Wednesday, September 3, 2014

रत्नप्रभामते ‘अवगति ’ शब्दार्थविचार:

रत्नप्रभामते अवगति शब्दार्थविचार: डाक्टर्.चिलकमर्ति दुर्गाप्रसाद राव्
3/106, प्रेमनगर,
दयालबाग, आगरा
+91 9897959425
dr.cdprao@gmail.com  

ज्ञानादेव हि कैवल्यम् इति नियमेन ज्ञानस्य मोक्षसाधनत्वमङ्गीक्रियते | तच्च ज्ञानं परोक्षमपरोक्षमिति द्विविधम् | तत्रापरोक्षज्ञानेनैव कैवल्यं न परोक्षज्ञानेनेति तत्साक्षादपरोक्षाद् ब्रह्म इति श्रुत्याsअवगम्यते |

अत्रेयमाशङ्का | तथा हि :- वस्तुत: यद् ज्ञानं वर्तते तदज्ञाननिवर्तकमेव भवति|  ज्ञानस्याज्ञानाsनिवर्तकत्वे तस्य ज्ञानत्वमेव न संभवति | यथा दीपस्यान्धकारानिवर्तकत्वे प्रकाशत्वमेव न संभवति तद्वत् | तथा च परोक्षज्ञानस्याध्यासमूलभू ताज्ञाननिवर्तकत्वं न संभवतीति कथं वक्तुं शक्यते | एवमेव यदि परोक्षज्ञानस्यैवाज्ञाननिवर्तकत्वं संभवति, तर्हि तत एव बन्धानिवृत्तिसंभवे अपरोक्षज्ञानस्य वैय्यर्थ्यं स्यात् | तत:                तत्साक्षादपरोक्षाद् ब्रह्म इति श्रुतेरप्यानर्थक्यमापद्येत | अतोsत्र समन्वय: कथं वा साधयितुं शक्यते इति |

ब्रह्मसूत्रभाष्ये जिज्ञासाधिकरणे अथातो ब्रह्मजिज्ञासा इति सूत्रस्य व्याख्यानावसरे जिज्ञासा पदं व्याचिख्यासुभि: श्री शङ्करभगवत्पादै: ज्ञातुमिच्छा जिज्ञासा, अवगतिपर्यन्तं ज्ञानं सन् वाच्याया: इच्छाया: कर्म, फलविषयत्वादिच्छाया: | ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म | ब्रह्मावगतिर्हि पुरुषार्थ: निश्शेषसंसारबीजाविद्याद्यनर्थनिबर्हणादित्युक्तम् |
अत्रावगतिपदं व्याचिख्यासुना ब्रह्मसूत्रभाष्यव्याख्याकारेण श्री वाचस्पतिमिश्रेण भामत्याख्यायां व्याख्यायां अत्र न केवलं ज्ञानमिष्यते किन्त्ववगतिं साक्षात्कारं कुर्वदवगतिपर्यन्तं सन् वाच्याया: इच्छाया: कर्म इति विगलितनिखिल दु:खानुषङ्गपरमानन्दघनब्रह्मावगति: ब्रह्मण: स्वभाव: इति स एव  निश्रेयसपुरुषार्थ इति चोक्तम् |

अत्र भगवत्पादभाष्यतात्पर्यं  प्रपञ्चीकर्तुकामेन विवरणमतानुयायिना श्रीरामानन्दसरस्वतीमहोदयेन स्वस्यां रत्नप्रभाव्याख्यायाम् आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यमगति: पर्यन्तोsवधि: यस्याखण्डसाक्षात्कारवृत्तिज्ञानस्य तदेव जिज्ञासाया: कर्म तदेव फलमित्युक्तम् | तथा चात्र ब्रह्मैव  जिज्ञासाविषयं  ब्रह्मैव फलम् | अत्र ब्रह्मण: अज्ञातत्वे विषयत्वं ज्ञातत्वेन फलत्वमिति विशेष: |
अत्रैवं विशेषेण वक्तुं शक्यते | अज्ञानं द्विविधमसत्वावरणप्रधानमभानावरणप्रधानञ्च | परोक्षज्ञानेन केवलमसत्वावरणप्रधानमेवाज्ञानं निवर्तते | अभानावरण प्रधानमज्ञानन्तु यथापूर्वं वर्तत एव |  यथा दूरे महापरिमाणे वृक्षे अल्पपरिमाणत्वभ्रान्ति: कस्यचिज्जाता | तत: तादृशवृक्षसमीपादागतेन पुरुषेण अयं वृक्ष: अत्यधिकपरिमाण: ; नाsल्पपरिमाण: भूशाखाशिंशपादिसहित:  इत्युक्ते अल्पपरिमाणभ्रान्तिमत: पुरुषस्य यदज्ञानमासीत् तच्चाज्ञानं अधिकपरिमाणोपदेशजन्यज्ञानेन नष्टं वा न वा ? नष्टमेव | किन्त्वत्रासत्वावरणमेव नष्टं , अभानावरणन्तु न नष्टम् | अन्यै: शतधा उक्तमपि प्रत्यक्षं अल्पपरिमाणत्वमेव दृश्यते नाsधिकपरिमाणत्वम् | तत्कुत इति चेत् अभानावरणस्य यथापूर्वं विद्यमानत्वात् | तादृशाभानावरणस्य निवृत्तिस्तु वृक्षसमीपं गत्वा तादृशाधिक परिमाणविशिष्टं  वृक्षं यदा पश्यति तदा नश्यति | तच्च ज्ञानमपरोक्षज्ञानमेव | तादृशापरोक्षज्ञानमेवाभानावरणस्य निवर्तकं भवति |

अत एव लोके वेदान्तश्रवणं क्रियमाणमपि तत: परोक्षज्ञानं जायमानमपि तत् नाsपरोक्षाध्यासनिवर्तकं  भवति |  वेदान्तश्रवणेन जीवत्वं पारमार्थिकं न भवति किन्तु ब्रह्मैक्यरूपमेव  जीवस्य पारमार्थिकस्वरूपमिति  ज्ञानं जातमेव | तच्च ज्ञानं त्वसत्वावरणमज्ञानमेव निवर्तयति | अभानावरणनिवर्तकं न भवति | यदा मनननिदिध्यसनादिभि: अपरोक्षब्रह्मसाक्षात्कार: भवति तदैव मूलाज्ञाननिवृत्ति: भवति | अपरोक्षाध्यासोsपि निवर्तते | अत एवोक्तं  श्रीशङ्करभगवत्पादै: - श्रुतब्रह्मणोsपि यथापूर्वं संसारित्वभ्रान्ति: इति |

अत एव सकलशास्त्रपारङ्गतोsपि नारद: सनत्कुमारमुपगम्य  सो sहं  भगव: शोचामि इत्याद्युक्तवान् |  सन्दर्भेsस्मिन् विस्तरेणोक्तं विद्यारण्यश्रीचरणै: | तथा हि :-


स पुराणान् पञ्च वेदान्
शास्त्राणि विविधानि च
ज्ञात्वाप्यनात्मवित्त्वेन
नारदोsति शुशोच हि 
( तद्विषयमुपवर्ण्य )

वेदाभ्यासात्पुराताप
त्रयमात्रेण शोकिता
पश्चादभ्यासविस्मार
गर्वभङ्गैश्च शोकिता ||
 इत्यादि  शोककारणमपि सुस्पष्टं प्रतिपादितवन्त: |
      
            अत्रेयं पुनराशङ्का | ननु आत्मज्ञानहीनस्य सर्वमपि शास्त्रज्ञानं  व्यर्थमेवेति चेन्न, शास्त्रज्ञानं न कदापि व्यर्थं भवति | शास्त्रज्ञानेन ब्रह्मण: परोक्षज्ञानं जायते | तच्च पापक्षयकारि | तदुक्तं विद्यारण्यश्रीचरणै : --

परोक्षं ब्रह्मविज्ञानं
शाब्दं देशिकपूर्वकम् |
बुद्धिपूर्वकृतं पापं
कृत्स्नं दहति वह्निवत् ||   

   ननु परोक्षज्ञानेनैव सर्वपापानां क्षये जाते किं वा पुन: अपरोक्षब्रह्मसाक्षात्कारेणेति चेदुच्यते,  अपरोक्षब्रह्मविज्ञानमेव निखिलसंसारदु:खनिवर्तकं न तु  परोक्ष ब्रह्मविज्ञानम् | तदुक्तं विद्यारण्यश्रीचरणै: |

अपरोक्षात्मविज्ञानं
शाब्दं देशिकपूर्वकम् |
संसारकारकाज्ञान
तमसश्चण्डभास्कर: |

इति | अपरोक्षब्रह्मज्ञानन्तु गुरूपदेशेन, श्रवणमनननिदिध्यासनैश्चो त्पद्यते | आचार्यवान् पुरुषो वेद ( छा. उ- 6/14/2) , आत्मा वा अरे द्रष्टव्य:  श्रोतव्य: मन्तव्य: निदिध्यासितव्य: ( बृहदारण्यकम् 1/4/5) इत्यादि श्रुतयोsत्र प्रमाणम् |

यदा कश्चन पुरुष: अविद्याकामादिभि: स्वरुपानन्दात्  प्रच्याव्य अस्मिन् संसारकूपे क्षिप्त: संसारार्णवतरणाभिलाषी सन् कञ्चनाचार्यमाश्रयति | तदा दयापरवशेनाचार्येण नाsसि त्वं संसारी किन्तु तत्त्वमसि   इत्युपदिष्टात्मस्वरुप: ब्रह्मण: परोक्षज्ञानं प्राप्नोति | तत: मननादिभि: तस्याsपरोक्षब्रह्मज्ञानमुदेतीति परोक्ष ज्ञानमपरोक्षब्रह्मसाधकं भवति | सर्वोsप्ययं विषय: अवगति शब्देsन्तर्निहित: इत्यलमति विस्तरेण |

*********

No comments: