Tuesday, September 2, 2014

विद्या गुरुमुखत: प्राप्या

विद्या गुरुमुखत: प्राप्या
डाक्टर्.चिलकमर्ति दुर्गाप्रसाद राव्
3/106, प्रेमनगर,
दयालबाग, आगरा
+91 9897959425
dr.cdprao@gmail.com  
हारनिद्राभयमैथुनादिषु  मानवानां जन्तूनां च मध्ये न कोsपि व्यत्यास:  | विद्ययैव मानव: प्राण्यन्तरेभ्यो भिद्यते अतिशेते चान्यान्  इति वयं सर्वे जानीम:| विद्यादाता गुरु: | अत: न केवलमस्माकं भारतदेशे , अपि तु सर्वस्मिन्  अपि जगति विद्यासमुपार्जने गुरोरावशयकता बाहुल्येन दरीदृश्यते |---
गुशब्दोsन्धकार: स्यात्
रुशब्दस्तन्निरोधकृत्
अन्धकारनिरोधित्वात्
गुरुरित्यभिधीयते   ||

इति गुरुशब्दस्य व्युत्पत्ति: | अत एव ---

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नम:
 इति गुरुं प्रार्थयामो वयम् |
आचार्यवान् पुरुषो वेद , तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्  समित्पाणि:  श्रोत्रियं ब्रह्मनिष्ठम् , उपदेक्ष्यन्ति ते ज्ञानं  ज्ञानिन: तत्त्वदर्शिन: इति श्रुतिस्मृतीतिहासवचनानि गुरोरौन्नत्यं , विद्यासमुपार्जने तस्यावश्यकतां च  मुक्तकण्ठेनोद्घोषयन्ति |
तत्त्वज्ञानार्थं  गुरोस्समिपे सविनयं स्थिति: उपनिषच्छब्देनोच्यते |
यथा कूपखननेन जलाधिगम: तथा गुरुसमीपगमनेन ज्ञानावाप्ति  रिति अस्माकमाशय: | विना गुरुं ज्ञानं नोदेतीत्यत्र अनन्यप्रोक्ते गतिरत्र नास्ति इत्युपनिषद्वाक्यं प्रमाणम् |
 अत एवेन्द्रेण प्रजापति: गुरुत्वेन परिगृहीत: | नैके च  मुनय: ब्रह्मविद्याप्रतिपत्तये पिप्पलादं मुनिं गुरुत्वेन स्वीकृत्य तत्समीपं  गतवन्त: दृश्यन्ते | आचार्यमुखादधिगता विद्या साधुतमत्वं प्रापयति |   आचारं ग्राहयति ,  आचिनोति अर्थान् इति व्युत्पत्त्या आचार्य: स्वशिष्येभ्य: न केवलं विद्यां बोधयति अपि तु सदाचारं प्रापय्य तेषु जितेन्द्रियत्वं पोषयति | शिष्यगतान् सर्वान् दोषान्
निवारयति |   सन्देहांश्च परिहरति | सूक्ष्मांशान्  विशदीकरोति |
अत एव गुरुशुश्रूषया विद्या इत्यार्योक्त्या विद्यार्जनोपायेषु  गुरुशुश्रूषा  एव सर्वप्राथम्येन प्राधान्येन च  परिगण्यते |
अत्र शुश्रूषा नाम श्रोतुमिच्छा | तथा च  गुरुवाक्यश्रवणासक्तिरेव  ज्ञानार्जने हेतु: |
आचार्य: पूर्वरूपम्  अन्तेवास्युत्तररूपं, विद्या सन्धि: प्रवचनं सन्धानम् ; तेजस्विनावधीतमस्तु मा विद्विषावहै3  
इत्यादि वाक्यान्यत्र प्रमाणत्वेन स्वीक्रियन्ते |
अथ यथाकथञ्चित्  कुतूहलतया, बहुश्रुतत्वबुद्ध्या गुरुशुश्रूषां विना येन केनापि मार्गेण विद्याभ्यासे क्रियमाणेsपि  सम्पूर्णं ज्ञानं  नोदे तीति  निरूपयितुमनेके दृष्टान्ता: समुपलभ्यन्ते | महाभारतान्तर्गतं यवक्रीतवृत्तान्तमत्रोदाहरणत्वेन स्वीकरणीयम् |
तथा हि :- यवक्रीत: भारद्वाजमुने: पुत्र: | स: गुरुकुलक्लिष्टं रैभ्य महर्षिं तादृशांस्तत्पुत्रान्  दृष्ट्वा तेभ्योsसूयति स्म |  पित्रा निवारितोsपि तस्य मन:परिवर्तनं नाsभवत् | गुरुशुश्रूषां विना केवलतपोबलेनैव महत्वं संपादयितुमैच्छत् |   
 तदर्थं तप: प्रारब्धवान् | इन्द्र: तस्य प्रत्यक्षीभूय  हे यवक्रीत !    विद्या तावत्  गुरुमुखेनैव प्राप्तव्या | तत्कृते उपायान्तरं नास्ति |
यदि भवता विना गुरुशुश्रूषां विद्या प्राप्ताsपि तदहङ्काराय  आत्म विनाशाय च कल्पते इत्युक्त्वान्तर्दधौ |

                 किन्तु यवक्रीत:  इन्द्रस्य वचनं तृणाय मत्वा तपोबलेनैवाधिगतविद्य: अभवत् | ततस्स एकदा रैभ्यस्याश्रमं गत्वा तत्र रैभ्यमहर्षे: स्नुषां दृष्ट्वा कामपीडितस्तामकामयत | साsपि भय भीता तस्य कामानां निराकर्तुं नाsशक्नोत् | तदनन्तरं भूतार्थं  सर्वं श्वशूराय रैभ्याय न्यवेदयत् | कुपितो मुनि: तपोबलेन एकं राक्षसं एकां सुन्दराङ्गीं  राक्षसीं   सृष्टवान् |  यवक्रीत: तां राक्षसीं
दृष्ट्वा   मोहोन्मत्त: तामनुससार | तत: राक्षस: यवक्रीतं निगृह्य व्यापादितवान् | तदनन्तरं रैभ्यपुत्रस्य उर्वावसो: प्रार्थनया देवा: तं पुनर्जीवितमकार्षु: | तदा पुनर्जीवितो यवक्रीत: देवानुद्दिश्य --- हे देवा: ! अहमपि रैभ्य इव अधीतसर्वशास्त्र: किल ! स: मां संहर्तुं कथं शक्तोsभवदिति | ततो देवास्तमुक्तवन्त: | हे यवक्रीत ! यथा रैभ्य: गुरुमुखाधीतसर्वशास्त्र: तथा न भवान् | अत: स: त्वत्तोsपि गरीयान्
मैवं कृधा यवक्रीत | यया वदसि वै मुने |
ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा ||
******************************
अनेन तु गुरुन् दुखात् , तोषयित्वा स्वकर्मणा |
कालेन महता क्लेशात् ब्रह्माधिगतमुत्तमम्  ||
वस्तुत: मानवजीवने विद्यापेक्षया सदाचारस्य महती आवश्यकता अनुभूयते | आचारवत: पुरुषस्य यथा प्रशंसा श्रूयते तथैव सदाचार विहीनस्य निन्दापि  श्रूयते   --
         आचारहीनं न पुनन्ति वेदा:
         यद्यप्यधीता: सह  षड्भिरङ्गै:
         छन्दांस्येनं  मृत्युकाले त्यजन्ति
         नीडं शकुन्ता इव जातपक्षा: --  इत्यादि श्रुतिवचनेषु |
 सदाचार एव धर्मर्थकाममोक्षरुपचतुर्विधपुरुषार्थप्राप्तिसाधनम् | सदाचारसंपन्न एव विद्याया: संपूर्णफलानि सकलसुखानि चानुभवति | किञ्च दुर्जन: यद्यपि विद्यावान् तथापि परिहरणीयो  भवति | अत्रोक्तं भर्तृहरिणा
 दुर्जन: परिहर्तव्य:, विद्ययाsलङ्कृतोsपि सन्
 मणिना भूषित: सर्प: किमसौ न भयङ्कर: ?
तथा च सदाचारपूर्वकविद्याप्राप्तये उत्तमशिक्षकस्यानिवार्यता वरीवर्ति | अत: विद्या गुरुमुखत: प्राप्या नात्वन्यथा इति शम् |      
                                                     *****


No comments: