सत्यात् नास्ति
परो धर्म:
Dr. Durga Prasada Rao Chilakamarthi
3/106, Premnagar, Dayalbagh, AGRA
आहारनिद्राभयमैथुनञ्च
सामान्यमेतत्पशुभिर्नराणाम्
धर्मो हि
तेषामधिको विशेष:
धर्मेण हीना:
पशुभि: समाना: - इत्यार्यवचनम् ||
तदनुसृत्य
आहारनिद्राभयमैथुनादिषु मानवानां पशूनाञ्च मध्ये न कोsपि व्यत्यास: अस्ति || केवलं
धर्मेणैव मानव: प्राण्यन्तरेभ्यो भिद्यतेsतिशेते च || यदि मानव: धर्मभ्रष्ठ: अथवा
धर्महीन: भवति तर्हि पशुतुल्य : एव भवति ||
अत्र धर्मो नाम क:
? इत्याशङ्कायां जगन्मूलकत्वेन संसृतिनियामकानि तत्त्वानि धर्मपदेन व्यपदिश्यन्ते
|| “ वेदोsखिलो धर्ममूलम् ” इत्युक्त्या वेद:
सर्वेषां धर्माणां आकार: इति ज्ञायते || अत: धर्मस्वरुपनिरुपणविषये वेद एवास्माकं
परमं प्रमाणमित्यवश्यमङ्गीकर्तव्यम् ||
‘धर्म’ इति शब्द:
बह्वर्थेषु प्रयुक्त: दृश्यते || कल्याणकारि कर्म धर्म इति केचन मन्यन्ते ||
वेदप्रतिपाद्य: प्रयोजनवदर्थ: धर्म इत्यपरे मन्यन्ते || धरति लोकान् इति धर्म: इति
केचन, ध्रियते अनेन इति धर्म: इति पुन: केचन मन्यन्ते || तथा च धर्म:
मानवलोकपरित्रायक:, समुन्नतिसाधक:, अविनीतिनिर्मूलक:, ज्ञानविज्ञानशौर्यादिगुणसंपादक:,
आस्तिक्य बुद्धिप्रवर्तकश्च भवति || धर्मस्य लक्षणानि एवं प्रतिपाद्यन्ते || तथाहि
:--
धृति: क्षमा
दमोsस्तेय: शौचमिन्द्रियनिग्रह: |
धीर्विद्या
सत्यमक्रोध: दशकं धर्मलक्षणम् ||
अत्र “धृति:” नाम अवसन्नानां
देहेन्द्रियाणामवष्ठंभनहेतु: प्रयत्न: ||
“क्षमा” नाम आकृष्टस्य
ताडितस्य वा अविकृतचित्तता || “दमो” नाम
ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च निग्रह: || “अस्तेयो” नाम अदत्तादानरुपपरद्रव्यहरणराहित्यम् || “शौचम्” नाम शरीरमनसो:
शुद्धि: || इन्द्रियनिग्रहो नाम मनस: निग्रह: || “धी:” नाम बुद्धि: || “विद्या” नाम
वेदार्थपरिज्ञानम् || ‘सत्यम्” नाम
अनर्थाननुबन्धियथाभूतार्थवचनम् || “अक्रोध:” नाम कामितार्थविघातजन्यस्य क्रोधस्याभाव: ||
एतानि दश धर्मस्य लक्षणानि भवन्ति || एतेषु दशस्वपि सत्यस्य स्थानं महत्वपूर्णं वर्तते
|| यथा सर्वेषां जन्तूनां पादा: गजस्य पादेsन्तर्भवन्ति तथा सर्वे धर्मा: सत्ये
एवान्तर्भवन्ति || अत: सत्यस्य श्रेष्ठतमत्वं सर्वैरङ्गीक्रियते ||
इदानीं सत्यस्य
स्वरूपं किमिति विचारयाम: || सत्यपदस्य बहव: अर्था: सन्ति || सत्यं नाम अनर्थाननुबन्धियथाभूतार्थविषयम् इति
पूर्वमेवोक्तम् || प्रिय-हित-प्रमाणदृष्टश्रुतार्थभाषणं सत्यमिति,
अबाधितज्ञानविषयत्वं सत्यत्वमिति,
कालत्रयाबाध्यत्वं सत्यत्वमिति च
अर्थान्तरम् || इदानीं सत्यं नाम अनर्थाननुबन्धियथाभूतार्थविषयमिति अंशमधिकृत्य
किञ्चित्त्प्रस्तूयते || यत्सर्वस्य जगत:
सुखमावहति समाजस्य संरक्षणं विदधाति
तत्सत्यम् ||
पूर्वकाले
हरिश्चन्द्रप्रभृतयो महाराजा: सत्यव्रतदीक्षामवमवलम्ब्य इमां भूमिं परिपालितवन्त:
, तेषां पालने सर्वे जना: सुखेन जीवनं यापितवन्तश्च दृश्यन्ते || एवमेव
इतिहासयुगेsपि सत्यसंधा: सत्यव्रतदीक्षापरायणा: रामादय: चक्रवर्तिन: बहव:
व्यराजन्त || महाभारते शकुन्तला दुष्यन्तस्य पुरत: सत्यस्य माहात्म्यं वर्णयन्ती
अश्वमेधसहस्रादपि एकमेव सत्यवचनं महदिति प्रतिपादयति ||
अश्वमेधसहस्रं च
सत्यं च तुलया धृते |
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ||
प्राचीनकाले सर्वे मानवा: पापभीत्या वा
परलोकभयाद्वा महापुरुषाणां चरित्रपठनेन वा
सत्यस्य प्राधान्यं विजानन्त:
असत्यं प्रति वैमुख्यं प्रकटयन्त: आसन् || किन्त्वद्यतनसमाजे सत्यस्य प्रामुख्यं
पूर्वकाले यावदासीत्तावन्नास्ति || असत्यं सत्यस्य स्थानमाक्रम्य विलयताण्डवं
करोति ||असत्यवचनात् न कोsपि बिभेति || एवमेव सत्यं निरादृत्य असत्यमेवास्माभि:
आद्रियते चेत्समाज: अचिरेणैव कालेन विनाशं प्राप्स्यतीत्यत्र न कापि संशीति: || अत:
सत्यस्यैव प्राधान्यं दातव्यमस्माभि: ||
सत्यं भगवद्रूपेण संभाव्याराधयितव्यमस्माभि: || सत्यवचनेन यद्यपि तात्कालिकं
प्रयोजनं न सिध्यति तथापि सत्यवाक्यपालनेन शाश्वतप्रयोजनमवश्यं सिध्यत्येव || सत्यनिष्ठा
यद्यपि कष्टसाध्या तथाप्यसाध्या न भवतीति स्वीयाचरणपूर्वकं निरुपितवान्
महात्मा गान्धीमहाभाग: || स: जीवितादर्शत्वेन सत्यम् , आयुधत्वेनाहिंसां स्वीकृत्य
श्वेतजातीयै: विरुध्य संग्रामं कृतवान् विना रक्तपातं स्वातन्त्र्यं
समुपार्जितवान् च || तेन महात्मना अवलंबित: सत्याग्रह: सत्याहिंसयो: समन्वयरुप
एवेति निस्संशयं वक्तुं प्रभवाम: ||
किञ्च
सत्यासत्ययो: मध्ये य: भेद: अस्ति स: भेद: कदाचित् अतिसूक्ष्म: अपि भवति || अत्र किञ्चिद्वक्तव्यमस्ति || कुरुक्षेत्रे
पाण्डवानां धार्तराष्ट्राणां च मध्ये महान् युद्ध: प्रचलति स्म || युद्धे द्रोणस्य
पराक्रममसहमाना: पाण्डुपुत्रा: तस्य द्रोणस्य वधोपायं चिन्तयन्त: तस्यैव समीपं
गत्वा तमेव पृष्टवन्त: || परमकारुणिक: शिष्यवत्सलश्च द्रोण: उक्तवान् यत् “ मम पुत्र: अश्वत्थामा ममात्यन्तं प्रीतिपात्र: अस्ति ||
यदाहं तस्य मरणवार्तां शृणोमि तदा अहं मम
प्राणान् त्यक्ष्यामि ” इति || तदनन्तरमेकदा भीमादय: धर्मराजस्य समीपं गत्वा “ अश्वत्थामा
हत: ” इति वदतु इति धर्मराजं प्रार्थितवन्त: || परन्तु सत्यसन्धो
धर्मराज: तथा असत्यं वक्तुं निराकृतवान् || तदा भीम: अश्वत्थामनामकम् एकं गजं मारितवान् || तदा धर्मजस्य समीपं गत्वा “अश्वत्थामा हत:
कुञ्जर: ” इति वदतु इति तं प्रार्थितवान् || धर्मज: तथैव कृतवान् ||
परन्तु कुञ्जरशब्दस्य उच्चारणसमये स शब्द: द्रोणस्य श्रुतिपथं यथा न गच्छति तथा ते
सर्वे प्रयत्नं कृतवन्त: || धर्मजमुखादागतां पुत्रमरणवार्तां श्रुत्वा द्रोणाचार्य: शस्त्रास्त्रसंयासं
कृतवान् || तदा पाण्डवानां सैन्याध्यक्षेण धृष्टदयुम्नेन स द्रोण: अनायासेन मारित:
|| वस्तुत: धर्मराज: यस्मिन् रथे अधितिष्ठति तस्य रथस्य इयं प्रतीतिरस्ति यत्स:
रथ: भूमिम् अस्पृशन्नेव चलति || परन्तु धर्मराजेन कृतस्य “अश्वत्थामा हत:
कुञ्जर:” इत्यस्य प्रकटनानन्तरं तस्य रथ: भूमौ पपात || तदारभ्य
भूमिं स्पृशन्नेव गच्छति स्म ||
अत्र धर्मराजेन
कृत: दोष: क: इत्याशंकायाम् एवमुच्यते यत्तस्य वचने वस्तुत: किमप्यसत्यं नास्ति ||
सत्यमेवोक्तवान् स: || परन्तु तस्य मनसि “ येन केनापि
प्रकारेण वा भवतु स च द्रोण: हन्तव्य: ” इति दुरुद्द्देश:
अस्त्येव || स च इदानीं सफल: संजात: || अत: यद्यपि स:
सत्यमेवोक्तवान् तथापि असत्यवचनस्य फलमनुभूतवान् || तस्य रथ: अध:पतित: अभवत् ||
अत्रापर: अंश
अस्ति || एक: रोगी अस्ति || चिरकालेनापि तस्य रोगस्य उपशम: न लभ्यते || स:
वैद्यस्य समीपं गत्वा स्वकीयां स्थितिं कथयति || वैद्य: सकला: परिक्षा: कृत्वा स:
रोग: उपशमनरहित: इति स्वयं सम्यक् जानन्नपि रोगिणि विश्वासमुत्पादयितुं “ अलं चिन्तया ||
य: रोग: भवन्तं पीडयति स रोग: अचिरेणैव कालेन निवारितो भवति” इति वदति ||
वस्तुत : एतदसत्यकथनमेव || तथापि तत्कथनं रोगग्रस्थस्य तस्य मनसि धैर्य मुत्पाद्य,
विश्वासं जनयित्वा यावत्कालं जीवति तावत्पर्यन्तं
शान्तिं कल्पयति || अत: तदसत्यमप्यामोदयोग्यमेव भवति || तथा च सत्यासत्ययो:
स्वरुपमेवं प्रतिपादयितुं शक्यते || तथाहि :-- सदुद्देशेन प्रवृत्तं वाक्यं सत्यं
दुरुद्देशेन प्रवृत्तं वाक्यमसत्यम् || एतत्सर्वं मनसि निधाय अस्मत्पूर्वजै:
मुनिभि: उक्तम् ||
सत्यं
ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् |
प्रियं च नाsनृतं ब्रूयादेष धर्म: सनातन: || इति
अत: मानव: न केवलं
सत्यवादी अपि तु प्रियवादी अप्यवश्यं भवेत् || सत्यमपि प्रियत्वेन माधुर्येण
समन्वितं भवेत् || तदैव सत्यस्य प्रतिष्ठा सिध्यति ||
सत्यमेव जयते
नाsनृतम्