Saturday, December 9, 2017

The significance of Advaita –Vedanta

1. The significance of Advaita –Vedanta
अद्वैतवेदान्तस्य प्राशस्त्यम्

DR. CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A (Philosophy),
 & Ph. D (Sanskrit)
Reader in Sanskrit (retd)
3/106, Premnagar, Dayalbagh AGRA-282005

प्रयाश: लोके सर्वोऽपि जन्तु: इष्टं मे भूयादनिष्टं च माsभूत् इति सुखावाप्तिं दु:खनिवृत्तिञ्च कामयते | प्रयतत एव तदर्थंम् | सुखं द्विधं सातिशयनिरतिशयभेदात् |
ऐहिकामुष्मिकसुखानां कर्मजन्यत्वात्सातिशयत्वमनित्यत्वं च तद्यथेह कर्मचितो लोक: क्षीयते एवमेवामुत्र पुण्यकृतो लोक: क्षीयते ( छान्दोग्य उपनिषद (8-1-6) इत्यादि  श्रुत्या, आब्रह्मभुवनाल्लोका: पुनरावर्तिनोsर्जुन (भगवद्गीता-VI16) इत्यादि स्मृत्या   यत्कृतकं तदनित्यम् इति न्यायेन च स्पष्टम् |
एतेषाञ्च पुन: न तदस्ति सुखं लोके यन्न दु:खकरं भवेत् इत्याद्युक्त्या दु:खसम्भिन्नत्वमेव बाहुल्येन लोके दरीदृश्यते| यद्यप्यामुष्मिकसुखस्य दु:खसंभिन्नत्वं नास्ति तथापि तस्य तारतम्ययुक्तत्वादनित्यत्वाच्च तुच्छत्वम् ||

अपि चानुभूयमानं दु:खम् आधिभौतिकम् , आधिदैविकम् , आध्यात्मिकम् इति त्रिविधम् || तत्र  मनुष्यमृगादिभिरुत्पन्नं दु:खमाधिभौतिकम् || यक्षराक्षसग्रहादिभिर्जातमाधिदैविकम् || आध्यात्मिकं तु शारीरं मानसञ्चेति पुनर्द्विविधम् || वातपित्तादिजं शारीरं कामक्रोधादिजं मानसञ्च || सर्वस्याप्यस्य दु:खस्य कर्मजन्यत्वात् कर्मण: मिथ्याज्ञानहेतुत्वाच्च दु:खनिवृत्तिस्तु मिथ्याज्ञाननिवृत्त्यैव भवति || मिथ्याज्ञानन्तु यथार्थज्ञाननिवर्त्यम् || तच्च ब्रह्मसाक्षात्कारात्मकं ब्रह्मविदाप्नोति परम् ( तैत्तिरीय उपनिषद2.1) इत्यादि श्रुते: || आत्मैव ब्रह्मेति   अयमात्मा ब्रह्म ( बृहदारन्यक उपनिषद 2-5=19) इत्यादि श्रुति मूलकम् ||  तथा चात्मसाक्षात्कार एव मानवजीवनस्य परमोद्देश: तस्य निरतिशयानन्दहेतुत्वात् || उक्तञ्च || सोsश्नुते सर्वान् कामान् ( तै*उ-2-1), आत्मनस्तु कामाय सर्वं प्रियं भवति ( बृ*उ 2.4.5) आत्मलाभान्न परं विद्यते किञ्चित् (आपस्तम्बधर्मसूत्राणि1.22.2) इत्यादि श्रुतिस्मृतिभि: || स चात्मसाक्षात्कार: वेदान्तवाक्यश्रवणमनननिदिध्यासनैरेव सम्भवति नाsन्यथा || उक्तञ्च ||

श्रोतव्य: श्रुतिवाक्येभ्य: मन्तव्यश्चोपपत्तिभि: |
मत्वा च सततं ध्येय: एते दर्शनहेतव: ||
( संख्यप्रवचनभाष्यम् पृ-2)

आत्मस्वरुपप्रतिपादकानि शास्त्राणि दर्शनपदेन व्यपदिश्यन्ते | दृश्यते ह्यात्मा अनेन इति दर्शनम् |  दर्शनानीमानि नास्तिकास्तिकभेदेन द्विविधानि | तत्र प्रायश: वेदोपजीवीनि आस्तिकदर्शनानि तद्विपरीतानि च नास्तिकानि | चार्वाकजैनबौद्धानि नास्तिकानि, सांख्यन्यायमीमांसादर्शनानि चास्तिकानि | मीमांसा च पुन: पुर्वोत्तरभेदेन द्विविधा | तत्र वेदस्योत्तभागस्तु वेदार्थब्रह्मनिर्णायकत्वेन वेदान्तापरनामक:| कर्मापेक्षया ज्ञानस्याभ्यर्हितत्वात् , परमप्रयोजनवत्वाच्च पूर्वमीमांसापेक्षया  उत्तरमीमांसादर्शनस्य  प्राधान्यम् | अपि च वेदार्थनिर्णाकत्वात् वेदान्तदर्शनस्यैव सर्वदर्शनापेक्षया प्राधान्यमुपपद्यते | अत एवोक्तं स्मृतौ  --

दद्यान्नावसरं  किञ्चित्कामादीनां मनागपि |
आसुप्तेराम्रुते: कालं नयेद्वेदान्तचिन्तया || इति

अपि च यद्यपि सर्वाणि दर्शनान्यात्मस्वरूपबोधकानि तथाप्यात्मस्वरुपप्रतिपादनविषये तानि परस्परं विरुध्यन्ते इति आत्मयाथार्थ्यज्ञानेनैव पुरुषार्थसिद्धि: तद्विपरीते न केवलं पुरुषार्थहानि: किन्त्वनर्थपरम्पराप्राप्तिश्च | उक्तञ्च स्मृतौ :--

योsन्यथा   सन्तमात्मानमन्यथा प्रतिपद्यते |
किं तेन न कृतं पापं चौरेणात्मापहारिणा || इति

उक्तञ्चत्रभवद्भि: श्रीशङ्करभगवत्पादै: :--
 एवं बहव: विप्रतिपन्ना: युक्तिवाक्यतदाभाससमाश्रयास्सन्त: | तत्राविचार्य    यत्किञ्चित्त्प्रतिपद्यमानो निश्रेयसात्प्रतिहन्येतानर्थञ्चेयात्त् इत्यादि | तथा चात्मयाथार्थ्यज्ञानाय वेदान्तवाक्यविचार: कर्तव्य: इति फलितोsर्थ:|
वेदान्तशास्त्रस्याधारभूतं प्रस्थानत्रयम् | तत्रोपनिषद: श्रुतिप्रस्थानं , ब्रह्मसूत्राणि न्यायप्रस्थानं भगवद्गीता च स्मृतिप्रस्थानम् |  प्रस्थानत्रये सूत्रप्रस्थानमितरापेक्षया विशिष्यते तस्य श्रुतिस्मृत्यो:सारांशरूपत्वाद्युक्तिमत्वाच्च ||

लघूनि सूचितार्थानि  चाल्पाक्षरपदानि च
सारवत्सर्वभूतानि सूत्राण्याहुर्मनीषिण:  इति सूत्रलक्षणं विज्ञेयम् |

सूत्राणीमानि संसारदु:खसंतप्यमानानां  जनानां विमुक्तिप्रदर्शनार्थं भगवता बादरायणेन विरचितानि | ( बदरा: बदरीवृक्षा: यस्मिन्देशे सन्ति स देशविशेषो बादर: स एवायनं स्थानं यस्य स: बादरायण: श्रीवेदव्यास: || -
पूर्णानन्दीयम् पृ-5)

अपि च औपनिषदानां  च  वचसां मिथोविरोधेनावभासमानानां  विरोधपरिहाराय सूत्राणीमानि विरचितानीति सांप्रदायिकानां कथनम् || सूत्रेष्वेषु बादरायणेन  वेदान्तवाक्यानां सारांश: न्यायेन प्रतिपादित: | अत्र न्यायो नाम पञ्चावयवोपेताधिकरणात्मकन्याय: ||
 पञ्चावायवास्तु विषयसंशयपूर्वपक्षसमाधानसङ्गतय: ||

विषयो विशयश्चैव  पूर्वपक्ष: तथोत्तरं
सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेsधिकरणं स्मृतम् | इति ||

बादरायणसूत्रेषु अध्यायाश्चत्वार: समन्वयाविरोधसाधनफलाख्या:|
प्रत्यधिकरणं चत्वार:पादा: ||

 प्रथमेsध्याये--31+32+43+28=134
   द्वितीयेsध्याये 37+45+53+22=157
  तृतीयेsध्याये 27+41+66+52=186
चतुर्थेsध्याये 19+21+16+22=78

 इति क्रमेण पञ्चपञ्चाशदधिकपञ्चशतं (555) सूत्राणि ||
 उपनिषदर्थप्रतिपादकानां सूत्राणां सर्वप्रथमत: तत्रभवद्भि:  श्री शंकरभगवत्पादै: अद्वैततत्त्वप्रतिपादकं प्रसन्नगम्भीरञ्च भाष्यं विरचितम् ||

सूत्रार्थो वर्ण्यते यत्र वाक्यै: सूत्रानुकारिभि:
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु: इति भाष्यपदस्यार्थ: ||

द्विधा इतं  द्वीतं,  तस्य भाव: द्वैतं (भेद:) || नास्ति द्वैतं भेदो यस्मात् तदद्वैतम् | (रत्नप्रभा- पृ -22) |
तस्येदं विवरणम् ||  प्रकारद्वयसत्ता द्वैतमित्युच्यते || तथा हि :-  इदं रजतम्   इत्यत्र इदमवच्छिन्न(चैतन्य)मधिष्ठानं रजतमारोपितम् || तत्रारोपेsधिष्ठानतादात्म्यं वर्तते ||  आरोपनिष्ठाधिष्ठानतादात्म्यमारोपितं च प्रकारद्वयम् || एतादृशं द्वयं यस्मिन्नुच्यते तत् द्वैतम् || न विद्यते यस्मिन्  द्वैतं तदद्वैतम् ||

           ब्रह्मसूत्राणां श्रीभगवत्पादानन्तरं श्रीरामानुजानन्दतीर्थाद्याचार्यै: विशिष्टाद्वैतादिमतपराणि भाष्याणि विरचितानि || विशिष्टयो: अर्थात् सूक्ष्मचिदचिद्विशिष्टस्य कारणस्य ब्रह्मण:, स्थूलचिदचिद्विशिष्टस्य कार्यस्य ब्रह्मणश्चाद्वैतं विशिष्टाद्वैतम् || मध्वाचार्याणाम् आनन्दतीर्था: इति नामान्तरम्  || आनन्दतीर्थीयं भाष्यं केवलं द्वैतं  स्थापयति जीवब्रह्मणो: ||

जीवेश्वरभिदा चैव  जडेश्वरभिदा तथा
जीवभेदो मिथश्चैव  जडजीवभिदा तथा
मिथश्च जडभेदो य: प्रपञ्चो भेदसंज्ञित: इति मध्वाचार्यसिद्धान्त: ||

 एवमनेकैराचार्यै: विविधसिद्धान्तप्रतिपादकानि  भाष्याणि विरचितानि समुपलभ्यन्ते ||

    क्रम:  ख्याकार:  -काल: --  व्याख्यानस्य नाम सिद्धान्त:

1.       श्रीशंकर: (788820AD)-- शारीरकमीमांसाभाष्यम्- केवलाद्वैतम्
2.       श्रीभास्कर: (1000 A.D) भास्करभाष्यम् - भेदाभेदवाद:
3.        श्रीरामानुज: (1140 A.D) श्रीभाष्यम्-- विशिष्टाद्वैतम्
4.       श्रीमध्वाचार्य: (1238 A.D ) पूर्णप्रज्ञभाष्यम् -- द्वैतम्
5.       श्रीनिम्बार्क: ( 13 उत्तरार्ध:) -- वेदान्तपारिजातम् -- द्वैताद्वैतम्
6.       श्रीकण्ठ:  ( 1270 A.D) -- शैवभाष्यम्शैवविशिष्टाद्वैतम्
7.       श्रीपति: ( 1400 A.D ) --  श्रीकरभाष्यम् --वीरशैवविशिष्टाद्वैतम्
8.       श्रीवल्लभ: ( 1479-1544 ) --अणुभाष्यम् -- शुद्धाद्वैतम्
9.       श्रीविज्ञानभिक्षु: ( 1600 A.D ) -- विज्ञानामृतम् -- अविभागाद्वैतम्
10.   श्रीबलदेव: ( 1725 A. D ) गोविन्दभाष्यम् -- अचिन्त्यभेदाभेद:   

( Brahmasutradarshanam ( A Telugu work by Sri. Nori Shrinathavenkatasomayajulu, Ramakrishna publications, 2, Raman street , T Nagar Madras-600017 )

अद्वैतस्य वैशिष्ट्यम्
1. सर्वमतापेक्षया अद्वैते एकं  महद्वैलक्षण्यमस्ति || तथा हि :- आत्मैवेदं सर्वम् ( छा* उ* 7-25-2 ) सर्वं खल्विदं ब्रह्म ( छा* उ* 3-14-1 ) नेह नानास्ति किञ्चन (बृ*उ*4 4 -19 ) इत्यादि श्रुत्यर्थे पर्यालोच्यमाने उपनिषत्प्रतिपादित: सिद्धान्तस्तावदद्वैतमेवेति प्रतिभाति || अत एव भगवत्पादप्रतिपादितस्याद्वैतसिद्धान्तस्य महानादरस्सञ्जात: ||
2. अपि च शाण्डिल्यभक्तिसूत्रे आत्मैकपरां बादरायण: ( सू* 30 ) इति सूत्रेण बादरायणमतस्याद्वैते  ऐदम्पर्यमुक्तं ज्ञायते ||
3. सौरसंहितायाम् द्वैतरूपं तु यद्वस्तु तदज्ञानविजृम्भितम्  इति  व्यतिरेकेणाद्वैतमेव प्रतिपादितम् ||       
  4. श्रीशंकरभगवत्पादानां परमगुरुभि: श्रीगौडपादाचार्यैरद्वैतमतस्य वैशिष्ट्यमेवं प्रकटितम् || तथा हि :--
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता: दृढम् |
परस्परं विरुध्यन्ते तैरयं न विरुध्यते इत्यादि ( माण्डूक्यकारिका iii-30 ) ||
5. भगवत्पादैरपि क्लेशाsनास्पदत्वात्सम्यग्दर्शनमित्यद्वैतदर्शनं स्तूयते इत्यद्वैतदर्शनस्य वैशिष्ट्यं प्रकटितम् ( माण्डूक्यकारिकाभाष्यम् ) ||
6. किञ्च  विद्यारण्यश्रीचरणै: --
अहो शास्त्रमहोशास्त्रमहो गुरुरहो गुरु: |
अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् ||
 इति परमाश्चर्यकरमद्वैतं तस्यावाङ्मानसगोचर: परमानन्दानुभव: फलमिति प्रतिपादितम् || अत एव वेदभाष्यप्रणेतारोsपि विद्यारण्यश्रीचरणा: पूर्ववेदभागं सर्वं कर्मपरत्वेन व्याख्याय, उपनिषद्वाक्यानि सर्वाण्यपि सिद्धब्रह्मपराणीति पञ्चदशीमुखेन प्रतिपादयामासु:||   
            श्रीभगवत्पादविरचितस्य
भाष्यस्य शारीरकमीमांसाभाष्यमिति नाम || शरीरमेव शरीरकं कुत्सितत्वात् || तन्निवासी अर्थात् शरीराभिमानी शारीरको जीव: || शारीरकस्य मीमांसा ब्रह्मत्वविचार: जीवो ब्रह्मैवेति विचार: शारीरकमीमांसा ||
एतदद्वैततत्त्वं ऋग्वेदे एव बीजरुपेण संदृश्यते || तथा हि:-- एकं सद्विप्रा: बहुधा वदन्ति ( I-164-46) इत्यादि ऋक् अद्वैततत्त्वमेव प्रकटितवती दृश्यते || तत: प्राचीनकालादारभ्यैव मानवमन:  अद्वैते लग्न: इति निस्संशयं वक्तुं प्रभवाम: ||  वेदस्तु कर्मप्रतिपादक: || कर्मण: उपासना, उपासनातो ज्ञानमिति तेषां विकासे क्रम: || उपनिषद: उपासनाप्रतिपादिका: ज्ञानप्रतिपादिकाश्च || उपासनाप्रतिपादकानामप्युपनिषद्वाक्यानां ज्ञाने एवान्तत: तात्पर्यम् || तथा च कर्मोपासनासमनुष्ठानफलभूताssत्मतत्त्वविचारप्रतिपादनपरासूपनिषत्सु नेह नानाsस्ति किञ्चन (कठ* उ* 4-11 ) इत्याद्या: श्रुतय:  अद्वैतभावमेव प्रकटयन्ति ||
उक्तञ्चात्रभवद्भि: भगवत्पादै: इष्यते च  सर्वोपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् इति ( माण्डूक्योपनिषद्भाष्यम् ) || एवञ्च कर्मोपासनासंहितासु बीजरुपेणाविर्भूतोsद्वैतसिद्धान्त: उपनिषत्सु भगवद्गीतादिग्रन्थेषु च विकासं प्राप्त: दृश्यते || बादरायणाचार्यै: उपनिषदर्थ एव सूत्रेषु पुन: प्रतिपादित: || तदुक्तं भगवत्पादै: वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम् || वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते इत्यादि || ( ब्रह्मसूत्रशाङ्करभाष्यम्)

>>>>>>>>><<<<<<< 

No comments: