Monday, September 5, 2022

अध्यापकानां चातुर्विध्यम्

 

अध्यापकानां चातुर्विध्यम्

Dr. Chilakamarthi Durgaprasada Rao

यथा सर्वस्य गात्रस्य शिर: प्रधानं भवति  तथा सर्वस्यापि समाजस्य गुरु: अथवा अध्यापक: प्रधान: भवति|| सर्वत्र च समाजे उत्तमा:, मध्यमा:, अधमा:, अधमाधमा: इति मानवा: चतुर्विधा: भवन्ति || यथा मानवसमाजे चार्विध्यम् अस्ति तथैव अध्यापकसमाजेsपि चातुर्विध्यमस्त्येव || अत्र प्रथमत: मानवानां चातुर्विध्यं कथं भवतीति विचारयाम:||  ये स्वकार्यमपि त्यक्त्वा परेषां हिताय प्रवर्तन्ते ते  सज्जना: भवन्ति || ये तु स्वकार्यं कुर्वन्त: सन्त:  परहिताय प्रवर्तन्ते ते मध्यमा: || ये च स्वकार्यसाधनाय परेषां कार्यं घन्ति ते अधमा: ||  पुन: केचनसन्ति निष्कारणमेव परेषां कार्याणि नाशयन्ति || ते अधमाधमा:|| इदानीं अध्यापकानां चातुर्विध्यं विचारयाम: ||

ये च विद्याभ्याससमये श्रद्धया पठन्ति , अध्यापकवृत्तिग्रहणानन्तरमपि स्वशिष्येभ्य: श्रद्धया बोधयन्ति ते अध्यापका: उत्तमोत्तमा: भवन्ति  || ये तु विद्याभ्याससमये श्रद्धया न पठितवन्तोऽपि अध्यापकवृत्तिस्वीकरणानन्तरम् अहर्निशं ज्ञानं संपादयन्त: स्वशिष्येभ्यो बोधयन्ति ते उत्तमा: अध्यापका: भवितुमर्हन्ति ||

 ये तु अध्ययनसमये श्रद्धया पठन्ति  अध्यापकवृत्तिस्वीकारणानन्तरं शिष्येभ्यो न बोधयति ते भवन्ति अधमा: अध्यापका: || पुन: केचन सन्ति ये तु अध्ययनसमये श्रद्धां न प्रदर्शयन्ति अध्यापनसमयेsपि श्रद्धां न प्रदर्शयन्ति || ते तु भवन्ति अधमाधमा: अध्यापका: ||  

 

No comments: