Friday, November 14, 2025

A Study of Ratnaprabha – 38

 

A Study of Ratnaprabha – 38

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

गताङ्कादग्रे

एवं भगवत्पादै: ब्रह्मात्मैकत्वविज्ञानस्य संपदादिनिराकरणेन पुरुषव्यापारतन्त्रत्वं

निराकृतं , सिद्धवस्तुत्वं च प्रतिपादितम् ||

 

एवमेव “अन्यदेव तद्विदितादथो sविदितादधि

(के.उ* 1.3)  यद्वाचाsनभ्युदितं येन वागभ्युद्यते तदेव् ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” ( के.उ*1.4) इत्यादि श्रुतीनां प्रशंसनेन  ब्रह्मण: विदिक्रियाकर्मत्वं , उपासनाकर्मत्वं च प्रतिषिध्यते || ननु ब्रह्मण: शास्त्रबोधाsविषयत्वे   शास्त्रयोनित्वानुपपत्तिरिति चेन्न || अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य || तथा च ब्रह्मण: शास्त्रजन्यबोधकृताsविद्या निवृत्तिफलशालित्वरुपशास्त्रप्रमाणकत्वमभ्युप गम्यते  ||

न शास्त्रजन्यबोधविषयत्वरूपं दृश्यत्वापत्ते: अनेकशास्त्रविरोधाच्चेति तत्र बोधजनकत्वेन प्रतिज्ञातत्वात् न ब्रह्मण: शास्त्रयोनित्वानुपपत्तिरिति भाव: || अत्र पुन: इयमाशंका स्यात् || तथा हि:- अविद्यानिवर्तकत्वेन  शास्त्रस्य प्रामाण्येsपि निवृत्तेरागन्तुकत्वात् अर्थात् जन्यत्वात् मोक्षस्यानित्यत्वं स्यादिति || अत्र सिद्धान्ते एवमुक्तं रत्नप्रभाकारै: || तथा हि :- जन्यत्वेsपि निवृत्तिरूपध्वंसस्य नित्यत्वात् आत्मरूपत्वाच्च नाsनित्यत्वप्रसङ्गो मोक्षस्य इति ||

 अपि च उत्पत्ति- विकार- आप्ति-संस्काररूपं चतुर्विधमेव   क्रियाफलम् ||    

अत्रोत्पाद्यं घटादि , विकार्यं दध्यादि ,आप्यं ग्रामादि , संस्कार्यं व्रीहिपोक्षणादिकं च || तत्र कर्मण: आवश्यकता अस्त्येव किन्तु ब्रह्मण: तद्भिन्नत्वान्न  कर्मापेक्षा || तथाहि:- अद्वितीयत्वादुत्पाद्यं न भवति || “साक्षी चेता केवलो निर्गुणश्च” (श्वेता .उ *6.11) इत्यादि श्रुतिभ्य: ब्रह्मण: निर्गुणत्वात्तस्य विकार्यत्वं न संभवति || किं चाssप्यत्वमपि तस्य नोपपद्यते || सर्वगतत्वेन नित्याप्तत्वात् || एवमेव संस्कार्यत्वमपि न घटते || तथा हि:- संस्कारो द्विविध: || संस्कार्यस्य गुणाधानेन वा स्या द्दोषापनयनेन वा || यथा व्रीह्यादौ     प्रोक्षणादिना गुणाधानलक्षणसंस्कार:, वस्त्रादौ तु क्षालनेन दोषापनायनसंस्कारश्च ||

एतद्वयमपि ब्रह्मणि न घटते || तथा हि:- अनाधेयातिशयब्रह्मस्वरूपत्वात् तत्र गुणाधानं न संभवति नित्य-शुद्ध-बुद्ध-मुक्तस्वरु पत्वाद्दोषापनयनञ्च ||    

 अपि च यथा आदर्श: निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म: तथैवाssत्मनि संस्क्रियमाणे मोक्ष: इति पूर्वपक्षे प्राप्ते  एवमुच्यते || आत्मन: अविकार्यत्वात् क्रियाश्रयत्वमपि नोपपद्यते इत्यादि || तस्मात् ज्ञानमेकं मुक्त्वा क्रियया गन्धमात्रमप्यनुप्रवेश:  इह नोपपद्यते इति सिद्धान्तितं भगवत्पादै: ||

 अत्र “ननु ज्ञानं नाम मानसी क्रिया”  इति ज्ञानस्यापि क्रियारूपत्वं सिषाधयिषु: पूर्वपक्षिण: शंकायां सिद्धान्ते “ यत्र वस्तुस्वरूपनिरपेक्ष्यैव चोद्यते “ इत्यादि वाक्यै: तयो: वैलक्षण्यं प्रदर्शितं भगवत्पादै: || तत्राsयं रत्नप्रभाव्याख्यानसारांश: ||

विषयवस्त्वनपेक्षा कृतिसाध्या च क्रिया || “ यस्यै देवतायै हविर्गृहीतं स्यात् तां मनसा ध्यायेद्वषट् करिष्यन्“ इति संध्यां मनसा ध्यायेत् “( ऐ .ब्रा*3-81) इति चैवमादिषु यथा यादृशी ध्यानक्रिया वस्त्वनपेक्षा पुंतन्त्रा च चोद्यते तादृशी क्रिया || ध्यानं यद्यपि   मानसं तथापि कृतिसाध्यत्वात्क्रियैव || परन्तु ज्ञानस्य ततो वैलक्षण्यम् || ततो वस्त्वव्यभिचारादपुंतन्त्रत्वाच्च ध्यानात् ज्ञानस्य महाद्वैलक्षण्यम् ||

अत्र ” आत्मानं पश्येत् “ (बृ.उ* 4.4.23)”ब्रह्म त्वं विद्धि”(के.उ*1.5) “आत्मा वा अरे द्रष्टव्य:” (बृ.उ* 2.4.5) इति ज्ञाने लिङ्-लोट्-तव्यप्रत्यया: विधायका: श्रूयन्ते अतो ज्ञानमपि विधेयमिति प्राप्ते उक्तं भगवत्पदै: || “ तद्विषये लिङ्गादय:   श्रूयमाणा: अपि अनियोज्यविषयत्वात् कुण्ठीभवन्त्युपलादिषु  प्रयुक्तक्षुरतैक्ष्ण्य वदित्यादि || कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानम् || तस्मिन् ज्ञानरूपविषये विधय: प्रवर्तयितु मशक्ता: भवन्तीति रत्नप्रभाविवरणम् || अपि चात्र ब्रह्मण: अहेयाsनुपादेयवस्तुविषयत्वात् ज्ञेयत्वेनाsपि विधेयत्वं नास्ति ||

 अथ किमर्थानि तर्हि “आत्मा वा अरे द्रष्टव्य: “  इत्यादि विधिच्छायानि वचनानीत्याशंकायां “स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानि” इत्युक्तं भगवत्पादै: ||   अत्र  ‘विधिच्छायानि’ इत्यत्र ‘प्रसिद्धयागादिविधितुल्यानि’ इति रत्नप्रभा ||          तथा च विधिप्रत्ययै: आत्मज्ञानं परमपुरु षार्थसाधनमिति स्तूयते, स्तुत्या आत्यन्तिके ष्टहेतुत्वभ्रान्त्या या विषयेषु प्रवृत्ति: आत्मश्रवणादि प्रतिबन्धिका  तन्निवृत्तिफलानि विधिपदानीति च रत्नप्रभासारांश:  ||

एवं च आत्मज्ञानप्रतिबन्धकनिवृत्तिफलत्वमेव विधेयत्वमिति सिद्धम्  || अत एव “आत्मा वा अरे द्रष्टव्य: इत्यादौ “द्रष्टव्य:”  इत्यत्र ‘दृशि’ धातोत्तर

तव्यप्रत्ययस्यार्हार्थकत्वं स्वीकृत्य आत्मा दर्शनार्ह: इति वक्तव्यम् || आत्मनोsद्वितीयत्वादात्मबोधे विधिर्नास्तीति  सर्वाश्च श्रुतय: उद्घोषयन्ति || तथा हि :- “इदं सर्वं यदयमात्मा“ (बृ.उ* 2.4.6) “यत्र त्वस्य सर्वमात्मै वाsभूत्तत्केन कं पश्येत्”(बृ.उ* 4.5.15) इत्यादि || अत्र आत्मन: कृति विषयत्वाभावे हानोपादानाय वा न भवतीति पूर्वपक्षे प्राप्ते “ अलङ्कारो ह्ययमस्माकं  यद्ब्रह्मावगतौ सत्यां  सर्वकर्तव्यताहानि: , कृतकृत्यता चेति सिद्धान्तितं भगवत्पादै: || तथा च श्रुति: ||

आत्मानं चेद्विजानीयादहमस्मीति पूरुष:   

किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत्” ( बृ.उ *4.4.12) इति || एवं च  ब्रह्मण: कृत्यसाध्यत्वात् , उपासनाsविषयत्वात्,  ज्ञान रूपत्वाच्च न प्रतिपत्तिविधिविषयत्वम् ||

 ...अनुवर्तते....

No comments: