्यसंस्काराधीन: पूर्वप्रपञ्चसदृश: सन्ततं प्रवाहरुपेणानुवर्तत इत्युक्तम् |
                                   अयमध्यास: साद्यनादिभेदेन द्विविध:| अत्र सादित्वं जन्यत्वमनादित्वमजन्यत्वम् |    अहंकाराध्यास: सादि: अविद्याचितोरध्यासोsनादि: | अत्र रत्नप्रभाकारै: साद्यनाद्यध्यास-साधारणलक्षणन्त्वेवमुक्तम् |
एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववत्यवभास्यत्वमध्यस्तत्वम् इति | अस्य लक्षणस्य समन्वय: एवं क्रियते |          
      रजताध्यासे एकावच्छेदेन = इदन्त्वावच्छेदेन
                  स्वसंसृज्यमाने इत्यत्र स्वपदं अध्यस्तत्वेनाभिहित वस्तुपरं तच्च रजतम् | आरोपरजतेन स्वसंसृज्यमाने शुक्तिशकले वस्तुत:
स्वात्यन्ताभाववति = पारमार्थिकत्वावच्छिन्नप्रतियोगिताक राजताभाववति
अवभास्यत्वम् = इदं रजतमिति भासमानत्वं राजतेsस्तीति लक्षणसमन्वय:|
अत्रायमभिप्राय: | यत्र यद्वस्त्वस्तीति भासते तत्र तद्वस्तु  नास्तीत्युच्यते | लोके हि घटवद्भूतलमित्यत्र  यस्मिन् भूतले घटोsस्तीति प्रतीयते  तस्मिन्नेव घटाधिकरणे घटो नास्तीति प्रतीतिर्न भवति अनुभवविरुद्धत्वात् | अत्राध्यासस्थले तु इदं रजतम् इति रजतत्वेन प्रतीयमाने शुक्तिशकले सहस्रजनानुभवविषयत्वेsपि  परमार्थतस्तत्र रजतस्याभावात् स्वात्यन्ताभाववत्यवभास्यत्वमस्त्येव |
                    एवञ्च- एकावच्छेदेन= आत्मत्वावच्छेदेन
                    स्वात्यन्ताभाववति= जीवत्वेश्वरत्वजगदात्मकदृश्यात्यन्ताभाववति 
       अवभास्यत्वम् = जीवेश्वरजगदात्मकदृश्ये लक्ष्यमाणत्वाल्लक्षणसमन्वय: |

           नैय्यायिकास्तु कपि - संयोगी- वृक्ष: इत्यत्र अग्रे वृक्ष: कपिसंयोगी मूले न इति प्रतीत्या अग्रदेशे कपिसंयोगो वर्तते मूलदेशे स: नास्तीति कपिसंयोगाधिकरणाभावे वृक्षे कपिसंयोगस्य सत्यत्वमङ्गीकुर्वन्ति |
              किञ्च घटापसरणानन्तरं घटो नास्तीति घटाधिकरणे एव घटप्रतीतिमभ्युपगच्छन्ति | वेदान्तिनस्तु न तथा | यस्मिन् काले यदवच्छेदेन  यद्यस्मिन् प्रतीयते तस्मिन् काले  तदवच्छेदेन तत्तत्र नास्त्येवेति  सर्वथा तत्र परमार्थत: असत्त्वमेवाभ्युपगच्छन्ति|
                   श्रीशङ्करभगवत्पादै: शुक्तिका हि रजतवदवभासते   एक: चन्द्र: सद्वितीयवत् इति अध्यासद्वयं दृष्टान्तत्वेनाभिहितम् | अत्र शुक्तिशकलं राजतात्मना भासत इति अन्यस्य वस्तुन: अन्यवस्त्वात्मना भाने दृष्टान्त:|
 एकस्य वस्तुन: अनेकवस्त्वात्मना भाने तु एक: चन्द्र: सद्वितीयवत्  इति दृष्टान्त: | प्रकृते आत्माधिष्ठानभ्रमरुपाध्यासे दृष्टान्तद्वयमप्यनुकूलमेव | मूलाज्ञानेनावृतं परमात्मतत्त्वं जीवेश्वरजगदात्मना भासते | अनेकवस्त्वात्मना च भासते | तथा च सर्वैरपि ज्ञानिभिरज्ञानिभिश्च ब्रह्मतत्त्वमेव दृश्यते | ज्ञानिभिस्तु सर्वं ब्रह्मात्मना दृश्यते | अज्ञानिभिस्तु जीवेश्वरजगदात्मना दृश्यते |
                  सर्वेष्वप्यध्यासेषु अविद्याया: कारणत्वं संभाव्यते | तथा च अध्यास: कार्यरूप: अविद्या कारणरुपा चेति विज्ञेयम् | उक्तञ्च भगवत्पादै: तमेवं लक्षणमध्यासं पण्डिता: अविद्येति मन्यन्ते इति |
अविद्या नाम सत्वरजस्तमोगुणोपेता आवरणविक्षेपशक्तियुक्ता प्रकृति:| तादृश्यविद्वैव     कारणाध्यास: इत्युच्यते | इदं रजतम् इत्यत्र मूलाविद्यापरतन्त्रतूलाविद्या रजताकारेण रजतज्ञानाकारेण च परिणमते, यदि शुक्ति रजतादीनामविद्यापरिणामित्वमङ्गीकुर्वन्ति | अत एव मूलाविद्याया: परिणाम्युपादानत्वं ब्रह्मणस्तु विवर्तोपादानत्वमिति वेदान्तिनामशय:| तत्त्वतोsन्यथाभाव: परिणाम: यथा क्षीरस्य दधिरूपेण परिणाम:| अतत्त्वतोsन्यथाभाव: विवर्त:| यथा रज्जो: सर्परूपेण अवभास: | सर्वस्याप्यविद्यापरिणामित्वादेव सुषुप्त्यवस्थायामविद्यायां लय: प्रबोधे च पुन: तत एवाविर्भाव इति    वेदान्तिनामाशय: |
 
                          एवञ्च सर्वेष्वप्यध्यासेषु अज्ञानमेव मूलमिति वक्तव्यम्| अज्ञानं द्विविधम् असत्वावरणप्रधानमभानावरणप्रधानञ्च | परोक्षज्ञानेन असत्वावरणप्रधानमज्ञानं निवर्तते | अभानावरणप्रधानन्तु यथापूर्वं वर्तत एव  | यथा दूरे महापरिमाणे वृक्षे अल्पपरिमाणत्वाभ्रान्ति: कस्य चिज्जाता | तत: तादृशवृक्षसमीपादागतेन पुरुषेण
 अयं वृक्ष: अत्यधिकपरिमाण: नाsल्पपरिमाण: भूशाखाशिंशुपादिसहित: इत्युक्ते अल्पपरिमाणभ्रान्तिमत: पुरुषस्य यदज्ञानमासीत् तच्चाज्ञानम् अधिकपरिमाणोपदेशजन्य ज्ञानेन नष्टं वा न वा? नष्टमेव |    किन्त्वत्रासत्वावणमेव नष्टम् | अभानावरणन्तु नष्टम् | अन्यै: शतधा उक्तमपि प्रत्यक्षमल्पपरिणाममेव दृश्यते ना sधिकपरिमाणम्| तत् कुत इत्युक्तौ अभानावरणस्य यथापूर्वं विद्यमानत्वात् | तादृश अभानावरणस्य निवृत्ति: वृक्षसमीपं गत्वा तादृशम् अधिकपरिमाणं    वृक्षं यदा पश्यति तदा भवति| तच्च ज्ञानमपरोक्षज्ञानमेव | तादृशापरोक्षज्ञानमेवाभानावरणस्य निवर्तकं भवति | अत एव लोके वेदान्तश्रवणं क्रियमाणमपि तत: परोक्षज्ञानं जायमानमपि तत् अपरोक्षाध्यासनिवर्तकं न भवति|
तथा हि:- वेदान्तश्रवणेन जीवत्वं पारमार्थिकं न भवति| ब्रह्मैक्यमेव जीवस्य पारमार्थिकं स्वरूपमिति ज्ञानं जातमेव | तच्च ज्ञानं असत्वावरणं निवर्तयति | अभानावरणनिवर्तकं न भवति | यदा मनन-निदिध्यासनादिभि:अपरोक्षब्रह्मसाक्षात्कारो भवति तदैव मूला ज्ञाननिवृत्ति: भवति  अपरोक्षाध्यासोsपि निवर्तते |
               श्रीशङ्करभगवत्पादा: अध्यासलक्षणं तत्संभावनादिकञ्च निरूप्य लौकिका: वैदिकाश्च सर्वे प्रमाणप्रमेयव्यवहारा: अध्यासवशेनैवेति प्रतिपादयामासु: | एवञ्च अस्याध्यासस्याविद्याकल्पितकर्तृत्वभोक्तृत्वादिबन्धहेतुत्वात् ब्रहमात्मैकत्वविज्ञानेन बन्धनिवृत्तिर्भवति | स एव मोक्ष: |
                 मुक्ति: ब्रह्मणोsन्या  चेत् ब्रह्मैकं मुक्तिरेकेति द्वैतमेवापद्येत | तच्च नाsभीष्टम् | ब्रह्मैव जिज्ञासाविषय: ब्रह्मैव फलम् | अत्राज्ञातत्वेन ब्रह्मण: जिज्ञासाविषयत्वं ज्ञातत्वेन फलत्वमिति विज्ञेयम् | ब्रह्मज्ञानं तु भग्नावरणचिद्रूपं ब्रह्मैव मुक्ति: |
अत्रेयमाशंका | मुक्ति: यदि ब्रह्मरुपा तर्हि ब्रह्म सिद्धमेवेति सिद्धस्य साधनाय श्रवणात्मकब्रह्मविचार: व्यर्थ: स्यात् | यद्यविद्यानिवृत्ति: ब्रह्मज्ञानसाध्या सैव मुक्तिश्चेत्   अविद्यानिवृत्ते: अभावरुपत्वेन आनन्दस्वरुपत्वं न स्यात् |  
                    यदि ब्रह्म अविद्यानिवृत्तेरन्यत् तर्हि अद्वैतहानि:| अविद्यानिवृत्तिविशिष्टं ब्रह्म चेन्मुक्ति: विशेषणांशस्य मिथ्यात्वेन विशिष्टस्यापि मिथ्यात्वापत्त्या पारमार्थिकत्वानुपपत्ति: | अत: अविद्यानिवृत्युपलक्षितचैतन्यं मोक्ष इति सिद्धान्त: | तथा च अविद्यानिवृत्तेरुपलक्षणविधया निवेशेन विशिष्टत्वासंभवात् मुक्ते: चैतन्य- रुपत्वेन स्वप्रकाशानन्दरुपत्वमपि सिध्यतीति न कोsपि दोष: | सा च सच्चिदानन्दाद्वैतब्रह्मस्वरुपा | सा न साध्या परन्तु सिद्धैव | सिद्धायामप्यसिद्धत्वभ्रान्त्या तद्भ्रान्तिमूलाविद्यानिवृत्तये श्रवणादौ प्रवर्तन्ते मुमुक्षव: |
एवं स्वस्वरुपावस्थानमुक्तिस्तु सर्वेषां समाना  तारतम्यवर्जिता च | उक्तं च भगवता व्यासेन एतेन मुक्तिफलाsनियम: तदवस्था तद्वते: तदवस्था तद्वते: | तथा हि :- मुक्तिफले नियमो नास्ति | तारतम्यं नास्ति | कालनियमो वा देशनियमो वा तारतम्यं वा नास्तीत्यर्थ: | एवञ्च सर्वेषां समानरूपा मुक्ति: स्वस्वरूपावस्थानमेव | एतदेवाभिप्रेत्योक्तं रत्नप्रभाकारै: रामानन्दसरस्वतीश्रीचरणै: अविद्यानिवृत्युपलक्षित ब्रह्मभावो मोक्ष: इत्यलमतिविस्तरेण |   

                            ***                             

No comments: