Monday, December 18, 2017

4. The authorship of Ratnaprabha

4. The authorship of Ratnaprabha
(रत्नप्रभाव्याख्यानकर्तृत्वविमर्श: )
DR. CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A ( Philosophy),
 & Ph. D (Sanskrit)
3/106, Premnagar, Dayalbagh AGRA-282005
1. रत्नप्रभाकार: रामानन्द: 
रत्नप्रभायां तत्कर्तु: नाम न कुत्रापि निर्दिष्टम् || किन्तु परम्परागतोsमभिप्राय: यद्ररत्नप्रभाकारा: गोविन्दानन्दसरस्वतीमहाभागा: इति || प्रायश: सर्वाण्यपि हस्तलिखितपुस्तकानि गोविन्दानन्दकर्तृत्वमेव प्रदर्शयन्ति रत्नप्रभाया: || तथाहि:-- ब्रह्मसूत्रभाष्यव्याख्या गोविन्दानन्दसरस्वतीकृता   इत्यादि || (1)
अपि च रत्नप्रभाव्याख्यानान्ते ग्रन्थान्तगद्यमेवं प्रकारेण संदृश्यते || तथाहि:-- इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोपालसरस्वतीपूज्यपादशिष्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकमीमांसाव्याख्यायां रत्नप्रभायाम् इत्यादि || (2)
प्रायश: तादृशं ग्रन्थान्तगद्यमनुसरद्भि: आचार्य सर्वेपल्लि   राधाकृष्णन् (3), आचार्यदासगुप्तप्रभृतिभि: (4) दर्शनशास्त्रचारित्रकै: गोविन्दानन्दकर्तृत्वमेवाभिप्रेतं रत्नप्रभाया: || एवमेव श्री T.R सुब्रह्मण्य महाभागै: (5), श्रीराजन्नशास्त्रिमहोदयैश्च (6) गोविन्दानन्दकृतित्वेनैवाभिमता रत्नप्रभा || एवञ्चान्यैरपि बहुभिर्विमर्शकैश्चारित्रकैश्च गोविन्दानन्दकृतित्वमेवाभिप्रेतं रत्नप्रभाया: ||
परन्तु सम्यक्परिशीलितायां रत्नप्रभायां  विचार्यमाणेषु च ग्रन्थान्तरेषु रत्नप्रभाप्रणेता गोविन्दानन्दसरस्वतीभ्योsन्य: इति स च रामानन्दसरस्वतिरिति च ज्ञायते || एतदधिकृत्य श्री P.P. सुब्रह्मण्यशास्त्रिभि: काश्चनोपपत्तय: प्रदर्शिता: (7)  || एवमेवाद्वैतग्रन्थकोशस्य उपोद्घातेsपि काश्चनोपपत्तय: प्रदर्शिता: || इहास्माभिरपि काश्चनोपपत्तय: प्रदर्श्यन्ते ||
1.             रत्नप्रभायामयं श्लोक: दृश्यते
कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याभिपूज्य
श्रीगौरीनायकाभित्प्रकटितशिवरामार्यलब्धात्मबोधै:
श्रीमद्गोपालगीर्भि:प्रकटितपरमाद्वैतभासास्मितस्य
श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोsहं यथाsळि:  (8)   
 अत्र श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोsहं यथाsळि: (9) इति ग्रन्थकृत्प्रार्थनया रत्नप्रभाकारा: गोविन्दानन्दसरस्वत्य: न भवितुमर्हन्तीति तेषामन्तेवासिना केनाप्यन्येन रत्नप्रभाकर्तृत्वेन भवितव्यमिति च स्पष्टम् ||  अत्र गुरुपरंपरायां ग्रन्थकारै: परमेष्ठिगुरुत्वेन शिवरामार्या: , परमगुरुत्वेन गोपालसरस्वत्य: गुरुत्वेन गोविन्दानन्दसरस्वत्य: प्रस्तुता: इति तेभ्यो भिन्ना: एव रत्नप्रभाकारा: इति वक्तव्यम् ||
2. अपि च रत्नप्रभायामिदं वाक्यमस्ति || तथाहि :-- विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासेन दर्शित: सुखबोधाय इतीहोपरम्यते (10) इति || वाक्यमिदं रत्नप्रभाविवरणोपन्यासयोरेककर्तृकत्वं सूचयति || विवरणोपन्यासश्च रामानन्दकृतित्वेन प्रसिद्धिं गत: || अतस्त एव रत्नप्रभाकर्तारोsपि  भवन्ति इति वक्तुं शक्यते || किञ्च रत्नप्रभायामादौ रामस्तुति: कृता || (11) एवमेव विवरणोपन्यासेsपि  राम एव प्रस्तुत: || (12) अपि च ग्रन्थयो: द्वयो: कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याभिपूज्य--- इत्यादि श्लोक: दृश्यते || (13) तथा च ग्रन्थयोरुभयो:  कृता रामस्तुति: कामाक्षीत्यादि श्लोकश्च तयोरेककर्तृकत्वं द्रढयति || विवरणोपन्यासग्रन्थस्य संपादकै: श्री दामोदरशास्त्रि सहस्रबुद्धिमहाभागै: अत्र कामाक्षीत्यादि श्लोक: असंबद्ध: इति प्रतिभाति इत्युक्तम् || परन्तु तैरसंबद्ध कारणानि न प्रदर्शितानि (14) ||
3.    रत्नप्रभाया: एका व्याख्या अभिव्यक्ताख्या पूर्णानन्दसरस्वतीकृता  विराजते या च पुन: पूर्णानन्दीयमिति प्रसिद्धिं गता || तत्रादौ श्रीमच्छारीरकं भाष्यं व्याचिख्यासु: श्रीरामानन्दाचार्य: इत्याद्युक्तं ग्रन्थकारै: || (15) || अपि च समन्वयभाष्यव्याख्यानविवरणे कार्यान्तरं मध्ये न भातीति रामानन्दीयपाठान्तरमत्र समीचीनम् इत्युक्तम् || यथा च वाक्यद्वयेनानेन रत्नप्रभानिर्मातार: रामानन्दा: एवेति निश्चयेन वक्तुं शक्यते ||
4. अपि च रत्नप्रभाया: अपरा व्याख्या भागदीपिकाख्या अच्युतकृष्णानन्दविरचिता काचित्समुपलभ्यते || तद्व्याख्यानान्ते श्रीमत्स्वयंप्रकाशानन्दसरस्वतीशिष्याच्युतकृष्णानन्दतीर्थस्य कृतौ भाष्य रत्नप्रभायामीक्षत्यधिकरणं समाप्तम् || रामानन्दीयस्याच्युतकुष्णानन्दीयं समाप्तम् इत्येवं रूपेण लिखितमस्ति || (16) ||
एतेनेदं ज्ञायते यद्रत्नप्रभाकारा: रामानन्दा एवेति || अत्रास्माभि:  किञ्चिद्वक्तव्यमप्यस्ति || अभिव्यक्तकारा: पूर्णानन्दा: ब्रह्मविद्याभारणकाराणामद्वैतसरस्वतीनां शिष्या: इति उक्तमस्मद्गुरुभि: ब्रहमविद्याभरणे इत्यनेकश: उक्तत्वादवगम्यते || (17) || अद्वैतानन्दसरस्वतयस्तु रामानन्दसकाशाल्लब्दविद्या: इति ब्रह्मविद्याभरणादेव ज्ञायते || (18) || एवञ्चाद्वैतानन्दसरस्वतीनां शिष्या: पूर्णानन्दा: रत्नप्रभाकाराणां  रामानन्दसरस्वतीनां प्रशिष्या: भवन्ति || एवमेव अभिव्यक्तकारा: अच्युतकृष्णानन्दसरस्वत्य: ब्रहमविद्याभरणकारान् विशेषेणास्तुवन्  || तथा हि: --
गुरोरपि गरीयान्मे य: कलाभिरलङ्कृत:
अद्वैतानन्दवाण्याख्य: तं वन्दे शमवारिधिम्  इति || (20)
तथा च अच्युतकृष्णानन्दा: पूर्णानन्दसरस्वतीनां सामयिका: भवितुमर्हन्तीति ताभ्यां प्रतिपादितं रामानन्दकर्तृत्वं रत्नप्रभाया: उपपन्नमेव भवति ||
5. शृङ्गेरीपीठसंप्रदायानुयायिन: रत्नप्रभाकर्तारं रामानन्दमेव विश्वसन्ति || (21)
6. एवमेव रत्नप्रभाया: रामानन्दीयमिति व्यवहारोsपि तत्कर्तृत्वमेव सूचयति ||
7. अपि च रत्नप्रभायां चतुर्थाध्यायव्याख्यानारम्भे राम नामास्मि इत्युक्तत्वात् (R-22) अहं नाम्ना रामोsस्मि ( Rama is my name /I am Rama by name) इत्यर्थ: सूचित: ||
8. रत्नप्रभाकार: रामानन्द एव भवितुमर्हतीति अद्वैतग्रन्थकोशस्य उपोद्घातादवगम्यते || (23)
आधुनिकेष्वपि श्री पोल्कं श्रीरामशास्त्रिमहाभागै: ( R- 24) श्री तङ्ग स्वामिमहोदयैश्च (25) रत्नप्रभाकर्तृत्वेन रामानन्द: एवाभिमत: || एवञ्चोपरिनिर्दिष्टै: प्रमाणै: रत्नप्रभाकार: रामानन्द एवेति निश्चप्रचं वक्तुं प्रभवाम:||      पुन: केचन रामानन्दगोविन्दानन्दयो: व्यक्त्यैक्यं प्रतिपादयन्ति || तथा हि :- श्री कृष्णमाचार्यमहाभागा: रामानन्दगोविन्दानन्दयो: व्यक्त्यैक्यं प्रतिपादयन्ति || रामभक्त्यतिशयत्वाद्गोविन्दानन्दस्यैव रामानन्द इति व्यवहार: इति तेषां कथनम् || (R- 26)
किन्तु श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोऽहं यथालि: इति रत्नप्रभागतं वचनं गोविन्दानन्दरामानन्दयो: व्यक्त्यैक्यवादस्य बाधकं भवति || तथाचात्र गोविन्दानन्दा: गुरव:, तच्छिष्यास्तु रामानन्दा: इति भिन्नव्यक्तित्वं तयोरवश्यमङ्गीकर्तव्यमेव || अत्र हाल (Hall)  पण्डितस्तु एवमभिप्रैति यद्रामानन्दा: स्वगुरोर्णाम्ना रत्नप्रभां विरचितवन्त: इति (R-27) || नैतत्समीचीनं रत्नप्रभायां ग्रन्थकर्तु: नाम न कुत्रापि निर्दिष्टत्वात् ||
रत्नप्रभाकर्तृत्वविषये शी राजन्नशास्त्रिमहोदयानामयमभिप्राय: (R-28) यत् वारणासि धर्मसुधी: वयसि च चरमे गोविन्दानन्दसरस्वतीभ्य: चतुर्थाश्रमदीक्षां स्वीचकार || तदनन्तरं तेन रत्नप्रभा विरचिता || रत्नप्रभायां स्वनाम्नोsख्यापनात् निजदीक्षागुरुवर्यगोविन्दानन्दसंस्मरणाच्च स्वगुरो: नाम्नैव व्यवहृता, रत्नप्रभाकर्तृत्वेन प्रथां गता || अयञ्च धर्मसुधी: वारणासिवंशज: || तस्य पूर्वीका: वाराणस्यां न्यवसन्निति हेतो: तेषां वारणासि इति वंशनाम ( Surname) संप्राप्तम् || अयञ्च कृष्णानदीतीरस्थ पेदपुल्लिवररु   ग्रामवासी आसीदिति तस्य वंशजा: तत्रस्था: विश्वसन्ति , तमेव स्ववंशस्य मूलपुरुषं  कथयन्ति च ||
अयं धर्मसूरि: पर्वतनाथसूरे: यल्लमांबायां समुत्पन्न: || अस्य पिता षडदर्शनीनिष्णात: || स: वादेन जनार्दनाख्यं पण्डितं जित्वा तस्य वादकेसरि बिरुदं स्वयं जग्राह || वैष्णवञ्च पण्डितं प्रच्याव्य मायावादिभयङ्कराख्यबिरुदेनापि ख्यात: लोके || अनेन पञ्चपादिकाविवरणव्याख्यापि विरचितेति व्याख्या विख्यातकीर्ते: विवरणगुरुवाक्सांख्यमुख्यागमानाम् इत्यादि श्लोकादवगम्यते (R-29) ||
रामानन्दै: पुन: स्वकीयो ग्रन्थ: स्वगुरोर्नाम्ना प्रसिद्धिं गमित: इति यो विषयोsस्ति तत्र तु प्रबलं प्रमाणं नैवोपलभ्यते || अत: रत्नप्रभाकार: रामानन्द एवेति निश्चप्रचं वक्तुं प्रभवाम: || 
References:
1.       (Descriptive catalogue of Sanskrit manuscripts , Adayar library. Vol IX.page.183,185&186 and Descriptive catalogue of Sanskrit manucsripts (Prajnana Pathasala mandal collections) Part 2 page 826)
2.       ( रत्नप्रभा-ग्रन्थान्ते)
3.        Article:-- Problems of identity by P. P. Subrahmanya Sastry , P.A.I.O.C Tirupati 1940. pub:- Madras 1941 ). ( Indian Philosophy, Vol. 2. page 452, fn)
4.       ( History of Indian Philosophy Vol I Page 89 & 90 ,Vol II.page 40,81& 103 )
5. (Article:- GOVINDANANDA From preceptors of Advaita-page-190 )
 (6) (साहित्यरत्नाकर:) * प्रस्तावना page-6. )     
(7)  Article:-- Problems of identity by P. P. Subrahmanya Sastry , P.A.I.O.C Tirupati 1940. pub:- Madras 1941 )
8. रत्नप्रभा-page-2.sloka-4
9. तत्रैव
10. यमिह करुणिकं शरणं गतोप्यरिसहोदर आप महत्पदम् |
   तमहमाशु हरिं परमाश्रये जनकजाङ्कमनन्तसुखाकृतिम् ||
1.       वन्दे वन्दारुबृन्दस्फुटमुकुटमणिद्योतितांघ्रिं रमेशं
श्रीरामं सद्य एव प्रणतजनगतध्वान्तविच्छेदहेतुम् ||
सत्यानन्दानुभूतिं निजहृदिविशनान्मायया जीवसंज्ञं
सर्वज्ञं सर्वसंज्ञं निजमहिमदृशां नेतिनेत्यक्षराख्यम् ||
2.       रत्नप्रभाpage=2-sloka20 & विवरणोपन्यास:-page-1 sloka -2
3.       तत्रैव page-1
4.       पूर्णानन्दीयम्page-2
5.       तत्रैव-page-155
6.       Descriptive Catalogue of Adyar Library * Vol-IX-4282,M-20.p
     -86, 87 &88.
7.       पूर्णानन्दीयम्- pages-138,139&191
8.       रामानन्दमुनिं मुनीन्द्रनिकरैरासेवितं सर्वदा ब्रह्मविद्याभरणम् page-1
9.       रामानन्दपदाम्भोजं प्लवं कृत्वा मनोहरं |
चत्वारोप्यर्णवा: ह्येते समुत्तीर्णा यथामति || तत्रैव page-141
10.   भागदीपिका-page-1-sloka-5
11.   P.A.I.O.C-(तप्त)1940-p-44. Pub-Madras-1941.
12.   यद् ज्ञानाज्जीवतो मुक्तिरुत्क्रान्तिगतिनिर्जिता |
लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम् ||
23 अद्वैतग्रन्थकोश: -- उपोद्घात: -page XXXXVIII (48)
24. पञ्चपादिकाविवरणम्- अवतारिका- page-85.
25 अद्वैतवेदान्तसाहित्येतिहासकोश:--page-280.
26. History of classical Sanskrit Literature- page-799.-800.
27. Hall-page-89 M.T-878.
28. साहित्यरत्नाकर: --प्रस्तावना
29. साहित्यरत्नाकर: ! -38


No comments: