रत्नप्रभाविमर्श:
सप्तमोऽध्यायः
समन्वयाधिकरणम्
Author:
DR. CHILAKAMARTHI DURGA PRASADA RAO
....गताङ्कादग्रे....
-: प्राभाकरणां पूर्वपक्ष:
:-
मीमांसकैकदेशिन:
प्राभाकरा: कार्यान्वितार्थे शक्तिमिच्छन्ति || पदानामेव संसृष्टस्वार्थ प्रतिपादनमन्विताभिधानं
नाम इति विवरणाचार्या: (पञ्चपादिकाविवरणम्-page-787) (अत्र अन्विताभिधानवादिनां प्राभाकरमीमांसकानां मते पदं शक्त्या
न अन्वितं स्वतन्त्रं पदार्थमुपस्थापयति अपि तु पदान्तरेण अन्वितं पदार्थम् एव ||
तथा च घटपदं न केवलं घटपदार्थं बोधयति , अपि तु आनयनादिक्रियया संबन्धयुक्तं घटपदमेव || एवं ‘आनय’ इति पदस्यापि न अनन्वितायां क्रियायां शक्ति: , अपि तु घटादिपदार्थेन अन्वितायां क्रियायामेव || तथा चैतेषां मते पदं शक्त्या न अनन्वितं स्वतन्त्रपदमुपस्थापयति अपि तु पदान्तरेणान्वितं पदार्थमेव ||
एवं प्राभाकरास्तु सर्वस्यापि शास्त्रस्य
कार्यपरत्वमभ्युपगच्छन्ति || तेषां च मतं “यद्यपि केचेदाहु: प्रवृत्तिनिवृत्तितच्छेष
व्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीत्यादि प्रदर्शितं भगवत्पादै: || प्राभाकराणामयमभिप्राय:
यत् सर्वस्यापि शास्त्रस्य कार्यपरत्वमेवेति || कार्यं नाम कृतिसध्यम् || अत एव ते
कार्यान्वितशक्तिमभ्युपगच्छन्ति || कार्यत्व विषयतया - साक्षात्परंपरया वा निरूपिता
या विषयता तादृशविषयताशालिशाब्द बुद्धित्वावच्छिन्नं प्रति लिङ्, लोट् , तव्यप्रत्ययान्यतमस्य
कारणत्वम् || लोके हि ‘घटमानाय’ “ गामानय” “घटमानय” “गां नय ” “ गां बधान” इत्यादिषु आनयन, नयन, बन्धनादि कार्यान्वित
घटपटादिपदानां शक्तिरवधार्यते ||
“घटमानय” इत्यत्र घटानयनं कार्यमिति बोधो जायते || कार्यत्वाsविषयतया
साक्षान्निरूपिता विषयता आनयननिष्ठविषयता परम्परया निरूपिता विषयता तु घटादिनिष्ठा
विषयता || तादृशबुद्धिं प्रति लिङ्गादिज्ञानस्य कारणत्वं
अन्वयव्यतिरेकानुभवसिद्धम् || लिङ्गादिरहितस्य वाक्यस्य तु अर्थाsवबोधो नास्त्येव
||
‘सप्तद्वीपा वसुमती’ ‘राजाsसौ गच्छति’ इत्यादिस्थलेषु सप्तद्वीपा वसुमती तामवेहि
, जानीयाद्वा ; राजाsसौ गच्छति तं पश्य इति लिङ्गादिपदाध्याहारेणैव तत्र शाब्द बोधो निर्वाह्यते ||
द्वारमित्यादौ पिधेति पदाध्याहारेणैव शाब्दबोधो निर्वाह्यते || यत्र द्रव्यदेवताकं
स्तूयते तत्र यजेत इति विधिं परिकल्प्य विध्यर्थविषयकबोधजनकत्वेन
तादृशवाक्यस्य प्रामाण्यमभ्युपगम्यते ||
एवं वेदान्तवाक्येष्वपि ‘तत्त्वमसि’ इत्यत्र तत्त्वमसीत्युपासीत, ‘अहं ब्रह्माsस्मि’ इत्यत्र अहं
ब्रह्मेत्युपासीत इत्येवं , “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादौ गम्यत्वरूप लिङ्गाद्यध्याहारेणैव
तत्र बोध: संपादनीय: प्रामाण्यञ्च
संपादनीयम् ||
तथा च वस्तुमात्रकथनेन प्रयोजनं नास्तीति सिद्धबोधिवेदान्तानां कूटस्थब्रह्मबोधकत्वेन
प्रामाण्यं न संभवति || अतस्तेषां यथाकथं चित् कार्यपरत्वेनैव प्रामाण्यं
संपादनीयमिति तेषामाशय: ||
.....अनुवर्तते .....
No comments:
Post a Comment