2. The origin and development of Advaita –Vedanta
अद्वैतवेदान्तस्य उत्पत्ति : विकासश्च
DR.
CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A (Philosophy),
&; Ph. D
(Sanskrit)
Reader in Sanskrit (retd)
3/106, Premnagar, Dayalbagh AGRA-282005
अद्वैततत्त्वं ऋग्वेदे एव बीजरुपेण
संदृश्यते || तथा हि:-- “ एकं सद्विप्रा: बहुधा वदन्ति ” ( I-164-46) इत्यादि ऋक् अद्वैततत्त्वमेव प्रकटितवती दृश्यते || तत:
प्राचीनकालादारभ्यैव मानवमन: अद्वैते
लग्न: इति निस्संशयं वक्तुं प्रभवाम: ||
वेदस्तु कर्मप्रतिपादक: || कर्मण: उपासना, उपासनातो ज्ञानमिति तेषां विकासे
क्रम: || उपनिषद: उपासनाप्रतिपादिका: ज्ञानप्रतिपादिकाश्च ||
उपासनाप्रतिपादकानामप्युपनिषद्वाक्यानां ज्ञाने एवान्तत: तात्पर्यम् || तथा च
कर्मोपासनासमनुष्ठानफलभूताssत्मतत्त्वविचारप्रतिपादनपरासूपनिषत्सु “ नेह नानाsस्ति किञ्चन ” (कठ* उ* 4-11 ) इत्याद्या:
श्रुतय: अद्वैतभावमेव प्रकटयन्ति ||
उक्तञ्चात्रभवद्भि: भगवत्पादै: “ इष्यते च सर्वोपनिषदां सर्वात्मैक्यप्रतिपादकत्वम्” इति ( माण्डूक्योपनिषद्भाष्यम् ) || एवञ्च कर्मोपासनासंहितासु
बीजरुपेणाविर्भूतोsद्वैतसिद्धान्त: उपनिषत्सु भगवद्गीतादिग्रन्थेषु च विकासं
प्राप्त: दृश्यते || अद्वैततत्त्वप्रतिपादकत्वञ्च गीताया: --
पार्थाय प्रतिबोधितां भगवता
नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना
मध्ये महाभारतं
अद्वैताsमृतवर्षिणीं
भगवतीमष्टादशाध्यायिनी
मम्ब ! त्वामनुसन्दधामि भगवद्गीते
भवद्वेषिणीम्
– इति गीताध्यानश्लोकादवगम्यते ||
वेदान्तशास्त्रस्याधारभूतं प्रस्थानत्रयम् | तत्रोपनिषद: श्रुतिप्रस्थानं , ब्रह्मसूत्राणि
न्यायप्रस्थानं भगवद्गीता च स्मृतिप्रस्थानम् |
प्रस्थानत्रये सूत्रप्रस्थानमितरापेक्षया विशिष्यते तस्य
श्रुतिस्मृत्यो:सारांशरूपत्वाद्युक्तिमत्वाच्च || सूत्राणीमानि
संसारदु:खसंतप्यमानानां जनानां
विमुक्तिप्रदर्शनार्थं भगवता बादरायणेन विरचितानि |
अपि च औपनिषदानां च वचसां मिथोविरोधेनावभासमानानां विरोधपरिहाराय सूत्राणीमानि विरचितानीति सांप्रदायिकानां
कथनम् || सूत्रेष्वेषु बादरायणेन वेदान्तवाक्यानां
सारांश: न्यायेन प्रतिपादित: | अत्र न्यायो नाम पञ्चावयवोपेताधिकरणात्मकन्याय: ||
पञ्चावायवास्तु विषयसंशयपूर्वपक्षसमाधानसङ्गतय:
|| बादरायणाचार्यै: उपनिषदर्थ एव सूत्रेषु पुन: प्रतिपादित: || तदुक्तं भगवत्पादै:
“ वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम्
|| वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते ” इत्यादि || (
ब्रह्मसूत्रशाङ्करभाष्यम्)
सूत्रेषु बादरायणाचार्यै:
आश्मरथ्य: , औडुलोमि:, कार्ष्णाजनि:,
काशकृत्स्न:, जैमिनि: , बादरि: , आत्रेय:
इति केषाञ्चनाचार्याणां नामानि प्रकटितानि || तेषाञ्च सिद्धान्ता: “आर्षवेदान्त “ इति नाम्ना विद्वद्भि:
व्यवह्रियन्ते ||
श्रीमद्भगवत्पादेभ्य: पूर्वतनेष्वाचार्येषु
सुन्दरपाण्ड्य: , द्रविडाचार्य:, ब्रह्मनन्दी, भर्तृप्रपञ्च:, भर्तृहरि: ,
इत्याद्या: प्राधान्येन गणनीया: || अपि च
श्रीमद्भगवत्पादपरमगुरुभि: गौडपादाचार्यै: माड्णूक्योपनिषदर्थं विवरीकर्तुकामै:
काश्चन कारिका: विरचिता: || तदुपरि भगवत्पादै: भाष्यं कृतम् ||
श्रीभगवत्पादविरचितस्य भाष्यस्य
शारीरकमीमांसाभाष्यमिति नाम || शरीरमेव शरीरकं कुत्सितत्वात् || तन्निवासी
अर्थात् शरीराभिमानी शारीरको जीव: || शारीरकस्य मीमांसा ब्रह्मत्वविचार: जीवो
ब्रह्मैवेति विचार: शारीरकमीमांसा ||
अपि च नैके ग्रन्था: विरचिता: स्वातन्त्र्येण
पथा || तेष्वद्वैतसिद्धान्त: सुदृढं
प्रतिष्ठापित: || भगवत्पादानां कालस्तु 788—820 A.D इति चरित्रपरिशोधकानां निर्णय: ( अद्वैत वेदान्तसाहित्येतिहासकोश:
page -209 ) ||
भगवत्पादानन्तरमद्वैतसिद्धान्त:
भामतीवार्तिकविवरणप्रस्थानभेदेन त्रिधा विभक्त: तत्रापि प्राधान्येन द्विधा
भामतीविवरणप्रस्थानभेदेन || केषाञ्चन सिद्धान्तानां विषये भामतीविवरणमतयो:
भेदाभिप्राय एव प्रस्थानद्वयस्य हेतु: || तयो: प्रस्थानयो: मध्ये
सिद्धान्तपराभिप्रायभेदेषु सत्स्वपि उभयोरपि गम्यं
तावदद्वैतस्थापनमेवेत्यतोsद्वैतसिद्धान्तस्य भङ्गो न सञ्जात: ||
तत्रादौ भगवत्पादशिष्यै:
सूत्रभाष्यतात्पर्यं प्रपञ्चीकर्तुकामै: पञ्चपादिकाख्या व्याख्या विरचिता ||
परन्तु सेयं व्याख्या केनचन दुष्टेन नाशिता चतुस्सूत्री मात्रावशिष्टा पुनरपि
तैर्निर्मिता पञ्चपादानां जाता ||
सर्वशास्त्रसंग्रहरूपाया: तस्या: चतुस्सूत्रीरुपाया: विवरणं चक्रु:
विवरणाचार्या: श्रीप्रकाशात्मश्रीचरणा: || इयञ्च विवरणटीका पाण्डित्यपूर्णा ,
प्रामाणिकी , विवरणप्रस्थानस्य मूलभूता च विराजते ||
भगवत्पादशिष्यै: सुरेश्वराचार्यै: ‘ बृहदारण्यकभाष्यवार्तिकं’ , ‘ तैत्तिरीयोपनिषद्भाष्यवार्तिकं’ , ‘ नैष्कर्म्यसिद्धि:’ इत्यादि ग्रन्था: विरचिता: || एते
महानुभावा: वार्तिकप्रस्थानस्य मूलकर्तार: ||
अद्वैते भामतीनामकस्य तृतीयप्रस्थानस्य
कारणभूता: वाचस्पतिमिश्रा: || वाचस्पतिमिश्रविरचिता भामती अनेकाभि:
व्याख्योपव्याखाभि: समलङ्कृता भामतीप्रस्थानस्य मूलभूता विराजते ||
प्रायश:
अद्वैतसिद्धान्तप्रतिपादनपरा: पण्डिता: भामत्या: अथवा विवरणस्य च व्याख्यानं
कुर्वन्त: , तयोर्मार्गमनुसृत्य स्वातन्त्र्येण
ग्रन्थान् विरचितवन्त: दृश्यन्ते || भामतीप्रस्थानग्रन्थेषु अखण्डानन्दसरस्वतीकृता
‘ऋजुप्रकाशिका’, अमलानन्दकृता कल्पतरु: ,
अल्ललसूरिकृतं ‘भामतीतिलकम्’, अच्युतकृष्णानन्दकृता ‘भावदीपिका’ च प्राधान्येन गणनीया: ||
कल्पतरो: व्याख्या परिमळाख्या
अप्पय्यदीक्षितकृता सुप्रसिद्धा || कल्पतरोरपरा व्याख्या आभोगाख्या
लक्ष्मीनृसिंहकृताsतिनवीना काचिदुपलभ्यते ||
एवमेव भामतीमतमनुसृत्य विरचितेषु
स्वतन्त्रग्रन्थेषु अन्नंभट्टकृता “मिताक्षरा” अद्वैतानन्दसरस्वतीकृतं
ब्रहमविद्याभारणम् इत्याद्या: प्राधान्येन गणनीया: ||
एवमेव विवरणप्रस्थानमनुसृत्य निर्मितेषु
व्याख्यानेषु अखण्डानन्दमुनिकृतं ‘ तत्त्वदीपनम् ‘ विष्णुभटटोपाध्यायकृतं ‘ ऋजुविवरणम् ‘ इत्याद्या: सुप्रसिद्धा: || स्वतन्त्रग्रन्थेषु तु अनुभूतिस्वरुपाचार्यकृतं
‘
प्रकटार्थविवरणम् ‘ विद्यारण्यकृत: “ विवरणप्रमेयसंग्रह:” रामानन्दसरस्वतीकृत: “ विवरणोपन्यास: ” चातीव सुप्रसिद्धा: ||
ब्रह्मसूत्रभाष्यस्य आनन्दगिरिभि:
न्यायनिर्णयाख्या एका स्वतन्त्रा व्याख्या विरचिता || रत्नप्रभाकारै: “ वृद्धास्त्वेवमाहु: ” इति वृद्धपदनिर्देशेन आनन्दगिरीयं
मतं प्रदर्शितम् || ( रत्नप्रभा –page- 22 )
आनन्दगिरिकृता व्याख्या
तावदतिविस्तृता, सुबोधा, मूलतात्पर्यस्य सौलभ्येन बोधिका तत्र तत्र
मीमांसान्यायानां विस्तरेण लेखनादन्वर्थसंज्ञिका च || जगन्नाथाश्रमै:
भाष्यदीपिकाख्या व्याख्या ब्रह्मसूत्रशाङ्करभाष्यस्योपरि विरचिता ||
रत्नप्रभाकारै: टीकायोजनेति नाम्ना तेषां व्याख्या परामृष्टा || (
आश्रमश्रीचरणास्तु टीकायोजनायामेवमाहु: -- रत्नप्रभा-page-20. ) || परन्तु तेषां
व्याख्याग्रन्थ: संप्रति नोपलभ्यते ||
एवं बहव:
ब्रह्मसूत्रभाष्यव्याख्यारूपा: स्वतन्त्राश्च ग्रन्था: अद्वैत
सिद्धान्तप्रपञ्चनाय, परिरक्षणाय च अनेकै: असंख्याकाश्च विरचिता: दृश्यन्ते ||
तेषु भगवत्पादहृदयगतं भावं प्रकटीकर्तुंमनेकै: प्रयत्न: कृत: ||
No comments:
Post a Comment