Saturday, April 2, 2016

Read n laugh if you wish

Read n laugh if you wish

L L L

 भग्नदन्त: कश्चन पुरुष: वैद्यं प्रति:-  वैद्यमहोदय !  मम पुरो दन्ता: (fore teeth) भग्ना: अत: नूतनान्  दन्तान् समुपकल्पयतु ||
वैद्य::-- किमर्थं दन्ता: भग्ना: ?
रोगी:- रोटिका कठिना (hard) आसीत् ||
वैद्य:-- भवान् किमर्थं न निराकृतवान्?
रोगी:--अहं खादितुं निराकृतवान् अत एव मम दन्ता: भग्ना: ||

L L L

   कश्चन पुरुष: शुनकेन साकं वैद्यस्य समीपम् आगच्छन् अस्ति || वैद्य: तौ दृष्ट्वा दूरादेवं वदति ||
 वैद्य: :--  किं भो ! गर्दभेन सह आगच्छति ?
 पुरुष: :-- वैद्यमहोदय ! एष गर्दभ: (donkey) किन्तु शुनक (dog) ||
वैद्य: :--  अहं भवन्तं वदामि शुनकं प्रति वदामि ||
L L L

बालक: (स्वमित्रं प्रति):- मम  धीशक्ति :  (memory power) अधिका अस्ति ||  प्रधानाध्यापका: माम् अभिनन्द्य मह्यं पारितोषिकम् (prize) अपि दत्तवन्त:|
मित्रम् :- एवं वा | महान् प्रमोद: | पारितोषिकरूपेण किं दत्तं तै: ?
बालक: - अहो ! विस्मृतवान्  |


No comments: