Monday, September 1, 2014

विद्याविषये कालिदासीया भावना

विद्याविषये कालिदासीया भावना

डाक्टर् . चिलकमर्ति दुर्गाप्रसाद राव्
3/106, प्रेम नगर, दयाल बाग, आगरा
+91 9897959425

हारनिद्राभयमैथुनादिषु मानवस्य जन्तूनां च मध्ये कोsपि व्यत्यास: नास्ति | ज्ञानेनैव मानव: जन्त्वन्तरेभ्य: भिद्यते अतिशेते च | अत एव ज्ञानेन हीना: पशुभि: समाना: इत्युक्तं भर्तृहरिमहाकविना |  

ज्ञानं तु विद्यया प्राप्तुं शक्यते | अत एव मानवजीवने विद्याया: स्थानं महत्त्व पूर्णमस्ति | विद्याधिगमनप्रकारमुपनिषत्सु एवं प्रतिपादितम् | तथा हि :-
“ आचार्य: पूर्वरूपमन्तेवास्युत्तररूपम् | विद्या सन्धि: | प्रवचनं सन्धानम् ”
आचार्यपदं यास्काचार्येणैवं त्रिधा प्रतिपादितम् | आचरति इत्याचार्य: | आचारं ग्राहयति इत्याचार्य: | आचिनोति अर्थानित्याचार्य: |  एवं सदाचारवता आचार्येण भवितव्यम् | आचारं ग्राहयति इत्यपि आचार्य: | तथा च आचार्य: न केवलं स्वयमाचरति  इतरेभ्योsपि सदाचारं शिक्षयति | अपि च आचिनोति अर्थानित्याचार्य:  इत्युक्त्या विद्यार्थिनामुपकाराय निरन्तरं विषयसंग्रहणं करोतीति च ज्ञायते | य: स्वयमाचरति  स एव इतरेभ्योsपि शिक्षयितुमर्हति | नान्य: |
वेद: आचारहीनं पुरुषं विशेषेणाधिक्षिपति| उक्तं च –

आचारहीनं न पुनन्ति वेदा:
यद्यप्यधीता: सह षड्भिरङ्गै:
छन्दांस्येनं मृत्युकाले त्यजन्ति
नीडं शकुन्ता  इव जातपक्षा:  ||

 अन्ते समीपे अर्थात् गुरुकुले वसतीति शिष्य: अन्तेवासी भवति | तथा च पूर्व काले छात्र:  गुरो: समीपे वसन् विद्याभ्यासं करोति स्म इति तस्यान्तेवासित्वमन्वर्थकं भवति |
इदानीं विद्या नाम का ? विद्याधिगमनप्रकारा: के ? इति विषये महद्भि: पण्डितै: महती चर्चा कृता दृश्यते | अस्मिन् पत्रे विद्याविषये कालिदासमहाकविना ये ये विषया: प्रकटिता: , तान् सर्वान् समीकर्तुं प्रयत्न: क्रियते |

विद्याया: स्वरुपम् :

कालिदास: कुमारसंभवे पार्वत्या: विद्याभ्यासवर्णनावसरे विद्याया: स्वरूपं तदधिगमनप्रकारञ्च सम्यक् विशदयति---

तां हंसमाला: शरदीव गङ्गां
महौषधिं नक्तमिवात्मभास: |
स्थिरोपदेशादुपदेशकाले
प्रपेदिर प्राक्तनजन्मविद्या: ||

हंसा: वर्षाकाले वर्षभयात् हिमालयं गच्छन्ति पुन: शरत्काले स्वस्थानमायान्ति | ओषधय: दिवासमये कान्तिं त्यक्तवन्त इव दृश्यन्ते पुन: रात्रिसमये स्वतेजोभि:
प्रकाशन्ते | अत्र हंसानां तेजसां चानुपस्थिति:  तात्कालिकी एव भवति | विशिष्य ओषधिषु तेजसामभाव: न वस्तुत: अभाव: किन्तु निगूढरूपेण स्थितमेव भवति | तेज: दिवासमये निगूढमुषित्वा रात्रौ प्रकाशं पाप्नोति |
एवमेव पार्वत्या: बुद्धौ संस्काररूपेण निहिता: सर्वा: विद्या: सकृदुपदेशेन पुनरुद्बुद्धा:  इति वचनेन विद्या नाम सिद्धस्यैव  बहिरभिव्यक्ति: न नूतनतया साध्या इति गम्यते | कालिदासेन प्रतिपादित: अयम् अभिप्राय:  विवेकानन्देन प्रतिपादितस्य --- “ Education is the manifestation of the perfection already in man “ इति वचनस्य आधारभूत: अस्ति इत्यत्र  न कापि संशीति: |
प्रवचनं सन्धानमित्युक्तमित: पूर्वम् | अत्र प्रवचनं नाम किमित्याशंकायां विद्याबोधन प्रकार एव प्रवचनमिति कथ्यते | य: प्रवचनपटुर्भवति स: उत्तम: अध्यापक: भवति | कालिदास: स्वकीये विक्रमोर्वशीये नाटके उत्तमाध्यापकलक्षणं विशदीकुर्वन्नेवं  वदति 

श्लिष्टा क्रिया कस्यचिदात्मसंस्था
संक्रान्तिरन्यस्य विशेषयुक्ता |
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव ||

य: ज्ञानवान् भवति स: शिक्षक: भवितुं शक्नोति | किञ्च स्वेनाधिगतं ज्ञानमितरेभ्यो नैपुण्येन संक्रामयितुं शक्नोति स: उत्तमशिक्षक: भवितुमर्हति| तथा च न केवलं ज्ञानार्जनम् अपि तु तत्प्रकटनमपि अध्यापकस्यावश्यकं लक्षणमिति कालिदासस्याभिप्राय: | सर्वेषां शिक्षकाणां बोधनकौशलमावश्यकम् |
 विद्याभ्यासविषये कालिदासेन या प्रक्रिया सूचिता अस्ति सा प्रक्रिया सार्वकालिकी सार्वभौमिकी च वरीवर्ति | रघुवंशे वसिष्ठ: नन्दिनीधेनो: सेवनप्रकारं विशदीकुर्वन्नेवं दिलीपमादिशति |     

वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गां
विद्यामभ्यसनेनैव प्रसादयितुमर्हसि

अस्य श्लोकस्यार्थस्तु तावदयम् |
हे राजन्! भवान् कन्दमूलफलादिकमाहारं  स्वीकुर्वन् अनुग्रहसिद्धिपर्यन्तं निरन्तराभ्यासेन विद्यामिव  निरन्तरानुसरणेन नन्दिन्या: सेवां कुरु |
अत्र केचन विषया: कविना सूचिता: सन्ति |       
य: विद्याभ्यासं चिकीर्षति तेनावश्यं  मिताहार एव स्वीकर्तव्य: नो चेन्निद्रा  आगच्छति विद्या अपगच्छति | फलावाप्तिपर्यन्तं निर्विरामप्रयत्न: कर्तव्य:  मध्ये न त्यक्तव्य इति भाव:|  अत्र विद्या केवलपरिश्रमेणैवाधिगन्तुं शक्यते इति उपायान्तरं  नास्तीति च गम्यते |
विद्याया: फलं किमित्याशंकायां विद्याया: फलं ज्ञानार्जनमेवेति कालिदास: प्रतिपादयति | तथा च धनार्जनमानुषङ्गिकमेव   भवति | अत: केवलधनार्जनाय विद्या नाsध्येतव्या | य: केवलं धनसम्पादनाय विद्याध्ययनं करोति स वणिक्
(व्यापारी) भवति | उक्तं च तेन | तथा हि  विक्रमोर्वशीये---

यस्यार्जनं केवलजीविकायै
तं ज्ञानपण्यं  वणिजं वदन्ति ||

विद्याव्यवस्था तावदेकेन सौधत्वेनोपमीयते चेत्सौधस्य चत्वार: स्तभा: इव विद्यारूपसौधास्यापि  चत्वार: स्तम्भा: सन्ति | पितर: , छात्रा: , अध्यापका: , प्रभुत्वं चात्र स्तम्भा: भवन्ति |  तत्र  सर्वे  स्तम्भा: दृढाश्चेदेव विद्याव्यवस्था सुदृढा भवति | अत्र विद्याभिवृद्धये सर्वेषामुत्तरदायित्वमस्ति  विशिष्य प्रभुत्वस्य | विद्याव्याप्तौ सर्वापि व्यवस्था प्रभुत्वेनैव कल्पनीया अस्ति | प्रभुत्वेन स्वकीया बाध्यता निर्वर्तव्या न कदापि विस्मर्तव्या |
कालिदास: दिलीपस्य राज्यपालनपद्धतिं विशदयन् वदति यद्राजा दिलीप एव प्रजाभ्य: विद्यां दापयति | तान् रक्षति | अन्नपानादिव्यवस्थां कल्पयित्वा पोषयति तथा च प्रजानां स एव पिता भवति | तेषां पितृणाञ्च केवलं जन्महेतुत्वेन पितृत्वम् |
कुटुम्बे पितु: यत्कर्तव्यमस्ति सत्सर्वं दिलीप एव स्वयं निर्वहति इति भाव:|

प्रजानां विनयाधानाद्रक्षणाद्भरणादपि |
स पिता पितरस्तासां केवलं जन्महेतव: ||    

विद्याभ्यास: शैशवावस्थायामेव करणीय इति कालिदास: रघुवंशजानां  राज्ञां वर्णनमुखेन सूचितवान् ---

शैशवेsभ्यस्तविद्यानां यौवने विषयैषिणां
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्

 तत: विद्या कस्मै प्रदेया ?  इत्याशंकायां सा उत्तमाय शिष्याय प्रदेया न तु यस्मै कस्मै इति सूचयति कालिदास: | विद्या योग्याय शिष्याय दत्ता चेत् सफलं भवति नो चेत् न केवलं निष्फलम् अपि च विपरितफलाय भवतीति कालिदासेन सूचितम् |
अभिज्ञानशाकुन्तले  कण्वमहर्षि: दुष्यन्तेन वृतां शकुन्तलां प्रशंसन्नेवं वदति --वत्से! सुशिष्यपरिदत्ता विद्येवाशोचनीयासि  संवृत्ता| इति |

 अस्मिन् व्यासे स्थालीपुलाकन्यायेन केचन विषया: प्रस्तुता: | विषयान्तरा: ग्रन्थान्तरेषु द्रष्टव्या: ||         
*****



No comments: