Monday, November 17, 2025

A Study of Ratnaprabha – 42

 

A Study of Ratnaprabha – 42

रत्नप्रभाविमर्श:

अष्टमोऽध्यायः 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO,

Bhasha praveena , Vedanta vidya Praveena,

M A (Sanskrit), M A (Telugu), M A (Philosophy)

 & Ph D (Sanskrit)

उपसंहार:

 तत्रभवन्त: रामानन्दसरस्वतीमहाभागा: पदवाक्यन्यायवेदान्तशास्त्रेषु परिनिष्ठितप्रज्ञा: इति रत्नप्रभाव्याख्यानपरिशीलनादवगम्यते || रत्नप्रभायां प्रायश: तत्प्राचीनानां सर्वेषां भाष्यव्याख्यातृणां मतानि यथावकाशं तत्र तत्र परामृष्टानि विमृष्टानि च दृश्यन्ते ||  तदुक्तं स्वयमेव ग्रन्थकारै: ----विस्तृतग्रन्थवीक्षायामलसं यस्य मानसं |

व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा ||

(र*प्र*page-2,sloka-6)

नानाविधग्रन्थजातं वीक्ष्य सम्यग्यथामति |

शारीरकस्य भाष्यस्य कृता व्याख्या सतां मुदे ||

(र*प्र* ग्रन्थान्ते ) इत्यादि ||

तथा च सर्वव्याख्यानपरिशीलनपूर्विका, भगवत्पादहृदयदर्शिनी चेयं व्याख्या भामती , विवरण , न्यायनिर्णयादि व्याख्यानानीव  महत्त्वपूर्णा , प्रामाणिकी  च चकास्ति ||

अत्रेयमाशङ्का स्यात् ||

रामानन्दै: विरचिता: सर्वे ग्रन्था: प्रायश: व्याख्यानरूपा एवेत्यत: तेषां नवीनदिशा प्रदर्शनग्रन्थनिर्माणदक्षता नासीद्वेति || तन्न समीचीनम् || उपज्ञा तावत् त्रिविधा भवति || प्रथमा नवीनोपक्रममारचयति || द्वितीया चोपक्रान्तविषयस्य विमर्शेन विवृतिं तनोति || तृतीया त्वतिविस्तृतविषयस्य संग्रहेण विशदीकरोति || तत्र प्रथमप्रक्रियाया: एव महानादर: नेतरयो: इति न भाव्यम् || विषयप्रपञ्चनस्यापि कष्टसाध्यत्वात् || वस्तुतस्तु मूलकर्त्रपेक्षया व्याख्याकर्तुरेव क्लेशोsधिको भवति ||  यत: अभिप्रायप्रकटने मूलकर्तु: यादृशं स्वातन्त्र्यमस्ति तादृशं स्वातन्त्र्यं व्याख्यानकर्तु: नास्त्येव || तत: मूलतात्पर्यमवगम्य विस्तरेण प्रतिपादने महान् क्लेशोsनुभूयते व्याख्याकारै: || अतो हेतो: मूलकर्तु: यावान् गौरव: प्रदर्शित: तावानेव गौरव:  व्याख्यातृविषयेsपि प्रदर्शितो दृश्यते पण्डितप्रवरै: ||

प्रत्यधिकरणस्यारम्भेsधिकरणरचना रत्न प्रभाव्याख्याने विषेषांशत्वेन परिगणनीया भवति || रत्नप्रभा चेयं भामतीविवरणादिव्याख्यानवत् गाम्भीर्यं प्रामाण्यञ्च वहती तदपेक्षया सरला सुलभावगाहा च वरीवर्ति || तद्यथा तत्रादावध्यासभाष्यव्याख्यानावसरे अध्यासस्वरुपप्रदर्शने भगवत्पादानामाशय: स्पष्टं प्रकाशित: || अध्यास लक्षणनिरुपणावसरे  भगवत्पादोक्तस्य स्मृतिरूप: परत्र पूर्वदृष्टावभास:   इति लक्षणस्य अत्र परत्रावभास: इत्येव लक्षणं शिष्टं पदद्वयं तदुपपादनार्थंम् इति यदुक्तं तत्तेषामक्षरलाघवप्रज्ञाम् अथवा अल्पाक्षरेsनल्पार्थबोधनप्रज्ञां व्यक्तीकरोति || तत: एकावच्छेदेन  स्वसंसृज्यमाने स्वात्यन्ताभाववत्यवभास्यत्वम् इति त्रिपदात्मकं साद्यनाद्यध्याससाधारणलक्षणं यदुक्तं  तत्तेषां न्यायशास्त्रवैदुष्यं प्रकटीकरोति ||

          अपि च आत्मनोsपि विषयत्वं समर्थयितुं नाsयमेकान्तेनाsविषय: अस्मत्प्रत्ययविषयत्वादित्याद्युक्तं भगवत्पादै: || अत्र रत्नप्रभाकारैस्तु भानभिन्नत्वे सति भानप्रयुक्त संशयनिवृत्त्यादिफलभाक्त्वरूपं विषयत्वमेकं भानभिन्नत्वरहितं भानप्रयोज्यसंशयनिवृत्त्यादि फलभाक्त्वमपरमिति विषयत्वं द्विधा व्याख्याय तत्रात्मनि प्रथमरुपविषयत्वस्य अभावेऽपि द्वितीयरूपं विषयत्वं संभवत्येवेति सुष्ठु विविच्य प्रतिपादितम् || एवमेव कारणाध्यासमप्रदर्श्य कार्याध्यासप्रदर्शने  भगवत्पादानामभिप्राय: अत्र कार्याध्यास एवानर्थहेतु: न कारणाध्यास: इत्यादि समर्थित: रत्नप्रभाकारै: || तत: ख्यातिवादप्रसङ्गे इतरमतापेक्षयाsनिर्वचनीयख्याते: वैशिष्ट्यं स्पष्टं प्रतिपादितं रत्नप्रभाकारै: || एतावता अध्यासभाष्य व्याख्याने तत्स्वरूपं , तद्भेदा: , तन्निवृत्यादि विषयाश्च सुनिपुणं प्रदर्शिता: रत्नप्रभाकारै: ||

जिज्ञासाधिकरणे ब्रह्मजिज्ञासायामधिकारिनिरुपणावसरे साधनचतुष्टयसंपत्तेरावश्यकता , साधनचतुष्टये पूर्वपूर्वस्योत्तरोत्तरहेतुत्वमित्यादि विषया: अपि स्पष्टं प्रतिपादिता:||  ततो ब्रह्मजिज्ञासाया: आवश्यकता , आत्मस्वरूपविषये विविधदार्शनिकानां  मतानि च स्वकृतविवरणोपन्यासे एव प्रदर्शितानीति तेषाञ्च प्रसङ्गो नाssनीत: रत्नप्रभायाम् || तत्रात्मन: स्वरुपनिरुपणविषये तु विविधदार्शनिकमतप्रदर्शनं तेषां सर्वशास्त्रपरिचयं स्पष्टीकरोति || किञ्च जिज्ञासापद व्याख्यानावसरे भगवत्पादै: अवगति पर्यन्तं ज्ञानं सन्  वाच्याया: इच्छाया: कर्म इत्याद्युक्तम् ||         

    तत्र रत्नप्रभाकारै: आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यं ज्ञानमवगतिरिति व्याख्यानेन अद्वैते मोक्षस्वरूपं स्पष्टं प्रदर्शितं भवति ||

शास्त्रयोनित्वाधिकरणे जगत्कारणत्वेन अनुमितं ब्रह्मण: सर्वज्ञत्वं  वेदहेतुत्वेनापि प्रदर्शितम् || अपि च वेदानां नित्यत्वे ब्रह्मण: शास्त्रयोनित्वं नास्तीति , ब्रह्मण: वेदकर्तृकत्वे तेषामपौरुषेयत्वमेव न घटते इति शङ्कायां यत्र ह्यर्थज्ञानपूर्वकं  वाक्यज्ञानं वाक्य सृष्टौ कारणं तत्र पौरुषेयता, अत्र च परमेश्वर: स्वकृत पूर्वकल्पीयक्रमवन्तं वेदराशिं तदर्थांश्च युगपज्जानन्न्नेव करोतीति न  वेदस्य पौरुषेयता इति वेदानामपौरुषेयत्वं साधितम् ||  अत्र रत्नप्रभाकारै: स्वप्रतिभा सुनिपुणं प्रादर्शि ||

समन्वयो नाम तुरीयेsधिकरणे ब्रह्मण: शास्त्रयोनित्वं न घटते इति पूर्वपक्षीकुर्वता भाट्टमीमांसकानां मतं ब्रह्मण: षड्विधलिङ्गतात्पर्यविषयत्वप्रदर्शनेन तन्निरा कृतम् || अत्र सर्वेषामुपनिषद्वाक्यानां अद्वैतब्रह्मतात्पर्यकत्वं रत्नप्रभाकारै: स्पष्टं न्यरुपि ||

