Friday, August 29, 2014

तर्जनी अभूत् सार्थकनामधेया

तर्जनी अभूत्  सार्थकनामधेया
डाक्टर्. चिलकमर्ति दुर्गाप्रसादरावु
3/106, प्रेम नगर,
 दयालबाग, आगरा.
कालिदासमहाकवे: वैशिष्ट्यं सर्वे जानन्त्येव | अङ्गुलिगणनीयेषु अन्यतम: स:|  तद्वैशिष्ट्यविषये विरचित: श्लोक: अपि सरस: सुप्रसिद्धश्च |

पुरा कवीनां गणनाप्रसङ्गे
कनिष्ठिकाधिष्ठितकालिदासा ||
अद्यापि तत्तुल्यकवेरभावात्
अनामिका सार्थवती बभूव||

अत्र विषय: तावदयम् | केचन अङ्गुलिकागणनावसरे  कनिष्ठिकात: आरभ्य गणनां कुर्वन्ति | पूर्वोक्त: श्लोक: तेषाम् आनुकूल्याय भवति | पुन: केचन सन्ति , ये च अङ्गुष्ठादारभ्य गणनां कुर्यु: | तेषामप्यानुकूल्यं कल्पयितुम् आन्ध्रदेशीयेन लब्धप्रतिष्ठेन स्वर्गीयेण श्रीमदत्तिलि गोपालकृष्णमाचार्येण महाकविना विरचित: अधोनिर्दिष्ट: श्लोक: अतीव प्रसिद्धोsपि नातिपरिचित: इति कृत्वा अत्र प्रस्तूयते |

पुरा कवीनां गणनाप्रसङ्गे
त्वङ्गुष्ठिकाधिष्ठितकालिदासा ||
तत्तौल्यमुद्भावयितृन्प्रतर्ज्याs
भूत्तर्जनी सार्थकनामधेया ||

एकेन अनामिकाया: सर्धकता प्रतिपाद्यते , अपरेण  च तर्जन्या: |

अहो ! कविताचातुरी नाम || 

No comments: