3. The place of Ratnaprabha among the commentaries of
Brahmasutra Bhashya
ब्रह्मसूत्रभाष्यव्याख्यानेषु रत्नप्रभाया: वैशिष्ट्यम्
DR. CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A
(Philosophy),
& Ph. D
(Sanskrit)
Reader in
Sanskrit (retd)
3/106,
Premnagar, Dayalbagh AGRA-282005
dr.cdprao@gmail.com
अद्वैतसिद्धान्तप्रपञ्चनाय, परिरक्षणाय च
ब्रह्मसूत्रभाष्यव्याख्यारूपा: स्वतन्त्राश्च ग्रन्था: अनेकै: असंख्याकाश्च
विरचिता: दृश्यन्ते || तेषु भगवत्पादहृदयगतं भावं प्रकटीकर्तुंमनेकै: प्रयत्न:
कृत: || तेष्वन्यतमा: श्रीरामानन्दसरस्वतीमहाभागा: || तै: विरचिता रत्नप्रभाख्या
ब्रहमसूत्रभाष्यव्याख्याsद्वैतमतजिज्ञासुभि:
पण्डितप्रकाण्डैश्चाधीयमानाsध्याप्यमाना च वरीवर्ति || व्याखानेsस्मिन्
प्राचीनव्याख्यातृणां मतानि प्रस्तावितानि परामृष्टानि च ||
भगवत्पादहृदयदर्शिनीचेयं व्याख्या नाsतिविस्तृता सरळा सुबोधा च ||उक्तञ्च||
विस्तृतग्रन्थवीक्षायामलसं यस्य मानसं |
व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा || (र*प्र*page-2,sloka-6)
नानाविधग्रन्थजातं वीक्ष्य सम्यग्यथामति |
शारीरकस्य भाष्यस्य कृता व्याख्या सतां मुदे || (र*प्र* ग्रन्थान्ते )
भाष्यमेव रत्नं तस्य प्रभा भाष्यरत्नप्रभा || तथा च
भाष्यार्थप्रकाशकत्वादियं भाष्यरत्नप्रभेत्यन्वर्थसंज्ञिका || एते
रत्नप्रभाकारा: पञ्चपादिकाविवरणकारै:
विशेषेण प्रभाविता: || एवमेव प्रकतार्थकाराणाम्
अनुभूतिस्वरुपाचार्याणाम् प्रभावोsपि रत्नप्रभाकाराणाम् उपरि महान् दृश्यते || अत्र किञ्चिद्वक्तव्यमप्यस्ति || प्रकटार्थविवरणकारा: न केवलं
विवरणमतपक्षपातिन: किञ्च
भामतीमतव्यतिरेकिणोsपि || तै: भामतीकारा: यथावकाशं विशेषेणाधिक्षिप्ता:||
(वाचस्पतिस्तु मण्डनपृष्ठसेवी --इत्यादि* प्रकटार्थविवरणम् ) || भामत्या:
कल्पतरुनाम्नी एका व्याख्या अस्ति || तद्व्याख्यातृभि: अमलानन्दपादै:
अनुभूतिस्वरुपाचार्यकृतानां सर्वेषामाक्षेपाणां
समाधानमुक्तं तेषां नामानुक्त्वा || अनुभूतिस्वरुपाचार्यै: प्रभाविता:
रत्नप्रभाकारा: “एतत्सूत्रभाष्यभावानभिज्ञा:
सन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति” इत्यादिवाक्यै: भामतीकारान् विशेषेणाधिक्षिपन्ति (र*प्र*
3-4-48) ||
रत्नप्रभाकारै: स्वव्याख्याने पञ्चपादिकाविवरणं, भामती, न्यायनिर्णय:,
टीकायोजना, प्रकटार्थविवरणम् इत्यादि
ग्रन्थानां परामर्श: कृत: इति तान्सर्वान् सम्यक् परिशील्य रत्नप्रभां विरचितवन्त:
ग्रन्थकारा: इति प्रतिभाति ||
चतुस्सूत्रीभागस्य प्राधान्यम् :--
अस्मिन् शारीरकमीमांसाभाष्ये प्राधान्येन
चतुस्सूत्रीभाष्ये एव जिज्ञासुभि: विशेषपरिश्रम: क्रियते ||
अद्वैतसिद्धान्तप्रतिपादनदृष्ट्या विचार्यमाणे चतुस्सूत्रीभागस्याधिकं
प्राशस्त्यमस्ति || सर्वोप्युत्त्तरमीमांसाशास्त्रार्थ: चतुस्सूत्रीभाष्ये एव
भगवत्पादै: संग्रहेण प्रतिपादित: दृश्यते ||
अस्मिन् सर्वप्रथमत: उपोद्घातरूपेण
अध्यासभाष्यमुक्तम् || तस्मिन्
अध्यासस्वरूपं विस्तरेण प्रदर्शितम् ||
ततो ख्यातिवादनिरुपणावसरे मतान्तरनिरासपुरस्सरं
वेदान्तसम्मताsनिर्वचनीयख्याति: स्थापिता ||
“अथातो ब्रह्मजिज्ञासा” इति प्रथमसूत्रस्य भाष्ये ब्रहमजिज्ञासायामधिकारी, जिज्ञासाया: आवश्यकता,
ब्रह्मण: स्वरूपं, ज्ञानकर्मणो: व्यत्यास:, ब्रह्मण: सिद्धवस्तुत्वञ्चैवमादिविषया:
प्रतिपादिता: ||
“जन्माद्यस्य यत:” इति द्वितीयसूत्रस्य भाष्ये जिज्ञास्यत्वेन प्रतिपादितस्य ब्रह्मण:
लक्षणमुक्तम् || तत्र ब्रह्मण: अभिन्ननिमित्तोपादानकारणत्वं शास्त्रेण
प्रतिपादितम्, अनुमानेन तस्य द्रढीकरणं कृतम् ||
“शास्त्रयोनित्वात्” इति तृतीये सूत्रे शास्त्रस्य योनि: शास्त्रयोनि:, शास्त्रं योनि: यस्य स:
शास्त्रयोनि: इत्यन्वयद्वयस्वीकारेण ब्रहमण: वेदकारणत्वं, वेदवेद्यत्वं च
प्रतिपादितम् ||
“ तत्तु समन्वयात् “ इति तुरीये सूत्रे ब्रहमप्रतिपादकोपनिषद्वाक्यानां
क्रियाङ्गत्वमुपासनाङ्गत्वञ्च निराकृतम् || ततो मोक्षस्वरूपं, मोक्षसाधनं,
जीवन्मुक्तिस्वरूपञ्च प्रदर्शितम् ||
एवञ्चास्मिन् चतुस्सूत्रीभागे एव जगत् , ब्रह्म, मोक्ष: , मोक्षोपाय: , प्रमाणानि,
जीवन्मुक्ति: इत्यादि सिद्धान्तानां प्रतिपादना
संग्रहेण कृता || तदनन्तराध्यायेष्वेतेषां
सिद्धान्तानां स्वरूपं समग्रेण प्रदर्शितमिति अद्वैतसिद्धान्तस्य
अवगाहनाय चतुस्सूत्रीभागेनैवालमिति वक्तुं
प्रभवाम: ||
अपि च चतुस्सूत्रीभागस्यायमपरो विशेष: यदस्मिन् भागे
प्रवृत्तानि चत्वारि सूत्राणि चतुर्णामधिकरणानां
मूलभूतानीति एकसूत्रात्मकानीमान्यधिकरणानि || तदितराधिकरणानि तु
बहुसूत्रात्मकानीति तदपेक्षया चतुस्सूत्त्रीभागस्य वैशिष्ट्यम् ||
तत: प्रायश: व्याख्यातृभिस्सर्वैरपि चतुस्सूत्रीभागे एव स्वपाण्डित्यप्रकर्ष:
प्रदर्शित: सिद्धान्तश्च समग्रतया प्रतिपादित: दृश्यते || रत्नप्रभाकारानामप्ययमेव
पन्था: || किञ्च रत्नप्रभाया: व्याख्याद्वयमपि तावत्पर्यन्तमेव समुपलभ्यत
इत्यस्माभि: चतुस्सूत्री भाग एव स्वीकृत:
|| तत्रादौ रत्नप्रभाकर्तृत्वविषये
विद्वल्लोके भिन्नाभिप्राया:
संदृश्यन्ते इति प्रथमत: रत्नप्रभाकर्तृत्वविचार: क्रियते||
No comments:
Post a Comment