Saturday, July 7, 2012

Some jokes in sanskrit


यस्य यत् नास्ति स: तत् वृणोति

अध्यापक: - यदि भगवान् स्वयं साक्षादागत्य वरं वृणीष्व इति वदॆत् तर्हि भवान् किं वृणुयात् ?
एक: विद्यार्थी सवर्णदूरदरर्शनं (colour TV) वरत्वॆन वरिष्यामि.
अन्य:विद्यार्थी अहं शीतकं ( Refrigerator)वरिष्यामि
अपर: विद्यार्थी अहं संगणक ( computer} यन्त्रं वरिष्यामि
अध्यापक: रे मूर्खा: ! तथा न कर्तव्यम् | भगवान् साक्षाद्भूय वरं वृणीष्व इति मां कथयति चॆत् अहं तु विद्यां वरिष्यामि |
विद्यार्थी<> तत्र किम् आश्चर्यम् ? यस्य यन्नास्ति स: तदेव कामयते


रोदनं यथा न कुर्वीत

गृहिणी :-वैद्यमहोदय ! मम पुत्रस्य नेत्रे सिकतासीमन्तचूर्णे (Sand&cement) च पतिते | अत: अहं किंकर्तव्यतामूढा जाता अस्मि |
वैद्य: :- चिन्ता मास्तु भगिनि! अहमनुपदमेवागच्छामि | परन्तु एतदभ्यन्तरे स: यथा रोदनं न कुर्यात् तथा पश्यतु |



तावता तु

ज्योतिषिक: (पुरुषं प्रति)भवान् जीविते अर्धकालं कष्टानि अनुभविष्यसि |
पुरुष: तदनन्तरं किमहं सुखानि प्राप्स्यामि ?
ज्योतिषिक: , ! तावता भवान् क्लेशसहने नैपुण्यम् अवाप्स्यसि


वायुयानेन गता प्रथमा महिला

उपाध्याय: वायुयानेन विदेशं गता प्रथमा महिला का ?
विद्यार्थी सीता, सा गतवती आसीत् रावणॆन सह

एते विरोधं कुर्वन्ति

काचन महिला कश्चन पुरुष: च त्वरया आरक्षककार्यालयं (police station) प्रविष्टवन्तौ | आरक्षकाधिकारी तयो: साहाय्यं कर्तुम् इच्छन् तौ विचरितवान् |
अधिकारी भवन्तौ किमर्थम् अत्र आगतवन्तौ?
निर्भयेन उच्यताम् |
उभौ आवां परस्परम् अनुरागिणौ| किन्तु उभयपार्श्वत: अपि विरोध: आगत:| अत: भवत: साहाय्यं प्राप्तुम् आगतौ स्व:|
अधिकारी ( पुरुषं प्रति) तत्र चिन्ता मास्तु| यदि भवतौ परस्परम् इच्छत: तर्हि कोपि किमपि कर्तुं न शक्नॊति | अधुना वदतु | के के तस्य विरोधं कुर्वन्ति?
पुरुष: मम पत्नी | एतस्या: पति: |
अधिकारी आ ।।।।?
न मम, किन्तु मम पत्यु:

कश्चन पुरुष: पत्न्या सह दन्तवैद्यस्य समीपं गतवान् | महिला वैद्यं पृष्टवती
"एकस्य दन्तस्य निष्कासनाय कति रूप्यकाणि स्वीक्रियन्ते भवता ?”
वैद्य: अवदत् '' विसंज्ञत्वौषधोपयोगपुरस्सरं ( with anaesthetia)चेत् शतं रूप्यकाणि
तद्रहितया चेत् पंचाशत् रूप्यकाणि"| एवं तर्हि विसंज्ञत्वौषधविरहिता(without anaesthetia) एव चिकित्सा भवतु|
वैद्य: मुखम् उद्घाटयतु कृपया"
महिला ' ' दन्तनिष्कासनं करणीयमस्ति न मम, अपि तु मम पत्यु:” |



येन मम पुत्र: सान्त्वनं प्राप्नुयात्

काचन वनिता स्वस्य बालकम् उरसि निधाय लोकयानस्य निरीक्षणं कुर्वती आसीत् | अल्पे एव काले एकं लोकयानम् आगतम् | सा अनुपदमेव हस्तम् उन्नीतवती| चालक: वाहनं स्थगयित्वा " अन्त: प्रविशतु भवती" इति तां सूचितवान् | तदा सा चालकम् उक्तवती '' अहं लोकयानम् आरोढुं न आगतवती | मम पुत्र: निरन्तरं रोदिति | अत: भवान् हारन् वादयतु , येन स: सान्त्वनं प्राप्नुयात्" इति |
चालक: निरुत्तर: संजात:|

गुणान् पश्यामि, न दॊषान्
कश्चन नूतन: कवि: स्वस्य श्लॊकानां परिशोधनाय प्राचीनस्य पण्डितस्य शास्त्रिवर्यस्य समीपं गतवान् |
शास्त्रिवर्य: तम् आदरेण स्वागतीकृत्य श्लॊकानां पठनमारब्धवान् | कश्चन काल: अतीत:| तथापि शास्त्रिवर्यस्य मुखात् किमपि वचनं न निर्गतम्|
अत: युवक: अपृच्छत् " किं भवान् दोषं कंचित् अन्विष्यन् अस्ति ?”इति
तदा शास्त्रिवर्य: शान्ततया अवदत् - '' | गुणं कंचित् अन्विष्यन् अस्मि | यत: दॊषा: एव सन्ति अत्र '' इति|




मूल्यं संयोजितम् अस्ति एव
कश्चन रुग्ण: वैद्यं सातंकम् अवदत् "वैद्यमहोदय!
शस्त्रचिकित्सावसरे प्रमादवशात् भवद्भि: मम उदरे कर्तरी विस्मृता| अहो, अनवधानता भवताम्!”
तदा वैद्य: शान्ततया अवदत् " तदहं जानामि एव | तथापि अलं चिन्तया | तस्या: कर्तर्या: अपि मूल्यं देयके (in the bill) योजितम् अस्त्यॆव मया ”|
क्वापि न अपगता सा
कश्चन अधिकभाषी आसीत् |
कदाचित् स: मित्रेण सह घण्टां यावत् संभाषणं कृतवान् | दाक्षिण्यवशात् स सुहृत् तत् कथनं विना विरोधं श्रुतवान् | सम्भाषणस्य अन्ते सुहृत् अवदत्
मित्र ! भवत: पुरत: सर्वस्य कथनात् मम शिरॊवेदना अपगता |”
तदा अपर: विषादेन अवदत् “ सा शिरॊवॆदना न क्वापि गता | सा मम शिरसि संक्रान्ता अभवत् ”|
अहं तयो: माता
कस्मिंश्चित् विहारोद्याने द्वयो: व्यक्त्यो: मध्ये सम्भाषणं प्रचलति स्म|
प्रथम: इदानीन्तन: काल: अतीव विचित्र: अस्ति |
द्वितीय: तदस्तु नाम | किमर्थम् एष : प्रस्ताव: इदानीमानीत:?
प्रथम: भवान् पश्यतु | तत्र दूरे वृक्षस्य अध: स्थितौ तौ पुरुषौ वा न वा इति ज्ञातुं न शक्यते|
द्वितीय: ते उभे स्त्रियौ एव | तत्र नास्ति सन्देह:|
प्रथम: भवान् कथं जानाति?
द्वितीय: द्वावपि मम शिशू (द्वे अपि मम पुत्र्यौ)
प्रथम: तर्हि , भवान् तयो: पिता.....
द्वितीय: , , अहं तयो: माता ||

1 comment:

Shridhar M Hegde said...

Thank you. . Some more please