ततो ब्रह्मण: शास्त्रप्रमाणकत्वमस्त्येव किन्तु प्रतिपत्ति विधिविषयत्वेन तदुपपद्यते न स्वातन्त्र्येणेति वदतां वृत्तिकाराणां मतं सम्यक् प्रदर्श्य सिद्धान्ते कर्मब्रह्मणो: व्यत्यास: ब्रह्मण:  ज्ञानैकवेद्यत्वञ्च स्पष्टं प्रत्यपादि || अत्र रत्नप्रभाव्याख्या सर्वाsपि विवरणरूपा चकास्ति ||

तदनन्तरं प्रवृत्तिनिवृत्ति-तच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति प्राभाकराणां मतमनूद्य रज्जुरियं नाsयं सर्प: इत्याद्युदाहरणै: तन्निराकृतम् || ततो मोक्षस्वरूपं, जीवन्मुक्तिदशा, मोक्षोपायादि विषया: विवृता: रत्नप्रभाकारै: || व्याख्यानेsस्मिन् शास्त्रान्तराणां पाण्डित्यं विशिष्य तर्कशास्त्रपाण्डित्यप्रदर्शनं यथावसरमेव कृतं व्याख्याकारैरिति         नाsमूलं लिख्यते किञ्चित् इति नियममनुसरती त्यवश्यमङ्गीकर्तव्यम् || एते प्रायश: विवरणमतानुयायिन: इति स्पष्टमवगम्यते || अपि च अनुभूतिस्वरुपाचार्यकृतप्रकटार्थविवरणेन प्रभाविता: एते रत्नप्रभाकारा: भामतीकाराणां विषये एतत् सूत्रभाष्यभावानभिज्ञा: सन्यासाश्रमश्रवणादौ विधिर्नास्तीति वदन्ति इत्यादि वाक्यै: विमर्शनतैक्ष्ण्यं प्रदर्शयन्ति || रत्नप्रभाकारै: पञ्चपादिका, भामती, प्रकटार्थविवरणं, पञ्चपादिका विवरणम् , भाष्यभावप्रकाशिका, न्यायनिर्णय: इत्यादि ग्रन्थानां परामर्श: तत्र तत्र कृत: ||                               

         साद्यनाद्यध्याससाधारणलक्षणं, जिज्ञासापदविवरणं, अधिकारिनिरुपणे पुर्वोक्तांशा: आत्मस्वरुपप्रतिपादने पूर्वपूर्वशास्त्राणां  दोषप्रदर्शनेन वेदान्तसम्मताssत्मतत्त्वप्रदर्शनं, वेदानामपौरुषेयत्वसमर्थनम् इत्याद्यंशा: रत्नप्रभाकाराणां  स्वोपज्ञका: इति सम्भावनीयम् ||      

एवञ्च भगवत्पादहृदयमवगन्तुं रत्नप्रभा अत्यन्तमुपकरोतीति हेतो: पण्डितैः जिज्ञासुभिश्च इयमेव व्याख्या अधीयतेsध्याप्यते च || अत: भामत्यादिव्याख्यानानीवेयं रत्नप्रभाsपि प्रामाणिकी , गम्भीरा, अद्वैतसिद्धान्तप्रदर्शने समग्रा च ||

      रत्नप्रभाया: व्याख्या अभिव्यक्ताख्या यद्यपि चतुस्सूत्रीपर्यन्ता तथाप्यतिविस्तृताsद्वैतसिद्धान्तप्रदर्शने sतिसमग्रा  च वरीवर्ति || एवमेव रत्नप्रभाया: अपरा व्याख्या भागदीपिकाsपि यद्यपि ईक्षत्यधिकरणपर्यन्ता एव समुपलभ्यते तथापि विषयनिरुपणे संपूर्णा समग्रा च वरीवर्ति || तत्र भागदीपिकापेक्षयाsभिव्यक्ता तावदतिसरला विस्तृता च || प्रायश: तयोर्मध्ये सिद्धान्तभेदो नास्त्येव || किन्तु विषयप्रपञ्चनसरल्यामेव वैविध्यम् || अभिव्यक्तायां भामती, विवरणं, वाक्यवृत्तिव्याख्या, ब्रह्मविद्याभारणम् इत्यादि ग्रन्था: तत्र तत्र परामृष्टा: || भागदीपिकायामद्वैतदीपिकादिग्रन्था: प्रस्ताविता: || उभावपि रत्नप्रभानिरुपितार्थप्रपञ्चने अति समर्थावित्यलमतिविस्तरेण ||          

                                                            <*>(*)<*>

 

 

 

 

 

 

 

 

 

 

 

 

No comments: